________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य द्वितीयः पादः 263 अहें परस्परान्योन्येतरेतरस्याम् स्यादेर्वापुंसि // 3 // 2 // 1 // परस्परादीनामपुंसि-स्त्रियां नपुंसके च प्रयुज्यमानानां सम्बन्धिनः स्यादेः स्थाने आमादेशो वा स्यात् / इमे' सख्यौ कुले वा 'परस्परां परस्परं भोजयतः / एवं आभिः सखीभिः कुलैर्वा परस्परां परस्परेण भोज्यते इत्यादि / एवं अन्योन्याम् अन्योन्यं वा भोजयतः / अन्योन्यां अन्योन्येन वा भोज्यते / इतरेतरां इतरेतरं वा भोजयत इत्यादि / अपुंसीति किम् ? इमे नराः परस्परं भोजयन्ति / नरैः परस्परेण भोज्यते / नरैः परस्परस्मै दीयते / इमे परस्परादिशब्दाः स्वभावांदेकत्वपुंस्त्ववृत्तयः कर्मव्यतिहारविषयाः। अस्मादेव च निर्देशात् परान्येतरशब्दानां सर्वनाम्नां द्विर्वचनादि निपात्यते // 1 // अ० परस्परान्योन्येति त्रयः, सूत्रार्थः प्रगट एव वृत्तौ / "द्वितीयोऽयम्-परस्परादीनामपुंसि स्त्रियां क्लीबे वा संबन्धिनः स्यादेः स्थानेऽम् वा स्यात् / आभिः सखीभिः कुलैर्वा परस्परं परस्परेण वा भोज्यते, एवं परस्परं परस्परस्मै / तृतीयोऽयम्-परस्परादीनां संबन्धिस्यादेः स्थाने पुंसि-पुंल्लिङ्गेऽम् वा / एभिनरैः परस्परं परस्परेण वा भोज्यते / एवं परस्परं परस्परस्मै इत्यादि, इमौ सख्यौ कुले वेत्यादि, भुङ्क्ते परस्परः कर्ता, तं परस्परं भुञ्जानं सख्यौ प्रयुञ्जाते / 'प्रयोक्तृव्यापारे णिग्' (3 / 4 / 20) 'गतिबोधाहारार्थ०' (2 / 2 / 5) इत्यनेन कर्तुः परस्परस्य कर्मत्वम् / विधानसामर्थ्यात् न “साम् / आदिशब्दात् इमाः सख्यः परस्परां प्रयच्छन्ति परस्परस्मै वा० / परस्परां परस्परस्मात् / आभिः सखीभिः परस्परामित्यादि / अत्रोदाहरणे करणे वा तृतीया, सहार्थे वा तृतीया / तदा एकवारं णिग् क्रियते, कथं ? भुङ्क्ते जनः तं जनं भुञ्जानं सख्यः प्रयुञ्जते ‘प्रयोक्तृव्यापारे णिग्' केन कृत्वा भुङ्क्ते केन वा सह परस्परेण / यदा तु कर्तरि तृतीया क्रियते तदा णिग् वारद्वयं भवति तथाहि-भुङ्क्ते जनस्तं जनं भुञ्जानं परस्परः कर्ता प्रयुङ्क्ते णिग् 1 // तं परस्परं भोजयन्तं सख्यः प्रयुञ्जते इति द्वितीयवारं णिग् 2 / ततः परस्परेण अत्र कर्तरि तृतीया / इत्थं अनुक्तस्यापि जनस्य कर्तृत्वं ज्ञातव्यम् / अन्यथा 'गतिबोधाहार०' (2 / 2 / 5) इति परस्परस्य कर्मत्वमेव स्यात् / ननु इमे सख्यौ परस्परं भोजयत इत्यांद्युदाहरणेषु द्विवचनबहुवचने कथं न भवतः ? स्त्रीलिङ्गे आप् कथं न भवति ? परस्परादीनां सर्वादिगणे अपठितानां सर्वादिकार्यं स्मैस्मादित्यादिकं कथं सञ्जातम् ? / सर्वादित्वे वा सति ‘पञ्चतोऽन्यादेरनेकतरस्य दः' (1 / 4 / 48) इत्यनेन नपुंसके द् आदेशः कथं न भवतीति पराशये सूरिराह इमे परस्परादिशब्दा इत्यादि / परान्येतरशब्दानां सर्वनाम्नां क्रियाव्यतिहारे द्विर्वचनं पुंवद्भाव आद्ययोः सश्चान्तः इति शब्दनिष्पत्तिः॥१॥ अमव्ययीभावस्यातोऽपञ्चम्याः // 3 // 2 // 2 // 1. इमे परस्परां भोजयतः इत्यत्र इमे इति इदंशब्दस्य स्त्रियां नपुंसके च प्रथमा द्विवचनस्य रूपम्, यदा स्त्रियां विवक्ष्यते तदा इमे सख्यौ परस्पराम्-अन्योन्यां भोजयतः इति व्यतिहारार्थः, यदा तु नपुंसके तदा इमे कुले परस्परां भोजयतः इति / 2. परस्परमित्यत्र अम् स्थाने आम् आदेशः / 3. भोजयतः इति प्रेरकरूपम्, तेनाणिग् कर्ता परस्परः सणिगि कर्म भवतीति / 4. अत्र सूत्रे इतरस्यामित्यत्र इतरस्य आम्, इतरस्य अम् इति पदच्छेदसंभवात्, वा पुंसि इत्यत्र वा अपुंसि इति वा पुंसि इति च पदच्छेदसंभवात् त्रिधा सूत्रार्थः संपद्यते इति तत्र प्रथमार्थः वृत्तौ स्फुटीकृतः, द्वितीयतृतीयार्थी अवचूर्यां दर्शयति द्वितीयोऽयमित्यादिना / 5. 'अवर्णस्यामः साम्' इति शेण परस्मगरियाक र सामादेशो न भवति अस्मिन् सूत्रे सामिति त्यक्त्वा आमो विधानात् इत्याह / ना