________________ 256 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवरिभ्यामलङ्कृते प्राणितूर्याङ्गाणाम् // 3 / 1137 // 'प्राण्यङ्गानां तूर्याङ्गाणां च स्वैर्द्वन्द्व एकार्थः स्यात् / प्राण्यङ्ग, दन्ताश्च ओष्ठौ चेदं दन्तोष्ठम्, इदं पाणिपादम्, इदं कर्णनासिकम् / तूर्याङ्ग, इदं शङ्कपटहम्, इदं भेरीकाहलम् / स्वैरित्येव पाणिगृध्रौ, पीठपटही // 137 // अ० शङ्खादीनि शाङ्खिकवादकादयः, तेषां समुदायः तूर्यमुच्यते तूर्याणां अङ्गा-अवयवाः // 137 // . चरणस्य स्थेणोऽद्यतन्यामनुवादे // 3 // 11138 // 'चरणाः कठादयः, प्रमाणान्तरप्रतिपन्नस्यार्थस्य शब्देन सङ्कीर्तनमनुवादः / अद्यतन्यां परभूतायां यौ चरणस्थेणी तयोः कर्तृत्वेन सम्बन्धिनो ये चरणास्तद्वाचिशब्दानां स्वैर्द्वन्द्वोऽनुवादविषये एकार्थः स्यात् / प्रत्यष्ठात् कठकालापम् / उदगात् कठकौथुमम् / 'एषामुदयप्रतिष्ठे कोऽप्यनुवदति // 138 // अ० कठेन प्रोक्तो वेदः 'तेन प्रोक्ते' (6 / 3 / 181) इत्यण् ‘कठादिभ्यो वेदे लुप्' (6 / 3 / 183) इत्यनेन अण् लुप्यते / कटं वेत्त्यधीते वा 'तद्वेत्त्यधीते' (6 / 2 / 117) अण् 'प्रोक्तात्' (6 / 2 / 129) इत्यणो लुप्, एवं 'कलापिना प्रोक्तो वेद इत्यादि / कठश्च कालापश्च कठाश्च कालापाश्चेति वा इत्यादि-वाक्यानि / प्रत्यष्ठात् स्था प्रतिपूर्वः अद्यतनी दि 'सिजद्यतन्यां' (3 / 4/53) 'पिबैतिदाभूस्थःसिचो लुप् परस्मै न चेट्' (4 / 3 / 66) सिच् लुप्यते, अट् / उदगात्इण्क् गतौ उत्पूर्वं अद्यतनी सिच् ‘इणिकोर्गा' (4 / 4 / 23) इणो गा आदेशः // 138 / / __अक्लीबेऽध्वर्युक्रतोः // 3 // 11139 // अध्वर्यवो यजुर्वेदविदः, तेषां वेदोऽप्यध्वर्युः, यजुर्वेदोक्ताः क्रतवोऽश्वमेधादयोऽध्वर्युक्रतवः, अध्वर्युक्रतुवाचिशब्दानां स्वैर्द्वन्द्र एकार्थो भवति, अक्लीबे / अध्वर्युक्रतुवाची शब्दचैन क्लीबः / अर्काश्वमेधम् // 139 // _ निकटपाठस्य // 3 / 1 / 140 // निकटः पाठो येषामध्येतॄणां ते निकटपाठाः, तद्वाचिनां द्वन्द्वः स्वैरेकार्थः स्यात् / पदकक्रमकम् / पदानन्तरं क्रमस्य पाठात्पाठयोनिकटत्वम् // 140 // अ० पदमधीते क्रममधीते ‘पदक्रमशिक्षामीमांसासाम्नोऽकः' (6 / 2 / 126) इति. अकप्रत्ययः / पदकश्च क्रमकश्च पदकक्रमकम् // 140 // नित्यवरस्य // 3 // 1 // 14 // नित्यमकारणं जातिनिबद्धं वैरं येषां तद्वाचिशब्दानां स्वैर्द्वन्द्व एकार्थः स्यात् / अहिनकुलम् ब्राह्मणश्रमणम्, अश्वमहिषम्, गोव्याघ्रम्, काकोलूकम्, नित्यवैरस्येति किम् ? देवासुराः देवासुरम् // 141 // अ० तद्वाचि(शब्दा)नां कोऽर्थः नित्यवैरवाचिनाम्, पशुविकल्पः पक्षिविकल्पश्च परत्वात्, 'नित्यवैरस्य' इत्यनेन बाध्यते / कौरवपाण्डवाः, कौरवपाण्डवम् / कौरवपाण्डवानां देवानां असुराणां च न जातिनिबद्धं वैरम्, किन्तु 1. अत्र द्वन्द्वान्ते श्रुताङ्गशब्दस्य प्रत्येकं योगात् प्राण्यङ्गानां प्राण्यङ्गैस्तूर्याङ्गाणां तूर्याङ्गैः समास एकवद्भवति न व्यतिरेकेण तेन प्राणि...- गृध्रावित्यादौ नैकत्वम्, प्राण्यङ्गं प्राण्यवयवः, तूर्याङ्गं तूर्योपकारकम् / 2. वेदशाखाध्येतारः कठादयश्चरणाः, पदा प्रतिपत्त्रा प्रमामान्तरेणावगतमप्यर्थं कार्यान्तरार्थं प्रयोक्ता प्रतिपाद्यते तदाऽनुवादो भवतीत्यर्थः / ते चरणा यदा लुङन्तस्थाधातोलुंडन्तेण्धातोः कर्तारो भवन्ति तदा तेषां द्वन्द्वोऽनुवादे एकार्थः स्यादिति भावः / 3. यदा कठेषु कालापेषु च प्रतिष्ठितेषु कठेषु कौंथुमेषु चोदितेषु आवाभ्यां तत्र गन्तव्यमिति संकेतयित्वा तत्संकेतं विस्मृत्यासीनं प्रतीदं वाक्यमुच्यत इति भावः / 4. कलापिना प्रोक्तं वेदमधीयते इत्यर्थे तेन प्रोक्तेत्यणि 'कलापिकुथुमि' (74 / 12) इत्यनेन अन्त्यस्वरादिलोपे कालापा इति भवति /