________________ 262 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते स्पर्द्ध परमेव व्रीहियवौ / असखीदुदित्यैकपद्यादिदुतोः स्पः कामचारः, पतिवसू वसुपती / स्वराद्यत्अस्त्रशस्त्रम्, इन्द्रचन्द्रौ, अश्वरथम्, उष्ट्रमेषम्, ऋष्यरौहिती, स्पर्द्ध परमेव, उष्ट्रखरम्, इन्द्राविष्णू, अर्केन्दू / अल्पस्वर- प्लक्षन्यग्रोधौ। अW- श्रद्धामेधे। स्पर्द्ध परम्, दीक्षातपसी, श्रद्धातपसी, मातापितरौ, वासुदेवार्जुनौ, रुद्रेन्द्रौ // 160 // ___अ० अक्षरशब्देन स्वर उच्यते / लघ्वक्षरेति सूत्रे एकमिति किम् ? इति व्यावृत्तिः-युगपदनेकस्य पूर्वनिपाते प्राप्ते एकस्यैव यथापूर्वं निपातो भवति, शेषाणां तु कामचार इति प्रदर्शनार्थं एकमिति कृतमित्यर्थः / शङ्खदुन्दुभिवीणाः वीणादुन्दुभिशङ्खाः शङ्खवीणादुन्दुभयः / अश्वरथेन्द्रा इन्द्राश्वरथाः इन्द्ररथाश्चाः / दुन्दुभिशङ्खवीणा इति रथेन्द्राश्चा इति च न भवति / दीक्षातपसीत्यादिषु तपसो लघ्वक्षरत्वेऽपि दीक्षाश्रद्धामेधानां बहूपकारकत्वात्, मूलभूतत्वाच्च, अर्चितत्वाच्च परत्वात् पूर्वनिपातौ भवति / स्पर्द्ध परम्, स्पर्द्ध सति यत् यत् परं तत्तत् पूर्वं निपतति इत्यर्थः / / 160 // मासवर्णभ्रात्रनुपूर्वम् // 3 // 11161 // मासवाचि वर्णवाचि भ्रातृवाचि शब्दरूपं द्वन्द्वेऽनुपूर्व-यद्यत्पूर्ववाचि तत्तत् पूर्व निपतति / अनुग्रहणादेकमिति निवृत्तम् / फाल्गुनचैत्रौ, वैशाखज्येष्ठौ, ब्राह्मणक्षत्रियौ क्षत्रियवैश्यौ, वैश्यशूद्रौ, बलदेववासुदेवौ // 161 // भर्तुतुल्यस्वरम् // 3 / 1 / 162 // भं नक्षत्रम्-तद्वाचि ऋतुवाचि च तुल्यसङ्ख्यस्वरं द्वन्द्वेऽनुपूर्वं पूर्व निपतति / कृत्तिकारोहिण्यः, हेमन्तशिशिरौ / तुल्यस्वरमिति किम् ? पुष्यपुनर्वसू / ग्रीष्मवसन्तौ // 162 // अ० नक्षत्रवाचिनाम तुल्यसङ्ख्यस्वरम्, तथा ऋतुवाचिनाम तुल्यसङ्ख्यस्वरं इति योज्यम् / अश्विनीभरणकृत्तिकाः / ऋतुवाचि-एवं शिशिरवसन्ताः, हेमन्तशिशिरवसन्ताः // 162 // . सङ्ख्या समासे // 3 / 1 / 163 // सङ्ख्यावाचिनाम समासमात्रेऽनुपूर्व निपतति / बहुव्रीहौ, द्वित्राः त्रिचतुरः। द्विर्दश द्विदशाः / द्विगौ, द्विशती / द्वन्द्वे, एकादश सप्ततिशतम् // 163 // तृतीयस्याध्यायस्य प्रथमः पादः समाप्तः / ग्रं० श्लोक० 607 / अ० द्वौ वा त्रयो वा द्वित्राः / 'प्रमाणी सङ्ख्याड्डः' (7 / 3 / 128) त्रयो वा चत्वारो वा त्रिचतुराः 'नसुव्युपत्रेश्वतुरः' (7 / 3 / 131) / इति सूत्रेण अप् समासान्तः / जस् / अत आः० (1 / 4 / 1) एवं पञ्चषाः / द्विर्दश इति वाक्ये 'प्रमाणीसङ्ख्याड्डः' (7 / 3 / 128) इति डः, एवं त्रिदशाः / द्वे शते समाहृते द्विशती / त्रिशती 'द्विगोः समाहारात्' / (2 / 4 / 22) ङी / एकश्च दश च एकादश / एवं द्वादश त्रयोदश सप्ततिश्च शतं च / 'एकादश षोडशषोडत्षोढाषड्डा' (3 / 2 / 91) इति दीर्घः // 163 / / इति श्रीसिद्धहेमशब्दानुशासने तृतीयस्याध्यायस्य मध्यमवृत्त्यचूरिभ्यामलङ्कृतः प्रथमः पादः समाप्तः / જે વ્યાકરણ વાકયની અશુદ્ધિનું ભાન કરાવે છે, તે જ શુદ્ધ વ્યાકરણ. જે વૈરાગ્ય આત્માની અશુદ્ધિનું ભાન કરાવે છે, તે જ શુદ્ધ વૈરાગ્ય.