________________ 266 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते सम्बन्धिशब्दत्वाद् यत्र पूर्वपदीभूतस्तमः शब्दस्तत्रायं प्रतिषेधः / यत्र तु पदान्तरेण सह तमःशब्दः समस्तः तत्र नायं निषेधः // 12 // अ० 'तपनमण्डलदीपितमेकतः सततनैशतमोवृतमन्यतः / हसितभिन्नतमिस्रचयं पुरः शिवमिवानुगतं गजचर्मणा' // 1 // इति यत्र केवल एव तमःशब्दो भवति इति भावः // 12 / . पुंजनुषोऽनुजान्धे // 3 // 2 // 13 // पुम्स्शब्दात् जनुःशब्दाच परस्य टावचनस्य यथासङ्ग्यमनुजशब्देऽन्धशब्दे चोत्तरपदे परे लुब् न स्यात् / पुंसा-करणेनानुजः पुंसानुजः / जनुषा-जन्मनान्धः जनुषाऽन्धः / टः इत्येव ? पुमांसमनुजाता पुमनुजा // 13 // आत्मनः पूरणे // 3 // 2 // 14 // आत्मनः परस्य टावचनस्य पूरणप्रत्ययान्ते उत्तरपदे परे न लुप स्यात् / आत्मनाद्वितीयः इत्यादि। 'जनार्दनस्त्वात्मचतुर्थ एव' अत्रात्मा चतुर्थोऽस्येति बहुव्रीहिः // 14 // अ० आत्मनाद्वितीयः, आत्मनातृतीयः, आत्मनाचतुर्थः, आत्मनापञ्चमः, आत्मनाषष्ठः, आत्मनैकादशः // 14 // मनसश्चाज्ञायिनि // 3 // 2 // 15 // मनःशब्दादात्मशब्दाच्च परस्य टावचनस्य आज्ञायिनि उत्तरपदे परे न लुप् / मनसा आज्ञातुं शालमस्य मनसाऽऽज्ञायी, आत्मनाऽऽज्ञायी // 15 // अ० मनसाऽऽज्ञायी, आत्मनाऽऽज्ञायी इत्यत्र, ननु टालुपि कृतेऽपि ईदृशानि रूपाणि भविष्यन्ति किं मनसश्चेति सूत्रेण इत्याह टालोपि-कृते पदान्तत्वात् रुत्वविसर्गनलोपादिकं स्यादितिं सूत्रं कृतम् / / 15|| नाम्नि // 3 // 2 // 16 // ___ मनसः परस्य टावचनस्योत्तरपदे परे नाम्नि-संज्ञायां न लुप् / मनसादेवी, मनसांदत्ता, एवंनामा काचित् / नाम्नीति किं ? मनोदत्ता कन्या // 16 // परात्मभ्यां डेः // 3 // 2 // 17 // . परात्मशब्दाभ्यां परस्य डे [चतुर्थंक] वचनस्योत्तरपदे परे नाम्निविषये लुब न स्यात् / परस्मैपदम् परस्मै भावः / आत्मनेपदम् / नाम्नीत्येव ? परहितम्,' आत्महितम् // 17 // अ० आत्मने भावः / धीयते इति-हितम्, क्तः, 'धागः' (4 / 4 / 15) इत्यनेन हि आदेशः // 17 / / अव्यञ्जनात् सप्तम्या बहुलम् // 3 // 2 // 18 // अकारान्ताद् व्यञ्जनान्ताच्च परस्याः सप्तम्या बहुलं लुब् न स्यानाम्नि / अकारान्त, अरण्येतिलकाः, वनेकिंशुकाः / व्यञ्जन, युधिष्ठिरः / बहुलग्रहणात् कचिद्विकल्पः, त्वचिसारः, त्वक्सारः / कचिद् भवति लुप्, जलकुकुटः, ग्रामसूकरः / अव्यञ्जनादिति किम् ? भूमिपाशः / नाम्नात्येव ? तीर्थकाकः // 18 // अ० अरण्येतिलका इत्यत्र अरण्येमाषकाः, कूपेपिशाचकाः पूर्वाह्नस्फोटका इत्यादयोपि मन्तव्याः / नगरवायसः, अक्षशौण्डः इत्यपि // 18 // 1. परस्मैपदमिति; आत्मनेपदमिति च अनादिकालिकी व्याकरणशास्त्रप्रसिद्धा संज्ञा, तथा नेमे अनादिसंज्ञे / 2. सप्तम्या इति किम् ? गौरखरः, गविधिर इत्यादौ तु बिदादिपाठात्, ‘गवियुधेः स्थिरस्येति निर्देशात् वा ज्ञेयम् /