Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay
View full book text ________________ 264 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते अव्ययीभावसमासस्यादन्तस्य सम्बन्धिनः स्यादेः स्थानेऽम् स्यात्, अपञ्चम्याः-पञ्चमी वर्जयित्वा / उप'कुम्भं तिष्ठति वा पश्य वा देहि वा स्वामी वा तत्सम्बन्धि स्यादेरिति किम् ? प्रियोप'कुम्भस्तिष्ठति / अत इति किम् ? अधिस्त्रि, उपवधु, अपञ्चम्या इति किम् ? उपकुम्भात् // 2 // अ० स्त्रीषु अधिकृत्य अधिस्त्रि / वध्वा उप-समीपम्-उपवधु // 2 // वा तृतीयायाः // 3 // 2 // 3 // अदन्तस्याऽव्ययीभावस्य सम्बन्धिन्यास्तृतीयायाः स्थानेऽम्वा स्यात् / 'किं न उपकुम्भम्, किं न उपकुम्भेन / तत्सम्बन्धितृतीयाया इति किम् ? किं न प्रियोपकुम्भेन // 3 // सप्तम्या वा // 3 // 2 // 4 // अदन्ताऽव्ययीभावस्य सम्बन्धिसप्तम्या' अम् वा स्यात् / उपकुम्भम्, उपकुम्भे / योगविभाग उत्तरार्थः // 4 // ऋद्धनदीवंश्यस्य // 3 // 2 // 5 // ऋद्धयन्तस्य नद्यन्तस्य वंश्यान्तस्य चादन्तस्याव्ययीभावस्य सम्बन्धिसप्तमीस्थानेऽम् स्यात् / मगधानां समृद्धिः सुमगधं वराति / नदी, उन्मत्तगङ्गं देशे वसति / एकविंशतिभारद्वाजं वसति // 5 // अ० ऋद्धं कोऽर्थः ? समृद्धं, यस्य समृद्धिः सुशब्दादिना द्योत्यते / कोऽभिप्रायः ? मगधानां शोभना ऋद्धिः सुमगधम्, मद्राणां शोभना ऋद्धिः समुद्रमिति / पराणि यत्र वाक्यानि तत्र सप्तमीस्थानेऽम् उन्मत्ता गङ्गा यस्मिन् तस्मिन् उन्मत्तगङ्गम्, एवं लोहितगङ्गम्, शनैर्गङ्गम् / द्वे यमुने यत्र द्वियमुनं देशे वसति, सप्तगोदावरम् / एकविंशति र्भारद्वाजा वंश्याः, त्रिपञ्चाशत् गौतमा वंश्याः, त्रयः कौशला वंश्याः, भारद्वाजगौतमकोशलशब्दानामग्रे सप्तमी बहुवचनं सुप्, सुपः स्थाने अम् आदेशः, एषु पूर्वार्थप्राधान्यात् बहुवचनं भवति / उन्मत्तगङ्गम्, लोहितगङ्गम्, द्वियमुनम्, इत्यादिषु 'नदीभिर्नाम्नि' (3 / 1 / 27) इत्यनेन अव्ययीभाव(समास)संज्ञा / एकविंशतिभारद्वाजम्, एवं त्रिपञ्चाशद्गौतमम्, त्रिकोशलं राज्यस्य एषु 'वंश्येन पूर्वार्थे' (3 / 1 / 29) इत्यनेनाव्ययीभावसमाससंज्ञा // 5 // ___ अनतो लुप् // 3 // 26 // अकारान्तं वर्जयित्वाऽन्यस्याऽव्ययीभावस्य सम्बन्धिस्यादेर्लुप् स्यात् / अधिस्त्रि / उपकर्तृ / अनत इति किम् ? उपकुम्भात् // 6 // अव्ययस्य // 3 // 2 // 7 // अव्ययसम्बन्धिस्यादेर्लुप् स्यात्, स्वः, प्रातः, कृत्वा, ततः, तत्र / तत्सम्बन्धिविज्ञानादिह न लुप्, 'अतिस्वरः, अत्युच्चैसः / अत एव लुप्करणादव्ययेभ्यः स्यादयोऽनुमीयन्ते, ततश्च अथो स्वस्ते गृहमित्यादौ सपूर्वात् प्रतमा० (2 / 1132) इत्यनेन ते मे आदेशौ पदसंज्ञा च सिद्धा // 7 // ___अ० उच्चैः, परमोच्चैः, भोजं भोजं व्रजति, कथं, ब्राह्मणवत्, पचतितराम्, द्विधा अस्तीत्यादयोऽप्यन्यया 1. उपकुम्भमिति तिष्ठतिना योगे प्रथमायाः, पश्येन योगे द्वितीयायाः, देहिना योगे चतुर्थ्याः अमादेशः / 2. अत्र प्रियोपकुम्भशब्दात् एव सिः न तु उपकुम्भशब्दात् नातोऽम् / 3. उपकुम्भेनास्माकं किं प्रयोजनमित्यर्थः 'कृताथै 'रिति सूत्रेणात्र तृतीया। 4. सप्तम्याः स्थाने इत्यर्थः / 5. स्वः अतिक्रान्ताः अतिस्वरः अत्र जसः अतिस्वःशब्दसम्बन्धित्वात् न लुप्, एवमग्रेऽपि / 6. यदि अव्ययेभ्यों विभक्तिर्नोत्पद्येत तर्हि स्वः अथो इत्यादेः विभक्त्यन्तत्वाभावेन पदत्वाप्राप्त्या, अथो स्वस्ते गृहमित्यादौ तव इत्यस्य पदात् परत्वाभावात् न ते आदेशः स्यात् इति भावः / B. स्वामिना योगे षष्ठयाः अमादेशः /
Loading... Page Navigation 1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310