Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay
View full book text ________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः 257 राज्यदेव्याद्यपहारांदिकृतमिति नैकत्वम् / / 141 / / नदीदेशपुरां विलिङ्गानाम् // 3 // 1 // 142 // विविधलिङ्गानां नदीदेशपुरवाचिशब्दानां स्वैर्द्वन्द्व एकार्थो भवति। नदी, गङ्गाशोणम् / देश, कुरुकुरुक्षेत्रम् / पुर, मथुरापाटलिपुत्रम् / स्वैरित्येव ? शौर्य च नगरं केतवता च ग्रामः शौर्यकेतवते / विलिङ्गानामिति किम् ? गङ्गायमुने, मद्रकेकयाः, मथुरातक्षशिले // 142 // . ___ अ० विविधं लिङ्गं येषां ते विलिङ्गाः तेषाम् / गङ्गा च शोणश्च गङ्गा स्त्रीलिङ्गः शोणश्च पुल्लिङ्ग इति विलिङ्गत्वं सर्वत्र / कुरवश्च कुरुक्षेत्रं च, मथुरा च पाटलिपुत्रं च / पुर्शब्दस्य देशाङ्गत्वाद्देशग्रहणेनैव सिद्धे पुग्रहणं ग्रामनिषेधार्थम्, जाम्बवश्च शालूकिनी च जाम्बवशालूकिन्यौ ग्रामौ, अत्र नैकत्वम् / गङ्गा च यमुना च, मद्राश्च केकयाश्च / / 142 / / पात्र्यशूद्रस्य // 3 // 1143 // यैर्मुक्ते पात्रं संस्कारेण शुद्धयति ते पात्रमहन्तीति पात्र्याः / पात्र्यवाचिनां शूद्रवाचिनां स्वैर्द्वन्द्व एकार्थों भवति / तक्षायस्कारम्, रजकतन्तुवायम्, किष्किन्धगन्धिकम्, शकयवनम्, पात्र्येति किम् ? जनंगमबुकसाः। शूद्रेति किम् ? ब्राह्मणक्षत्रियविशः // 143 // .. अ. पात्र्यश्चासौ शूद्रश्च / यैः-रजकादिनरविशेषैः, पात्रं-भाजनं, पात्रमर्हति (इति) पात्र्यः ‘पात्रात्तौ' (6 / 4 / 180) इति सूत्रेण यप्रत्ययः, कारीषभस्मसुवर्णजादिना सूत्रधारलोहारठठाररजकादयः / किष्किन्धाः गन्धिकाः शकाः यवनाः एते चत्वारो म्लेच्छभेदाः / जनङ्गमाः-अन्त्यजाः / / 143 / / गवाश्वादिः // 3 / 1 / 144 // गवाश्वादिर्द्वन्द्व एकार्थः स्यात् / गौश्च अश्वश्च गवाश्वम् / गवाविकमित्यादि // 14 // अ० गवाश्चादिगणे गवाश्वादि आरभ्य अजैडकं यावत्, ‘पशुव्यञ्जनानाम्' (3 / 1 / 132) इति विकल्पे प्राप्ते, अत्र गवाश्वादिसूत्रे नित्यार्थं पाठः कृत इति भावः / ‘स्वरेऽवाऽनक्षे' (1 / 2 / 29) इति अवादेशः / आदिशब्दात् गवैडकम्, अजाविकम्, अजैडकम्, कुब्जवानम्, कुब्जकिरातकम्, पुत्रपौत्रम्, नित्यवैराभावपक्षे श्वचण्डलाम्, स्त्रीकुमारम्, दासीमाणवकम्, उष्ट्रखरम्, उष्ट्रशशम्, मूत्रशकृत्, मूत्रपुरीषम्, यकृन्मेदः, मांसशोणितम्, दर्भशरम्, दर्भपूतीकम्, अर्जुनपुरुषम्, तृणोलुपम्, तथा कुडीकुडम्, दासीदासम्, भागवतीभागवतम्, एषु त्रिषु 'पुरुषः स्त्रिया' (3 / 1 / 126) इत्येकशेषो न भवति / निपातनादिति गवाश्चादिगणः / गवाश्वादिषु यथोच्चारितशब्दरूपग्रहणादन्यत्र नायं विधिः / गोऽश्वौ गोऽश्वम्, गोअश्वौ / गोअश्वम् / गवेलकौ गवेलकम्, एषु पशुविभाषा / 'चार्थे द्वन्द्वः सहोक्तौ' (3 / 1 / 117) इति प्राप्तो नित्यार्थोऽयं पाठः / 'चण्डालपाटके ये श्वानो वसन्ति तेऽत्र विवक्षिताः पशुत्वात् विकल्पे प्राप्ते, दर्भादिषु तृणजातित्वाद्विकल्पे प्राप्ते (नित्यार्थमत्रः पाठः) पुरुषस्तृणविशेषः / गवाश्वादिषु ‘स्वरेऽवाऽनक्षे' (1 / 2 / 29) इत्यनेन अव आदेशो वा, गो अश्वौ गोऽश्वौ अत्र तु 'वात्यसन्धिः' (1 / 2 / 31) इति असन्धिर्वा भवति // 144 / / न दधिपयआदिः // 3 / 1 / 145 // दधिपयःप्रभृतिर्द्वन्द्व एकार्थो न भवति। दधि च पयश्च दधिपयसी, सर्पिर्मधुनी, मधुसर्पिषी, शिववैश्ववणी, 1. श्वचाण्डालमित्यत्र चण्डालगृहद्वारे ये श्वानो वसन्ति ते विवक्षिता इत्याह / तथा दर्भशरमित्यादौ विशेषमाह दर्भादिष्विति / 2. अर्जुनपुरुष इत्यत्र पुरुषशब्दस्तृणविशेषर इत्याह-पुरुष इति / मूलोक्तगवाश्वादिविषये आह-गवाश्वादिष्विति /
Loading... Page Navigation 1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310