________________ 260 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते सुखादयो दश सुखयाता यातसुखेत्यादि // 152 // अ० शाङ्गरस्य वृक्षस्य विकारः फलं 'दोरप्राणिनः' (6 / 2 / 49) इति सूत्रेण मयट्, ‘फले' (6 / 2 / 58) लुक् इति सूत्रेण मयट लुप्यते / शाङ्गरं जग्धमनया शाङ्गरजग्धी 'अनाच्छादजात्या०' (2 / 4 / 47) इति ङीः / पाणौ गृह्यते स्म इति पाणिगृहीती 'क्तक्तवतू' (5 / 1 / 174) अथवा पाणिर्गृहीतोऽस्याः पाणिगृहीती / सुखदुःख तृप्र कृच्छ्र अस्र अलीक करुण कृपण सोढ प्रतीप इति सुखादिशब्दाः / दुःखहीना हीनदुःखा // 152 / / आहिताग्न्यादिषु // 3 // 1153 // आहिताग्न्यादिषु बहुव्रीही तान्तं पूर्व वा निपतति / आहितोऽग्निर्येन स आहिताग्निः अग्न्याहितः / जातपुत्रः पुत्रजात इत्यादि // 153 // / ___अ० आहिताग्निः / आदिशब्दात् जातदन्तः दन्तजातः / जातश्मश्रुः श्मश्रुजातः / पीततैलः तैलपीतः / पीतघृतः घृतपीतः / पीतमद्यः मद्यपीतः / पीतविषः विषपीतः / ऊढभार्यः भार्योढः / गतार्थः अर्थगतः / छिन्त्रशीर्षः शीर्षच्छिन्नः इति आहिताग्निगणः / बहुवचनमाकृतिगणार्थम् / तेन पीतदधिः दधिपीतः इत्यादयोऽपि ज्ञातव्याः / 'धागः' (4 / 4 / 15) इत्यनेन दधातेर्हिरादेशः 'आः खनिसनिजनः' (4 / 2 / 60) इत्यनेन आत्वम् // 153 / / प्रहरणात् // 3 / 1 / 154 // प्रहरणवाचिशब्दात् क्तान्तं बहुव्रीही पूर्व वा स्यात् / उद्यतोऽसिरनेन 'उद्यतासिः अस्युद्यतः / आकृष्टधन्वा धनुराकृष्टः / उद्यतमुशलः मुशलोद्यतः // 154 // अ० २कलितप्रहरणः / प्रहरणकलितः // 154 // - न सप्तमीन्द्वादिभ्यश्च // 3 // 1 // 15 // . नवेति 'निवृत्तं नप्रकरणात्, इन्दु आदेः प्रहरणवाचिशब्दाच्च पूर्व सप्तम्यन्तं न निपतति बहुव्रीहौ / इन्दुहेलौ यस्य (स) इन्दुमौलिः चन्द्रमौलिः इत्यादि / प्रहरणात्, असिः पाणावस्य असिपाणिः दण्डपाणिः चक्रपाणिः पाशहस्तः / बहुलाधिकारात् पाणिवज्रः हस्तवज्रः / अत्र पूर्वनिपातोऽपि प्रयोगानुसारार्थम् / एवमुत्तरत्रापि // 155 // . अ० 'न सप्तमी'त्यादि / अत्र सप्तम्यन्तशब्दस्य विशेषणत्वात् 'विशेषणसर्वादि०' (3 / 1 / 150) इत्यनेन पूर्वनिपाते प्राप्ते पूर्वनिपातनिषेधसूत्रमिदम् / इन्दुमौलिः चन्द्रमौलिः शशिशेखरः पद्मनाभः ऊर्णनाभः / ऊर्णा नाभौ यस्य 'नाभेर्नाम्नि' (7 / 3 / 134) इत्यत् ‘ड्यापो बहुलं नाम्नि' (2 / 4 / 99) ह्रस्वः / पद्महस्तः शङ्खपाणिः दर्भपवित्रपाणिः पद्मपाणिरित्यादि / प्रहरणात्, असिपाणिः खङ्गपाणिः दण्डपाणिः शूलपाणिः चक्रपाणिः शार्ङ्गपाणिः धनुष्यपाणिः धनुहस्तः पाशहस्तः खङ्गहस्तः / वज्रहस्तः वज्रपाणिः इति प्रयोगाः // 155 / / गड्वादिभ्यः // 3 // 11156 // नवेत्यनुवर्तते पृथग्वचनात् गड्वादिभ्यो बहुव्रीहौ सप्तम्यन्तं पूर्व वा निपतति / गडुः कण्ठे यस्य कण्ठे गडुः गडुकण्ठः इत्यादि // 156 // 1. अत्र 'जातिकालेत्यनेन जातिशब्दानां अस्यादीनां पूर्वनिपाते सिद्धावपि व्यक्तेर्विवक्षायां तत् सिद्धयर्थमिदम् / 2. प्रहरणवाचिशब्दोऽस्यादिवत् प्रहरणशब्दोऽपि भवतीत्याशयेन 'कलितप्रहरणः' इत्युदाहृतम् / 3. अस्मिन्नेव सूत्रे इति शेषः /