Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 283
________________ 276 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते अथवा अग्नायी देवताऽस्येति वाक्ये 'कल्यग्नेरेयण' (6 / 1 / 17) डाः पूडः ['ड्याप्त्यूङः'] एयण् // 52 // नाप प्रियादौ // 3 // 2 // 53 // पूरण्यप् प्रत्ययान्ते स्त्र्येकार्थे उत्तरपदे प्रियादौ च परे परतः स्त्रीपुंवन्न भवति / अप्, कल्याणी प्रियाऽस्य कल्याणीप्रियः एवं भव्याप्रिय इत्यादि कल्याणीभक्तिरितियावत् / कथं दृढभक्तिः ? स्थिरभक्तिः इत्यादि / दृढं भक्तिरस्य इत्येवं अस्त्रीपूर्वपदस्य विवक्षितत्वात् / अप् प्रियादाविति किम् ? कल्याणपञ्चमीकः पक्षः, कल्याणप्रमाणाः ॥छ॥५३॥ अ० पूरणप्रत्ययान्तः स्त्रीलिङ्गः शब्दोपि पूरणी उच्यते, प्रिया मनोज्ञा कल्याणी सुभगा दुर्भगा स्वाक्षान्ता कान्ता वामना समा सचिवा चपला बाला तनया दुहितृ भक्ति इति प्रियादिगणः / कल्याणीप्रियः, (भव्या प्रियास्य भव्याप्रियः) भव्या-मनोज्ञा [अस्य] [भव्यामनोज्ञः]-प्रियाकल्याणीकः, प्रियासुभगः, कल्याणीदुर्भगः, कल्याणीस्वः, प्रियाक्षान्तः, दर्शनीयकान्तः, प्रियावामनः, प्रियासमः, प्रियासविचः, प्रियाचपलः प्रियाबालः, कल्याणीतनयः, प्रियादुहितृकः, कल्याणीभक्तिः, भज्यतेऽसाविति भक्तिः / 'श्वादिभ्यः' (5 / 3 / 92) क्तिरिति प्रियादिउदाहरणावली, कल्याणी पञ्चमी आसां रात्रीणां ताः कल्याणीपञ्चमाः ‘पूरणी भ्यस्तत्प्राधान्येऽप्' / (7 / 3 / 130) इति सूत्रेण पञ्चमीशब्दात् अप् समासान्तः एके वामशब्दोपि प्रियादौ पठन्ति, तन्मते प्रियावाम इत्यादि / आदिशब्दात् शोभनभक्तिः, परिपूर्णभक्तिः, एषु भजनं भक्तिः, “स्त्रियां क्तिः' (53 / / 91) / कल्याणी पञ्चमी अस्मिन् पक्षे कल्याणी प्रमाणी येषां 'प्रमाणी संख्यात् डः' (7 / 3 / 128) // 53 // तद्धिताककोपांत्यपूरण्याख्याः // 3 // 2 // 54 // तद्धितप्रत्ययस्य अप्रत्ययस्य च यः कः स उपान्त्यो यासां तास्तद्धिताककोपान्त्याः, पूरणी प्रत्ययान्ताः आख्या-सञ्ज्ञास्तद्रूपाश्च परतः स्त्रियः पुंवन्न भवंति / तद्धित, मद्रिकाभार्यः / अक, कारिकाभार्यः / पाचिकारूपा / कारिकायते / पाचिकामानिनी / पूरणी, द्वितीयाभार्यः / पञ्चमीदेश्या / नाम-आख्या, दत्ताभार्यः। कस्य तद्धिताकविशेषणं किम् ? पाकभार्यः / कामुककल्पा / लुण्टाकायते ॥छ॥५४॥ अ० तद्धितश्च अकश्च तद्धिताकौ तद्धिताकयोः कः तद्धिताककः, तद्धिताकक उपान्त्यो येषां परतः स्त्रीरूपाणां शब्दानामिति वाक्यं कार्यम्, वृत्त्यभिप्रायेण तु यासां इति कृते ह्रस्वत्वं न स्यात् / तद्धिताककोपान्त्याश्च पूरण्यश्च आख्याश्च उपान्त्या इति प्राप्नुयात्, मद्रेषु भवा मद्रिका 'वृजिमद्राद्दशात्कः' (6 / 3 / 38) इति सूत्रेण कप्रत्ययः, आप् अस्यायेति इत्वं / प्रशस्ता पाचिका, 'त्यादेश्च प्रशस्तेरूपप्' (7 / 3 / 10) / कारिकेवाचरति ‘क्यङ्' (3 / 4 / 26) इत्यनेन क्यङ्, / एवं द्वितीयाकल्पा ईषदपरिसमाप्ता द्वितीया द्वितीयाकल्पाः / एवं पञ्चमीदेश्या, 'अतमबादेरीषदसमाप्ते०' कल्पप् / देश्यप् / दत्ता इति नाम्नी भार्या यस्य, पाका बाला यस्य, लुण्टाका इवाचरति // 54 // तद्धितः स्वरवृद्धिहेतुररक्तविकारे // 3 // 2 // 55 // स्वरस्थानीयवृद्धिहेतुर्यस्तद्धितो रक्तादिविकाराचान्यत्रार्थे विहितस्तदन्तः शब्दः परतः स्त्रीपुंवन्न स्यात् / माथुरीभार्यः। वैदर्भीभार्यः / तद्धित इति किम् ? कुम्भकारभार्यः। वृद्धिहेतुरिति किम् ? अर्द्धप्रस्थभार्यः। स्वरेति किम् ? वैयाकरण भार्यः / अरक्तविकार इति किम् ? काषायबृहतिकः / माञ्जिष्ठबृहतिकः। लौहेषः ॥छ॥५५॥ 1. अन्ये तु वृद्धिमात्रतोर्णितस्तद्धितस्य पुंवत् प्रतिषेधमिच्छन्ति, तन्मते वैयाकरणीभार्यः इति बृहद्वत्तौ अधिकः /

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310