________________ 268 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवरिभ्यामलङ्कृते न लुप् स्यात् / कण्ठेकालः उरसिलोमा शिरसिशिखः / अमूर्द्धमस्तकादिति किम् ? मूर्द्धशिखः। स्वाङ्गादिति किम् ? अक्षशौण्डः / मुखपुरुषा शाला / अकाम इति किं ? मुखकामः / बहुलाधिकारात्-करकमलम्, गलरोग इत्यादि सिद्धम् // 22 // अ० कण्ठे कालोऽस्य स कण्ठेकालः उरसिलोमान्यस्य / (उरसिलोमा) मस्तकशिखः / मुखे पुरुषो यस्याः सा मुखपुरुषा / करकमलम् / गलरोलः / / 22 / / बन्धे पनि नवा // 3 // 2 // 23 // बन्धशब्दे घनन्ते उत्तरपदे परेऽव्यञ्जनात्परस्याः सप्तम्या वा लुब् न स्यात् / हस्ते बन्धो हस्ते बन्धोऽस्येति वा हस्तेबन्धः हस्तबन्धः / चक्रेबन्धः चक्रबन्धः / बन्ध इति किम् ? पुटपाकः मनोरोगः / घनीति किम् ? अजन्ते माभूत्, चक्रबन्धः चारकबन्धः // 23 // अ० स्वाङ्गादस्वाङ्गाचायं विकल्पः / बध्नातीति बन्धः अच् / अद्व्यञ्जनात् इति किम् ? गुप्तिबन्धः काराबन्धः / / 23 / / कालात्तनतरतमकाले // 3 // 2 // 24 // अव्यञ्जनान्तात्कालवाचिशब्दात्परस्याः सप्तम्यास्तनतरतमप्रत्ययेषु कालशब्दे चोत्तरपदे परे वा लुब् न स्यात् / तन, पूर्वाह्नेतनः पूर्वाह्नतनः / तर पूर्वाह्नेतराम् पूर्वाह्नतरे, तम, अपराह्नेतमाम् अपराह्नतमे / पूर्वाह्ने. काले पूर्वाह्नकाले // 24 // ____ अ० 'कालात्तनतरे'ति सूत्रेऽयं विशेषो ज्ञातव्यः / उत्तरपदाधिकारसूत्रेषु प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहणं न प्रत्ययान्तशब्दग्रहणम् / वक्ष्यमाण 'न वाऽखित् कृदन्ते रात्रेः' (3 / 2 / 117) इत्यत्रान्तग्रहणज्ञापकात् / तेनात्र सूत्रे तनतरतमानां प्रत्ययानां स्वरूपेणैव ग्रहणं भवति / पूर्व अहन् पूर्वमह्नः पूर्वाह्नः 'सर्वांशसङ्ख्याव्ययात्' (7 / 3 / 118) इत्यनेन अट् अह्र इत्यादेशश्च 'अवर्णे वर्णस्य' (7 / 4 / 68) इति लोपः 'अतोऽह्रस्य' (2 / 3 / 73) इत्यनेन णत्वम् / पूर्वाह्न जातो भवो वा पूर्वाह्नेतनः 'पूर्वाह्नापराह्नात्तनट् (6 / 3 / 87) इति सूत्रेण तनट् / अयं पूर्वाह्ने 2 अयमनयोर्मध्ये प्रकृष्टे पूर्वाह्ने पूर्वाह्नेतराम् / अयमपराह्ने 2 अयमेषां मध्ये प्रकृष्टे अपराह्ने अपराह्नेलमाम् 'द्वयोर्विभज्ये च तरप्' (7 / 3 / 6) 'प्रकृष्टे तमप्' (7 / 3 / 5) ततः ‘किंत्याद्येऽव्ययादसत्त्वे तयोरन्तस्याम्' (7 / 3 / 8) इति सूत्रेण आम्, तर तम अग्रे क्रियते / प्रयोगेषु यत्र सप्तमी न लुप्यते तत्र तनतरतम अग्रे प्रथमा दीयते, सप्तम्यर्थस्य सप्तम्यैव उक्तत्वात्, यत्र तु सप्तम्या लुप्, तत्र सप्तम्यर्थप्रतिपादनार्थं पुनः तरतम अग्रे सप्तमी दीयते न तत्र आम् कर्त्तव्यः // 24|| शयवासिवासेष्वकालात् // 3 // 2 // 25 // अकालवाचिनोऽन्यञ्जनान्तात्परस्याः सप्तम्याः शयवासिवासेषुत्तरपदेषु वा लुब् न स्यात् / बिलेशयः' विलशयः / वनेवासी वनवासी, अन्तेवासी अन्तवासी, ग्रामेवासः ग्रामवासाः / बहुलाधिकारान्मनसिशयः कुशेशयः इति नित्यं लुवभावः, हृच्छयः चित्तशय इत्यत्र नित्यं लुप् // 25 // वर्षक्षरवराप्सरः शरोरोमनसो जे // 32 // 26 // वर्षादिभ्यः परस्याः सप्तम्या जे उत्तरपदे वा लुन् न स्यात् / संजः, संजः / क्षरेजः, क्षरजः / वरेजः 1. अकालादिति किम् ? पूर्वाह्नशयः, अद्व्यंजनादिति किम् ? भूमिशयः / 2. बिले शेते, मनसि शेते, कुशे शेते इत्यत्र 'आधारात्' . (5 / 1 / 137) इत्यनेन सूत्रेण शीङः अप्रत्ययः, तेन बिलेशयः इत्यादि शब्दनिष्पत्तिर्विज्ञेया, एवं हृच्छय इत्यादावपि बोध्यम् /