Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay
View full book text ________________ 260 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते सुखादयो दश सुखयाता यातसुखेत्यादि // 152 // अ० शाङ्गरस्य वृक्षस्य विकारः फलं 'दोरप्राणिनः' (6 / 2 / 49) इति सूत्रेण मयट्, ‘फले' (6 / 2 / 58) लुक् इति सूत्रेण मयट लुप्यते / शाङ्गरं जग्धमनया शाङ्गरजग्धी 'अनाच्छादजात्या०' (2 / 4 / 47) इति ङीः / पाणौ गृह्यते स्म इति पाणिगृहीती 'क्तक्तवतू' (5 / 1 / 174) अथवा पाणिर्गृहीतोऽस्याः पाणिगृहीती / सुखदुःख तृप्र कृच्छ्र अस्र अलीक करुण कृपण सोढ प्रतीप इति सुखादिशब्दाः / दुःखहीना हीनदुःखा // 152 / / आहिताग्न्यादिषु // 3 // 1153 // आहिताग्न्यादिषु बहुव्रीही तान्तं पूर्व वा निपतति / आहितोऽग्निर्येन स आहिताग्निः अग्न्याहितः / जातपुत्रः पुत्रजात इत्यादि // 153 // / ___अ० आहिताग्निः / आदिशब्दात् जातदन्तः दन्तजातः / जातश्मश्रुः श्मश्रुजातः / पीततैलः तैलपीतः / पीतघृतः घृतपीतः / पीतमद्यः मद्यपीतः / पीतविषः विषपीतः / ऊढभार्यः भार्योढः / गतार्थः अर्थगतः / छिन्त्रशीर्षः शीर्षच्छिन्नः इति आहिताग्निगणः / बहुवचनमाकृतिगणार्थम् / तेन पीतदधिः दधिपीतः इत्यादयोऽपि ज्ञातव्याः / 'धागः' (4 / 4 / 15) इत्यनेन दधातेर्हिरादेशः 'आः खनिसनिजनः' (4 / 2 / 60) इत्यनेन आत्वम् // 153 / / प्रहरणात् // 3 / 1 / 154 // प्रहरणवाचिशब्दात् क्तान्तं बहुव्रीही पूर्व वा स्यात् / उद्यतोऽसिरनेन 'उद्यतासिः अस्युद्यतः / आकृष्टधन्वा धनुराकृष्टः / उद्यतमुशलः मुशलोद्यतः // 154 // अ० २कलितप्रहरणः / प्रहरणकलितः // 154 // - न सप्तमीन्द्वादिभ्यश्च // 3 // 1 // 15 // . नवेति 'निवृत्तं नप्रकरणात्, इन्दु आदेः प्रहरणवाचिशब्दाच्च पूर्व सप्तम्यन्तं न निपतति बहुव्रीहौ / इन्दुहेलौ यस्य (स) इन्दुमौलिः चन्द्रमौलिः इत्यादि / प्रहरणात्, असिः पाणावस्य असिपाणिः दण्डपाणिः चक्रपाणिः पाशहस्तः / बहुलाधिकारात् पाणिवज्रः हस्तवज्रः / अत्र पूर्वनिपातोऽपि प्रयोगानुसारार्थम् / एवमुत्तरत्रापि // 155 // . अ० 'न सप्तमी'त्यादि / अत्र सप्तम्यन्तशब्दस्य विशेषणत्वात् 'विशेषणसर्वादि०' (3 / 1 / 150) इत्यनेन पूर्वनिपाते प्राप्ते पूर्वनिपातनिषेधसूत्रमिदम् / इन्दुमौलिः चन्द्रमौलिः शशिशेखरः पद्मनाभः ऊर्णनाभः / ऊर्णा नाभौ यस्य 'नाभेर्नाम्नि' (7 / 3 / 134) इत्यत् ‘ड्यापो बहुलं नाम्नि' (2 / 4 / 99) ह्रस्वः / पद्महस्तः शङ्खपाणिः दर्भपवित्रपाणिः पद्मपाणिरित्यादि / प्रहरणात्, असिपाणिः खङ्गपाणिः दण्डपाणिः शूलपाणिः चक्रपाणिः शार्ङ्गपाणिः धनुष्यपाणिः धनुहस्तः पाशहस्तः खङ्गहस्तः / वज्रहस्तः वज्रपाणिः इति प्रयोगाः // 155 / / गड्वादिभ्यः // 3 // 11156 // नवेत्यनुवर्तते पृथग्वचनात् गड्वादिभ्यो बहुव्रीहौ सप्तम्यन्तं पूर्व वा निपतति / गडुः कण्ठे यस्य कण्ठे गडुः गडुकण्ठः इत्यादि // 156 // 1. अत्र 'जातिकालेत्यनेन जातिशब्दानां अस्यादीनां पूर्वनिपाते सिद्धावपि व्यक्तेर्विवक्षायां तत् सिद्धयर्थमिदम् / 2. प्रहरणवाचिशब्दोऽस्यादिवत् प्रहरणशब्दोऽपि भवतीत्याशयेन 'कलितप्रहरणः' इत्युदाहृतम् / 3. अस्मिन्नेव सूत्रे इति शेषः /
Loading... Page Navigation 1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310