Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay
________________ 278 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलकृते पटुत्वं, पटुता / एन्या भाव एतत्वं, एतता / श्येन्या भावः श्येतत्वं, श्येतता / त्वते इत्येव ? पट्वीरूप्यं / गुण इति किम् ? दत्तात्वं दत्ताता, केचित्तु जातिसञ्ज्ञावर्जितस्य विशेषणमात्रस्य पुंवद्भावमिच्छन्ति / पाचिकाया भावः पाचकत्वं / एवं द्वितीयाया भावो द्वितीयत्वं पञ्चम्या (भावः) पञ्चमत्वं / चन्द्रमुख्याः (भावः) चन्द्रमुखत्वं / सुकेश्याः (भावः) सुकेशत्वं / 'कामिनां मण्डनश्रीव्रजति हि सफलत्वं वल्लभालोकनेन' / रसवत्या धूमवच्च / भुवस्तृणवच्च इत्यादि // 59 // ____ अ० गुणद्वारेण गुणिनि वर्तमानो गुणवचनो गुणशब्दो गृह्यते / गुणमात्रवृत्तेषु अस्त्रीलिङ्गत्वात् पुंवद्भावाऽप्राप्तेः 'भावे त्वतल्' (7 / 1 / 55) पट्ट्या आगतं पट्वीरूप्यं नृहेतुभ्यो रूप्यमयटौ वा (6 / 3 / 156) इति रूप्यप्रत्ययः, देवदत्तात्वं केचिदिति तन्मतसङ्ग्रहार्थं ‘गुणो विशेषणमित्यपि सूत्रार्थे व्याख्येयं मद्रकत्वं / / द्वितीयत्वं / पञ्चमत्वं / एवं माथुरत्वं / 'तदवितथमवादी यन्ममत्वं प्रियेति प्रियजनपरिमुक्तं यदुकूलं दधानः / मदधिवसतिमागाः कामिनामित्यादि / सफलाया भावः सफलत्वं, धूमवत्या भावो धूमवत्वं, तृणवत्या भावः // 59 // . चौ कचित् // 3 // 2 // 60 // ___ परतः स्त्री अनूङ् च्वौ पुंवत्स्यात् / कचिल्लक्षानुसारेम / अमहती महती भूता महद्भूता कन्या, कचिद् ग्रहणाद् गोमती भूता गोमतीभूता इत्यादौ न पुंवद्भावः // 60 // अ० महती भूता इत्यपि प्रयोगं केचिदाहुः / / पट्वी भूता पटू भूता, मृद्वी कृता मृदू कृता इत्यादौ विकल्पः // 60 // सर्वादयोऽस्यादौ // 3 // 2 // 61 // सर्वादिगणः परतः स्त्री पुंवत्स्यात्, अस्यादौ-सर्वादेः परश्चेत् स्यादिर्न भवति / वाक्यं सर्वासां स्त्रियः सर्वस्त्रियः / भवत्याः पुत्रो भवत्पुत्रः / एकस्याः क्षीरं एकक्षीरं / तया प्रकृत्यां तथा / यया प्रकृत्या तथा। यया प्रकृत्या यथा / तस्यां वेलायां तदा / एवं यदा / सर्वामिच्छति सर्वकाम्यति / भवती मिच्छति भवत्काम्यति / एककाम्यति / परत्वात् प्रतिषेधविषयेऽपि पुंवद्भावः / सर्वा प्रियाऽस्य सर्वप्रियाः। सर्विका भार्याऽस्य सर्वकभार्यः / अस्यादाविति किम् ? सर्वस्यै / दक्षिणपूर्वस्यै // 61 // ___ अ० यस्यां वेलायां यदा, कस्यां वेलायां कदा, अन्यस्यां वेलायां अन्यदा / एवं, तर्हि, यर्हि, कर्हि / सर्वादयोऽस्यादौ, अत्र बहुवचनं व्याप्त्यर्थम् / तेन भूतपूर्वसर्वादेरपि पुंवद्भावः / दक्षिणा च उत्तरा च पूर्वा च दक्षिणोत्तरपूर्वाः, तेषां अत्र 'न सर्वादिः' (1 / 4 / 12) इति सूत्रेण द्वन्द्वे, सर्वादिकार्यं न भवति, परं पुंवद्भावो भवत्येव, सर्वादयोऽस्या० इत्यनेन / दक्षिणोत्तरपूर्वाणां इति सिद्धं / इयमवचूरिः सूत्रप्रान्ते // 61 / / मृगक्षीरादिषु वा // 3 / 2 / 62 // मृगक्षीरादिषु समासशब्देषु परतः स्त्रीलिङ्गमनेकार्थेऽस्त्र्यर्थे चोत्तरपदे वा पुंवत्स्यात् / मृग्याः क्षीरं मृगक्षीरं, मृगीक्षीरम् / कुकुटाण्डं, कुकुट्टयण्डं / काकाण्डं, काक्यण्डं / मयूराण्डं, मयूर्यण्डं / मृगशावः मृगीशावः। मृगक्षीरादयः प्रयोगतोऽनुसर्त्तव्याः // 62 // __ अ० ननु मृग्याः पदं मृगीपदं / मृगस्य पदं मृगपदं इति कृतेपि समासे सेत्स्यति किमनेन इत्याह / पुंस्त्रीलिङ्गपूर्वपदभेदेन समासविवक्षायां सूत्राकरणे मृगक्षीरादयो न सिध्यन्ति, नहि मृगस्य क्षीरं भवति इति भावः
Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310