Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

View full book text
Previous | Next

Page 277
________________ 270 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवप्रिभ्यामलङ्कृते ____ अदसः परस्याः षष्ठ्या अकञ् प्रत्ययविषये उत्तरपदे परे आयनण् प्रत्यये च परे लुब् न भवति / अमुष्य पुत्रस्य भावः आमुष्यपुत्रिका अमुष्यापत्यं आमुष्यायणः // 33 // अ० अमुष्य इति अदसः षष्ठ्यन्तं रूपम् / अमुष्य पुत्रस्य भावः आमुष्यपुत्रकः स्त्री चेत्। 'चौरादेः' (7 / 1 / 73) इति सूत्रेण अकञ् / अमुष्यापत्यं आमुष्यायणः, नडादेरायनण् अदसोऽनन्तरमायनणो विधानान्न तत्रोत्तरपद सम्भवः // 33 // देवानां प्रियः // 32 // 34 // अत्र षष्ठ्या लुब् न स्यात् / देवानांप्रियः // 34 // अ० कथं देवप्रियः ? / एकत्वद्वित्वयोर्बहुव्रीहौ वा भविष्यति / देवानांप्रियः ऋजुः मूल् वा उच्यते / / 34 // शेपपुच्छलाङ्गुलेषु नाम्नि शुनः // 3 // 2 // 35 // श्वन्शब्दात् परस्याः षष्ठ्याः शेपादिषूत्तरपदेषु नाम्नि संज्ञाविषये न लुप् स्यात् / शुनःशेपमिव शेपमस्य शुनःशेपः शुनःपुच्छः शुनो लालः / शेपःशब्दः सकारान्तोऽपि, इह तु अकारान्तस्य ग्रहणम् // 35 // अ० लिङ्ग पुरुषस्य शेपस् // 35 / / वाचस्पतिवास्तोष्पतिदिवस्पतिदिवोदासम् // 3 // 2 // 36 // वाचस्पत्यादिशब्दाः षष्ठीलुबभावो निपात्यन्ते नाम्नि, वाचस्पतिः, वास्तोष्पतिः, दिवस्पतिः दिवोदासः। नाम्नीत्येव ? वाक्पतिः वास्तुपतिः युपतिः युदासः // 36 // अ० वाचस्पतिः दिवस्पतिः इत्यत्र 'भ्रातुष्पुत्रकस्कादयः' (2 / 3 / 14) इत्यनेन रस्य सत्वम् / वास्तोष्पति इत्यत्र, 'भ्रातुः पुत्रे' त्यनेनाकारस्य षकारः // 36 // _ ऋतां विद्यायोनिसम्बन्धे // 3 // 2 // 37 // ऋकारान्तानां शब्दानां विद्याकृते योनिकृते च सम्बन्धे-निमित्ते सति प्रवर्त्तमानानां सम्बन्धिन्याः षष्ठ्या विद्यायोनिसम्बन्धे एव-निमित्ते सति प्रवर्त्तमाने उत्तरपदे लुब् न स्यात् / विद्यायाम्, होतुःपुत्रः-होतुरन्तेवासी। पितुःपुत्रः-पितुरन्तेवासी / तामित्येव ? आचार्यपुत्रः / ऋद्भ्य इति निर्देशे प्राप्ते षष्ठीनिर्देश उत्तरार्थः / विद्यायोनिसम्बन्ध इति किम् ? भर्तृगृहम् // 37 // अ० ऋतां सम्बन्धिन्याः विद्यायोनिसम्बन्धे इत्यत्र प्रवृत्तौ मातुलान्तेवासी / पूर्वपदविशेषणं (किम ?) भर्तृशिष्यः, भर्तृपुत्रः, अत्र भर्तृशब्दो नायकवाचको द्रष्टव्यः / यदा तु भर्तृशब्दो वल्लभवाची तदा भर्तृःशिष्य इति भवति, अत्र षष्ठ्या न लुप् / उत्तरपदविशेषणं किम् ? "होतृधनम्, पितृगृहम् इति व्यावृत्तिः 'ऋतां विद्ये'ति सूत्रप्रान्ते ज्ञातव्या // 37|| स्वसृपत्योर्वा // 3 // 2 // 38 // विद्यायोनिसम्बन्धनिमित्तानां कदन्तानां संबन्धिन्याः षष्ठ्याः स्वसृपत्योरुत्तरपदयो?निसम्बन्धनिमित्तयोः परयोर्वा लुब् न स्यात् / पितुःस्वसा, पितुःस्वसा, पितुःष्वसा, पितृष्वसा / एवं मातुःस्वसा 3 / दुहितुःपतिः 1. अत्र प्रत्ययविषयकोत्तरपद विधानादेव न उत्तरपदशंकावकाशः इति सूचितमिति भावः / 2. देवस्य देवयोः वा प्रियः देवप्रियः, देवः प्रियः यस्य स देवप्रियः इति भावः / 3. अत्र बहुवचनं सिंहस्य शेपंसिंहस्य पुच्छं, सिंहस्य लाङ्गलं इति अन्यमतसंग्रहार्थमिति बृहद्वृत्तौ। 4. अत्र संबंधिनीषष्ठीसद्भावेऽपि, विद्याकृते पूर्वपदे विद्यमाने उत्तरपदस्य धनशब्दस्य विद्यासंबंधाभावात् अत्र षष्ठीलोपः /

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310