________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः 257 राज्यदेव्याद्यपहारांदिकृतमिति नैकत्वम् / / 141 / / नदीदेशपुरां विलिङ्गानाम् // 3 // 1 // 142 // विविधलिङ्गानां नदीदेशपुरवाचिशब्दानां स्वैर्द्वन्द्व एकार्थो भवति। नदी, गङ्गाशोणम् / देश, कुरुकुरुक्षेत्रम् / पुर, मथुरापाटलिपुत्रम् / स्वैरित्येव ? शौर्य च नगरं केतवता च ग्रामः शौर्यकेतवते / विलिङ्गानामिति किम् ? गङ्गायमुने, मद्रकेकयाः, मथुरातक्षशिले // 142 // . ___ अ० विविधं लिङ्गं येषां ते विलिङ्गाः तेषाम् / गङ्गा च शोणश्च गङ्गा स्त्रीलिङ्गः शोणश्च पुल्लिङ्ग इति विलिङ्गत्वं सर्वत्र / कुरवश्च कुरुक्षेत्रं च, मथुरा च पाटलिपुत्रं च / पुर्शब्दस्य देशाङ्गत्वाद्देशग्रहणेनैव सिद्धे पुग्रहणं ग्रामनिषेधार्थम्, जाम्बवश्च शालूकिनी च जाम्बवशालूकिन्यौ ग्रामौ, अत्र नैकत्वम् / गङ्गा च यमुना च, मद्राश्च केकयाश्च / / 142 / / पात्र्यशूद्रस्य // 3 // 1143 // यैर्मुक्ते पात्रं संस्कारेण शुद्धयति ते पात्रमहन्तीति पात्र्याः / पात्र्यवाचिनां शूद्रवाचिनां स्वैर्द्वन्द्व एकार्थों भवति / तक्षायस्कारम्, रजकतन्तुवायम्, किष्किन्धगन्धिकम्, शकयवनम्, पात्र्येति किम् ? जनंगमबुकसाः। शूद्रेति किम् ? ब्राह्मणक्षत्रियविशः // 143 // .. अ. पात्र्यश्चासौ शूद्रश्च / यैः-रजकादिनरविशेषैः, पात्रं-भाजनं, पात्रमर्हति (इति) पात्र्यः ‘पात्रात्तौ' (6 / 4 / 180) इति सूत्रेण यप्रत्ययः, कारीषभस्मसुवर्णजादिना सूत्रधारलोहारठठाररजकादयः / किष्किन्धाः गन्धिकाः शकाः यवनाः एते चत्वारो म्लेच्छभेदाः / जनङ्गमाः-अन्त्यजाः / / 143 / / गवाश्वादिः // 3 / 1 / 144 // गवाश्वादिर्द्वन्द्व एकार्थः स्यात् / गौश्च अश्वश्च गवाश्वम् / गवाविकमित्यादि // 14 // अ० गवाश्चादिगणे गवाश्वादि आरभ्य अजैडकं यावत्, ‘पशुव्यञ्जनानाम्' (3 / 1 / 132) इति विकल्पे प्राप्ते, अत्र गवाश्वादिसूत्रे नित्यार्थं पाठः कृत इति भावः / ‘स्वरेऽवाऽनक्षे' (1 / 2 / 29) इति अवादेशः / आदिशब्दात् गवैडकम्, अजाविकम्, अजैडकम्, कुब्जवानम्, कुब्जकिरातकम्, पुत्रपौत्रम्, नित्यवैराभावपक्षे श्वचण्डलाम्, स्त्रीकुमारम्, दासीमाणवकम्, उष्ट्रखरम्, उष्ट्रशशम्, मूत्रशकृत्, मूत्रपुरीषम्, यकृन्मेदः, मांसशोणितम्, दर्भशरम्, दर्भपूतीकम्, अर्जुनपुरुषम्, तृणोलुपम्, तथा कुडीकुडम्, दासीदासम्, भागवतीभागवतम्, एषु त्रिषु 'पुरुषः स्त्रिया' (3 / 1 / 126) इत्येकशेषो न भवति / निपातनादिति गवाश्चादिगणः / गवाश्वादिषु यथोच्चारितशब्दरूपग्रहणादन्यत्र नायं विधिः / गोऽश्वौ गोऽश्वम्, गोअश्वौ / गोअश्वम् / गवेलकौ गवेलकम्, एषु पशुविभाषा / 'चार्थे द्वन्द्वः सहोक्तौ' (3 / 1 / 117) इति प्राप्तो नित्यार्थोऽयं पाठः / 'चण्डालपाटके ये श्वानो वसन्ति तेऽत्र विवक्षिताः पशुत्वात् विकल्पे प्राप्ते, दर्भादिषु तृणजातित्वाद्विकल्पे प्राप्ते (नित्यार्थमत्रः पाठः) पुरुषस्तृणविशेषः / गवाश्वादिषु ‘स्वरेऽवाऽनक्षे' (1 / 2 / 29) इत्यनेन अव आदेशो वा, गो अश्वौ गोऽश्वौ अत्र तु 'वात्यसन्धिः' (1 / 2 / 31) इति असन्धिर्वा भवति // 144 / / न दधिपयआदिः // 3 / 1 / 145 // दधिपयःप्रभृतिर्द्वन्द्व एकार्थो न भवति। दधि च पयश्च दधिपयसी, सर्पिर्मधुनी, मधुसर्पिषी, शिववैश्ववणी, 1. श्वचाण्डालमित्यत्र चण्डालगृहद्वारे ये श्वानो वसन्ति ते विवक्षिता इत्याह / तथा दर्भशरमित्यादौ विशेषमाह दर्भादिष्विति / 2. अर्जुनपुरुष इत्यत्र पुरुषशब्दस्तृणविशेषर इत्याह-पुरुष इति / मूलोक्तगवाश्वादिविषये आह-गवाश्वादिष्विति /