________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य द्वितीयः पादः 265 ज्ञातव्याः / ‘ख्णम् चाभीक्ष्ण्ये' (5 / 4 / 48) इत्यनेन ख्णम् प्रत्ययः / 'भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमबादेः' (7 / 4 / 73) इति सूत्रेण द्वित्वम् भोज-भोजम् // 7 // ऐकायें // 3 // 28 // ऐकार्यमैकपद्यम्, तनिमित्तस्य स्यादेर्लुप् स्यात् / चित्रा गावो यस्य चित्रगुः, राजपुरुषः, पुत्रीयति, कुम्भकारः, एषु-चित्र जस् गो जस् राजन् ङस् पुरुष स् इत्यादिरीत्या ऐकायें सति तनिमित्तस्य स्यादेर्लुप् / अत एव लुविधानात् 'नाम नाम्ना' (3 / 1118) इत्युक्तावपि विभक्त्यन्तानामेव समासो विज्ञायते / 'ऐकायें' इति निमित्तसप्तमीविज्ञानादैकार्योत्तरकालस्य न लुप् चित्रगुः / ऐकायें इति किम् ? चित्रा गावो यस्येत्यादिवाक्येषु न लुप् // 8 // अ० [औपगवः इत्यत्र डस् लोपः / ] ऐकार्थ्यस्य 'निमित्तत्वादैकपद्यस्य कारणे कार्योपचारादिदमुक्तम् / / 8 / / न नाम्येकस्वरात् खित्युत्तरपदेऽमः // 3 // 2 // 9 // समासारम्भकमन्त्यं पदमुत्तरपदम्, नाम्यन्तादेकस्वरात्पूर्वपदात्परस्यामो लुप् न स्यात् / खित्प्रत्ययान्ते उत्तरपदे परतः / स्त्री स्त्रियं वाऽत्मानं मन्यते स्त्रीमन्यः, स्त्रियंमन्यः, श्रियंमन्यः / नामिग्रहणं किम् ? ज्ञंमन्यः / एकस्वरादिति किम् ? वर्षामन्यः / खितीति किम् ? स्त्रीमानी // 9 // अ० 'कर्तुः खश्' (5 / 1 / 117) इत्यनेन खश् / शंमन्यः, अत्र ज्ञमात्मानं मन्यते 'कर्तुः खश्' इत्यनेन खश्, 'दिवादेः श्यः' (3 / 4 / 72) 'खित्यनव्ययारुषो. मोऽन्तो ह्रस्वश्च' (3 / 2 / 111) इत्यनेन पूर्वपदे मोन्तः / वधू इत्यत्र 'खित्यनव्यय०' इत्यनेनैव ह्रस्वः क्रियते वधुंमन्य इति सिद्धम् // 9 // असत्त्वे उसेः // 3 // 2 // 10 // ___असत्त्वे विहितस्य उसेरुत्तरपदे परे लुब् न स्यात् / स्तोकान्मुक्तः, अन्तिकादागतः, 'तेनासत्त्वे' (3 / 174) इति समासः / असत्त्वे इति किम् ? स्तोकभयम् // 10 // अ० पञ्चम्येकवचनस्य, स्तोकान्मुक्तः अल्पान्मुक्तः, कृच्छ्रान्मुक्तः, कतिपयान्मुक्त इत्युदाहरणानि / एषु 'स्तोकाल्पकृच्छ्र' (2 / 2 / 79) इत्यनेन पञ्चमी भवति, तथा अन्तिकादागतः, अभ्याशादागतः सविधादागतः, दूरादागतः, विदूरादागतः, विप्रकृष्टादागतः / एषु 'असत्त्वारादर्थात्०' (2 / 2 / 120) इत्यनेन पञ्चमी // 10 // ब्राह्मणाच्छंसी // 3 // 2 // 11 // ब्राह्मणाच्छंसीत्यत्र उसे बभावो निपात्यते / ब्राह्मणाद्ग्रन्थादादाय शंसति ब्राह्मणाच्छंसी // 11 // अ० आदानांगे शंसने शंसि वर्त्तते / ब्रह्मणा प्रोक्तो ग्रन्थो ब्राह्मणं 'तेन प्रोक्ते' (6 / 3 / 181) इति सूत्रेण अण् 'अणि' (7/4/52) इति सूत्रेणान्त्यस्वरादिलोपो न भवति / ब्राह्मणमित्यत्र तुल्यः भागेऽर्द्धं ब्राह्मणं श्रुतौ (है.लि.न.७) इति लिङ्गपाठात् 'वेदेन्ब्राह्मणमत्रैव' (6 / 2 / 130) इति सूत्रपाठाच्च नपुंसकत्वम् / / 11 / / ओजोञ्जःसहोम्भस्तमस्तपसष्टः // 3 / 2 / 12 // एभ्यः परस्य ट एकवचनस्योत्तरपदे परे लुब् न स्यात् / ओजसाकृतम्, अञ्जसाकृतम्, सहसाकृतम्, अम्भसाकृतम्, तमसाकृतम्, तपसाकृतम्, तपसाप्राप्तम् / कथं 'सततनैशतमोवृतमन्यत' इति ? उत्तरपदशब्दस्य 1. ऐकाथुनाम समासादिः, तस्मिन् जाते ऐकपद्यं भवत्यतस्तन्निमितं तत्रेकपद्यस्योपचारः /