________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य द्वितीयः पादः 269 वरजः। अप्सुजम् अजम् / सरसिजं सरोजम् / शरेजः शरजः / उरसिजः उरोजः / मनसिजः मनोजः // 26 // ___ अ० वर्षे जातो वर्षजः, क्षरे जातः, वरे जातः, अप्सु जातं, सरसि जातम्, एवमन्येपि, ‘सप्तम्याः' (5 / 1 / 169) इति सूत्रेण 'डप्रत्ययः // 26 / / धुप्रावृड्वर्षाशरत्कालात् // 3 // 2 // 27 // योगविभागाद्वेति निवृत्तम् / दिवप्रभृतिभ्यः सप्तम्या जे उत्तरपदे न लुप् / दिविजः', प्रावृषिजः वर्षासुजः शरदिजः, कालेजः // 27 // अपो ययोनिमतिचरे // 3 // 2 // 28 // __ अपशब्दात्परस्याः सप्तम्या यप्रत्यये योनिमतिचरेषु चोत्तरपदेषु न लुप् स्यात् / अप्सुभवः अप्सव्यः / अप्सुयोनिः, अप्सुमतिः, अप्सुचरः // 28 // अ० अप्सु भव इति वाक्ये 'दिगादिदेहांशाद्यः' (6 / 3 / 124) इत्यनेन यप्रत्ययः ‘अस्वयंभुवोऽव्' (7/4/70) इत्यनेन उकारस्य अव् आदेशः अप्सव्य इति सिद्धम् // 28 // नेन् सिद्धस्थे // 3 // 2 // 29 // इन् प्रत्ययान्ते सिद्ध-स्थ इत्येतयोश्चोत्तरपदयोः सप्तम्या लुब् न न भवति, भवत्येवेत्यर्थः / स्थण्डिलवर्ती काम्पील्यसिद्धः समस्थः // 29 // ____ अ० स्थण्डिले वर्त्तते स्थण्डिलवर्ती 'व्रताभीक्ष्ण्ये' (5 / 1 / 157) इत्यनेन णिन्, एवं स्थण्डिलशायी / काम्पील्ये सिद्धः, समे तिष्ठतीति ‘स्थापास्नात्रः कः' (5 / 1 / 142) एवं विषमस्थः // 29 / / षष्ठ्याः क्षेपे // 3 // 2 // 30 // क्षेपे-निन्दायामुत्तरपदे परे षष्ठ्या लुब् न स्यात् / चौरस्यकुलम्, दासस्यभार्या / क्षेप इति किम् ? राजकुलम्, अत्र लुब् भवति / कथं चौरकुलम् दासभार्या ? तत्त्वाख्यानमिदं न क्षेपः // 30 // ___ अ० व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायात्, पूर्वपदात् यदि क्षेपो गम्यते तत्र 'षष्ठ्या क्षेपे' इति षष्ठी (न) लुप्यते यथा दासस्यभार्या / यत्र पूर्वपदात् स्तुतिस्तत्र लुप् यथा भूपस्य जाल्मो भूपजाल्मः / वृषल्याः पुत्रः वृषलीपुत्र इत्यपि वृषल्याः पतिः (वृषलीपतिः) इत्यपि स्वरूपकथनमात्रमेतत् नात्र विवक्ष्यते // 30 // पुत्रे वा // 3 // 2 // 31 // पुत्रे-उत्तरपदे क्षेपे' षष्ठ्या लुब् न भवति / दास्याः पुत्रः दासीपुत्रः / वृषल्याः पुत्रः वृषलीपुत्रः इत्यपि / दासीपुत्र इति तु स्वरूपाख्यानम् / पूर्वेण नित्यं निषेधे प्राप्ते विकल्पोऽयम् // 31 // ___ पश्यद्वाग्दिशो हरयुक्तिदण्डे // 3 // 2 // 32 // पश्यद् वाग् दिग्शब्देभ्यः परस्याः षष्ठ्या यथासङ्ख्यं हरयुक्तिदण्डेषुत्तरपदेषु न लुप् / पश्यतोहरः पश्यन्तमनादृत्य हर्ता इत्यर्थः / वाचोयुक्तिः दिशोदण्डः // 32 // अदसोऽकायनणोः // 3 // 2 // 33 // 1. अत्र सर्वेषु उदाहरणेषु जनेर्भूतेऽर्थे डः प्रत्ययः इति भावः एवमग्रिमसूत्रेऽपि / 2. दिविजातः इत्येवं विग्रहवाक्यं, अग्रेऽपि तथैव विग्रह कार्यः / 3. क्षेपे इत्येव ? ब्राह्मणपुत्रः, अत्र पुत्र उत्तरपदे सत्यपि क्षेपाभावात् षष्ठीलोपः /