Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

View full book text
Previous | Next

Page 279
________________ 272 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते सोमस्येकारसन्नियोगे षत्वं च निपात्यते / अग्नीषोमौ अग्नीवरुणौ / देवताद्वन्द्वे इति किम् ? अग्निसोमौ 'बद // 42 // अ० अग्नि (श्च) सोमश्च, अग्निश्च वरुणश्च // 42 / / ___ इर्वृद्धिमत्यविष्णौ // 3 // 2 // 43 // विष्णुवर्जिते वृद्धिमत्युत्तरपदे परे देवताद्वन्द्वेऽग्निरिकारोऽन्तादेशः स्यात् / ईकाराकारयोरपवादः / अग्नी. षोमो देवते अस्य आग्निसौमं कर्म / वृद्धिमतीति किम् ? अग्नी'वरुणौ आग्नेन्द्रं कर्म / अविष्णाविति किम् / आग्नावैष्णवं चरुं निर्वपेत् // 43 // अ० अग्नीषोमौ देवते अस्य इति सत्य / अग्नीषोमौ देवते अस्येति वाक्ये 'देवता' (6 / 2 / 101) इति सूत्रेण अण् ‘देवतानामात्वदौ' (7 / 4 / 28) इति सूत्रेण पूर्वपदस्य उत्तरपदस्य च अन्ते वृद्धिर्भवति / एवं आग्निमारुतम् अग्निश्च इन्द्रश्च आग्नेन्द्रौ, आग्नेन्द्रौ देवते अस्य 'देवता' अण् अत्र ‘आतो नेन्द्रवरुणस्य' (7 / 4 / 29) इति वृद्धिनिषेधः उत्तरपदस्य / अग्निश्च विष्णुश्च अग्नाविष्णू, देवताऽस्य 'देवता' अण् ‘देवतानामा०' इति उभयत्र वृद्धिः / / 43 / / दिवो द्यावा // 3 // 2 // 44 // देवताद्वन्द्वे दिवशब्दस्योत्तरपदे परे द्यावा इत्यादेशः स्यात् / द्यावाभूमी // 44 // अ० द्योश्च भूमिश्च / एवं द्यावाक्षमे / द्यावानक्ते नक्तशब्दोऽकारान्तोऽप्यस्ति अनव्ययम् // 44 / / दिवस्दिवः पृथिव्यां वा // 3 // 2 // 45 // दिवशब्दस्य पृथिवीशब्दे परे देवताद्वन्द्वे दिवस् दिवः इत्यादेशौ वा स्याताम् / दिवस्पृथिव्यौ, दिवः. पृथिव्यौ, यावापृथिव्यौ // 45 // ___ अ० दिवः इति विसर्गान्तस्य निर्देशात् दिवस् इति सकारस्य 'सोरुः' (2 / 1 / 72) इत्यनेन रुत्वं न भवति आदेशबलात् / द्यौश्च पृथिवी चेति द्वन्द्वः // 45 // उषासोषसः // 3 // 2 // 46 // देवताद्वन्द्वे उत्तरपदे परे उषस् शब्दस्य उषासा इत्यादेशः स्यात् / उषाश्च सूर्यश्च उषासासूर्यम् // 46 // अ० उषस् शब्दो प्रभातवाचको नपुंसकः / सन्ध्यावाचकस्तु स्त्रीपुनपुंसकः / उषासासूर्यम्, उषासानक्तम् इति प्रयोगा ज्ञेयाः नक्तं इत्यव्ययम्, नक्त इति अनन्ययोऽकारान्तः / / 46 / / मातरपितरं वा // 3 // 2 // 47 // मातृपितृशब्दयोः पूर्वोत्तरयोर्द्वन्दे मातरपितरेति ऋकारस्य अर इति वा निपात्यते / मातरपितरौ, मातरपितराभ्याम् / पक्षे, मातापितरौ / एकशेषे तु पितरौ // 47 // अ० मातरपितरं इति शब्दरूपापेक्षो नपुंसकैकवचननिर्देश उत्तरपदस्य अरभावाभिव्यक्त्यर्थः / अन्यथा मातरपितरौ इत्यत्र ‘अझै च' (1 / 4 / 39) इत्यनेन अर् आदेशोऽपि संभाव्येत / एवं च मातरपितराभ्यामिति न सिध्येत / मातरपितरयोः / 'आ द्वन्द्वे' (3 / 2 / 39) मातृपितृभ्याम् 'पितामात्रा वा' (3 / 1 / 122) इत्यनेन पितृशेषः / / 47|| 1. तन्नामनी पुरुषौ न देवते इति भावः / 2. अग्निश्च वरुणश्च अग्नीवरुणौ देवते अस्य अण् प्रत्यये 'आतो नेन्द्रवरुणस्य' इति सूत्रेण उत्तरपदस्य वरुणस्य वृद्धचभावः इत्यपि ज्ञेयम्, अग्रीवरुणो देवते अस्पआग्निवारुणीमनड्वाहीमालभेत इति तु भवति /

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310