________________ 264 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते अव्ययीभावसमासस्यादन्तस्य सम्बन्धिनः स्यादेः स्थानेऽम् स्यात्, अपञ्चम्याः-पञ्चमी वर्जयित्वा / उप'कुम्भं तिष्ठति वा पश्य वा देहि वा स्वामी वा तत्सम्बन्धि स्यादेरिति किम् ? प्रियोप'कुम्भस्तिष्ठति / अत इति किम् ? अधिस्त्रि, उपवधु, अपञ्चम्या इति किम् ? उपकुम्भात् // 2 // अ० स्त्रीषु अधिकृत्य अधिस्त्रि / वध्वा उप-समीपम्-उपवधु // 2 // वा तृतीयायाः // 3 // 2 // 3 // अदन्तस्याऽव्ययीभावस्य सम्बन्धिन्यास्तृतीयायाः स्थानेऽम्वा स्यात् / 'किं न उपकुम्भम्, किं न उपकुम्भेन / तत्सम्बन्धितृतीयाया इति किम् ? किं न प्रियोपकुम्भेन // 3 // सप्तम्या वा // 3 // 2 // 4 // अदन्ताऽव्ययीभावस्य सम्बन्धिसप्तम्या' अम् वा स्यात् / उपकुम्भम्, उपकुम्भे / योगविभाग उत्तरार्थः // 4 // ऋद्धनदीवंश्यस्य // 3 // 2 // 5 // ऋद्धयन्तस्य नद्यन्तस्य वंश्यान्तस्य चादन्तस्याव्ययीभावस्य सम्बन्धिसप्तमीस्थानेऽम् स्यात् / मगधानां समृद्धिः सुमगधं वराति / नदी, उन्मत्तगङ्गं देशे वसति / एकविंशतिभारद्वाजं वसति // 5 // अ० ऋद्धं कोऽर्थः ? समृद्धं, यस्य समृद्धिः सुशब्दादिना द्योत्यते / कोऽभिप्रायः ? मगधानां शोभना ऋद्धिः सुमगधम्, मद्राणां शोभना ऋद्धिः समुद्रमिति / पराणि यत्र वाक्यानि तत्र सप्तमीस्थानेऽम् उन्मत्ता गङ्गा यस्मिन् तस्मिन् उन्मत्तगङ्गम्, एवं लोहितगङ्गम्, शनैर्गङ्गम् / द्वे यमुने यत्र द्वियमुनं देशे वसति, सप्तगोदावरम् / एकविंशति र्भारद्वाजा वंश्याः, त्रिपञ्चाशत् गौतमा वंश्याः, त्रयः कौशला वंश्याः, भारद्वाजगौतमकोशलशब्दानामग्रे सप्तमी बहुवचनं सुप्, सुपः स्थाने अम् आदेशः, एषु पूर्वार्थप्राधान्यात् बहुवचनं भवति / उन्मत्तगङ्गम्, लोहितगङ्गम्, द्वियमुनम्, इत्यादिषु 'नदीभिर्नाम्नि' (3 / 1 / 27) इत्यनेन अव्ययीभाव(समास)संज्ञा / एकविंशतिभारद्वाजम्, एवं त्रिपञ्चाशद्गौतमम्, त्रिकोशलं राज्यस्य एषु 'वंश्येन पूर्वार्थे' (3 / 1 / 29) इत्यनेनाव्ययीभावसमाससंज्ञा // 5 // ___ अनतो लुप् // 3 // 26 // अकारान्तं वर्जयित्वाऽन्यस्याऽव्ययीभावस्य सम्बन्धिस्यादेर्लुप् स्यात् / अधिस्त्रि / उपकर्तृ / अनत इति किम् ? उपकुम्भात् // 6 // अव्ययस्य // 3 // 2 // 7 // अव्ययसम्बन्धिस्यादेर्लुप् स्यात्, स्वः, प्रातः, कृत्वा, ततः, तत्र / तत्सम्बन्धिविज्ञानादिह न लुप्, 'अतिस्वरः, अत्युच्चैसः / अत एव लुप्करणादव्ययेभ्यः स्यादयोऽनुमीयन्ते, ततश्च अथो स्वस्ते गृहमित्यादौ सपूर्वात् प्रतमा० (2 / 1132) इत्यनेन ते मे आदेशौ पदसंज्ञा च सिद्धा // 7 // ___अ० उच्चैः, परमोच्चैः, भोजं भोजं व्रजति, कथं, ब्राह्मणवत्, पचतितराम्, द्विधा अस्तीत्यादयोऽप्यन्यया 1. उपकुम्भमिति तिष्ठतिना योगे प्रथमायाः, पश्येन योगे द्वितीयायाः, देहिना योगे चतुर्थ्याः अमादेशः / 2. अत्र प्रियोपकुम्भशब्दात् एव सिः न तु उपकुम्भशब्दात् नातोऽम् / 3. उपकुम्भेनास्माकं किं प्रयोजनमित्यर्थः 'कृताथै 'रिति सूत्रेणात्र तृतीया। 4. सप्तम्याः स्थाने इत्यर्थः / 5. स्वः अतिक्रान्ताः अतिस्वरः अत्र जसः अतिस्वःशब्दसम्बन्धित्वात् न लुप्, एवमग्रेऽपि / 6. यदि अव्ययेभ्यों विभक्तिर्नोत्पद्येत तर्हि स्वः अथो इत्यादेः विभक्त्यन्तत्वाभावेन पदत्वाप्राप्त्या, अथो स्वस्ते गृहमित्यादौ तव इत्यस्य पदात् परत्वाभावात् न ते आदेशः स्यात् इति भावः / B. स्वामिना योगे षष्ठयाः अमादेशः /