________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य द्वितीयः पादः प्राकारस्य व्यञ्जने // 3 // 2 // 19 // राजलभ्यो रक्षानिर्देशः कारः, प्राचां देशे यः कारस्तस्य नाम्नि-संज्ञाविषयेऽव्यञ्जनात्परस्याः सप्तम्या व्यञ्जनादावुत्तरपदे परे लुब् न स्यात् / [अकारान्त] मुकुटे मुकुटे कार्षापणो दातव्यः मुकुटेकार्षापणः / हलेद्विपदिका / हलेत्रिपदिका / व्यञ्जन, दृषदिमाषकः / प्रागिति किम् ? यूथे यूथे देयः पशुः यूथपशुः / कार इति किम् ? अभ्यर्हितपशुः / व्यञ्जन इति किम् ? अविकटोरणः // 19 // अ० 'प्राक्कारस्य व्यञ्जने' इत्यस्य सूत्रार्थे वीप्सायाः तथा दानस्य चान्तर्भावः इति, मुकुटे 2 कार्षापणो दातव्यः इत्यादौ वीप्साया अर्थे दानस्यार्थे च वाक्यानि / हले हले द्वौ ददाति ‘संख्यादेः पादादिभ्यो दानदण्डे चाकल् लुक् च' (7 / 1 / 152) इति सूत्रेण अकल्प्रत्ययः प्रकृतेरन्तस्य लुक् च' 'अस्यायत्त०' (2 / 4 / 111) इति इकारः / यूथपशुरिति, उदीचां देशे उत्तरापथेऽयं कार उपभोगविशेषः न पूर्वदेशे / अभ्यर्हिते 2 देयः पूर्वदेशे प्राचां देशे कारादन्यस्य देयस्य जनसामान्यस्य अभ्यर्हितपशुरिति नाम प्रसिद्धम्, पशुव्यञ्जनादाविति किमिति सत्यः पाठः / अवीनां-छागानां संघातः समूहोऽविकटः ‘अवेः संघातविस्तारे कटपटम्' (71 / 132) इति सूत्रेण कटः अविकटेऽविकटे ऊरणो देयः अविकटोरणः // 19 // तत्पुरुषे कृति // 3 // 2 // 20 // __ अव्यञ्जनात्परस्याः सप्तम्याः कृदन्ते उत्तरपदे परे तत्पुरुष समासे लुब् न भवति / नाम्नीति निवृत्तम् / स्तम्बेरमः, कर्णेजपः, गेहेनर्दी इत्यादि / बहुलाधिकारात् कचिदन्यतोऽपि गोषुचरः। कचिन निषेधः मद्रचरः। कचिद्विकल्पः खेचरः खचरः, वनेचरः वनचर इत्यादि / कचिदन्यदेव हृदयं स्पृशति हृदिस्पृक्, दिविस्पृक् / कृतीति किम् ? अक्षशौण्डः / अन्यञ्जनादित्येव ? "कुरुचरः रात्रिचरः // 20 // ___अ० स्तम्बेरमः, कर्णेजपः, गेहेनर्दी, गेहेशूरः, पात्रेसमिताः, प्रवाहेमूत्रितम्, उदकेविशीर्णम्, अवतप्तेनकुलस्थितम् / व्यञ्जन, भस्मनिहुतमिति प्रयोगा आदिशब्दात् बोध्याः / स्तम्बे रमते कर्णे जपति इति वाक्ये 'शोकापनुदतुन्दपरिमृजस्तम्बरमकर्णेजपं प्रियालसहस्तिसूचके' (5 / 1 / 143) इति सूत्रेण कप्रत्ययान्ता निपात्यन्ते / अन्ययोऽपि कोऽर्थः ? अव्यञ्जनादन्यतोपि स्वरात् सप्तम्या न लुप् / गोषु चरति 'चरेष्टः' (5 / 2 / 138) खेचरः, खचरः, वनेचरः, वनचरः, पङ्केरुहम्, पङ्करुहम्, सरसिरुहम्, सरोरुहम्, दिविषत् द्युसत् इति / आदिशब्दात्, अन्यदेव इति कोऽर्थः ? वाक्यं द्वितीयया शब्दरूपं च सप्तम्या तत्रापि सप्तमी न लुप्यते इत्यर्थः, हृदिस्पृक्, दिविस्पृक्, अत्र द्वितीयार्थे सप्तमी ज्ञातव्या // 20 // मध्यान्ताद्गुरौ // 3 // 2 // 21 // मध्यान्तशब्दाभ्यां परस्याः सप्तम्या गुरुशब्दे उत्तरपदे परे न लुप् / मध्येगुरुः अन्तेगुरुः // 21 // . अमूर्द्धमस्तकात् स्वाङ्गादकामे // 3 // 2 // 22 // मूर्द्धमस्तकशब्दवर्जितात् स्वाङ्गवाचिनोऽव्यञ्जनान्तात् परस्याः सप्तम्याः कामशब्दादन्यस्मिन्नुत्तरपदे परे 1. अविकटे 2 उरणो देयः अविकटोरणः, अत्र उरणशब्दस्य स्वरादित्वात् सप्तम्या लुब् जातः / 2. व्यञ्जने इत्यत्र वृत्तिकारेण सूत्रापेक्षया पाठः कृतः,. अवचूरिकृता तु सूत्रार्थापेक्षयेदमुक्तमिति भावः / 3. तत्पुरुषेति किम् ? धन्वनि कारका यस्य स धन्वकारकः, अत्र कृदन्ते उत्तरपदे, व्यंजनपरत्वेऽपि तत्पुरुषसमासाभावादेव सप्तम्या लुब् जातः / 4. कुरुषु इत्यत्र रात्रिषु इत्यत्र च अव्यंजनपरत्वाभावात् सप्तम्याः लुब् भवति इति भावः / /