________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः 255 विग्रहे कृते इतरेतरयोग एव भवति नैकत्वरूपः समाहार इति भावः / प्लक्षाश्च न्यग्रोधाश्च इति बहुत्वे समासः / एवमग्रेपि द्वयोः पदयोर्मध्यादेकस्यापि पदस्य बहुत्वे समासे कृते / आरण्याः पशवो मृगा इति मृगाणामपि पशुत्वात् 'पशुव्यञ्जनानाम्' (3 / 1 / 132) इत्यनेनैव सिद्धे 'यत्तरुतृणधान्यमृगपक्षिणां बहुत्वे' इत्यत्र मृगोपादानं तद्यदा ग्राम्यपशूनामरण्यपशुभिः सहोक्तिर्भवति तदा एकत्वं मा भूदिति ज्ञापयति, एषाऽवचूरिः 'तरुतृणे' ति सूत्रपाठान्ते ज्ञातव्याः // 133 // सेनाङ्गक्षुद्रजन्तूनाम् // 3 / 1 / 134 // सेनाङ्गानां क्षुद्रजन्तूनां च बहुत्वे वर्तमानानां स्वैर्द्वन्द्वः एकार्थों नित्यं स्यात् / पृथग्योगानवेति निवृत्तम् / अश्वाश्च रथाश्च अश्वरथम्, 'हस्त्यश्वम्, क्षुद्रजन्तवोऽल्पकायाः प्राणिनः आनकुलमिह स्मर्यन्ते / यूकालिक्षम्, दंशमशकम्, स्वैरित्येव ? हस्तिमशकाः // 134 // फलस्य जातौ // 3 / 1 / 135 // फलवाचिशब्दानां बहुत्वे वर्तमानानां जातौ विवक्षितायां स्वैर्द्वन्द्वः एकार्थः स्यात् / बदराणि चामलकानि च बदरामलकम् / जाताविति किम् ? व्यक्तिपरोक्तौ सत्यां मा भूत्, एतानि बदरामलकानि तिष्ठन्ति / स्वैरित्येव ? बदरशृगालाः // 13 // __ अ० व्यक्तिः परं प्रधानं यस्यामुक्तौ सा व्यक्तिपरा / व्यक्तिपरा चासौ उक्तिश्च व्यक्तिपरोक्तिः तस्याम्, २'फलस्य जातौ' इति पूर्वसूत्रे फलशब्दानामेकत्वविधानम् / तच्च अप्राणिपश्चादेः' (3 / 1 / 136) इत्यनेनैव सिद्धम्, फलानामप्राणित्वात् / यत्पुनः ‘फलस्य जातौ' सूत्रं तद्बहुत्वनिवृत्त्यर्थं, बहुत्वमिति ‘फलस्य जातौ' अत्रैव स्थितं नागेतनसूत्रेषु प्रसरति इति पूर्वयोगारम्भात् इत्यक्षरपरमार्थबृहद्धृत्तौ पूर्वयोगारम्भात् जातिविवक्षायां 'अप्राणिपश्चादे' रिति सूत्रं प्रवतते, व्यक्तिविवक्षायां तु यथाप्राप्तम् / / 135 / / ___ अप्राणिपश्वादेः // 3 // 1 // 136 // बहुत्वे इति निवृत्तम् / प्राणिभ्यः पश्चादिसूत्रोक्तेभ्यश्च येऽन्ये 'द्रव्यवाचिनस्तेषां जातौ वर्तमानानां शब्दानां स्वैर्द्वन्द्रः एकार्थः स्यात् / आराशस्त्रि धानाशष्कुलि कुण्डबदरम् / जातावित्येव ? सह्यविन्ध्यौ / प्राण्यादिवर्जनं किम् ? ब्राह्मणक्षत्रियविट्शूद्राः, ब्राह्मणक्षत्रियविट्शूद्रम्, गोमहिषौ, गोमहिषम्, दधिघृते दधिघृतमित्यादि // 136 // अ० आराशस्त्रि, आराशस्त्र्यौ इमे / आरा च शस्त्री च, 'क्लीबे' (2 / 4 / 97) इति ह्रस्वः / धाना च शष्कुली च, युगवस्त्रमित्यपि तरुशैलं इत्यपि / प्राणिपश्वादिजातिवर्जनं किम् ? 'पशुव्यञ्जनानाम्' (3 / 1 / 132) इत्यनेन एकत्वं वा / आदिशब्दात् प्लक्षन्यग्रोधौ कुशकाशौ व्रीहियवौ रुरुपृषतौ हंसचक्रवाकौ अश्वरथौ इत्यत्र 'सेनाङ्ग.' (3 / 1 / 134) इति वा एकत्वम् / सूत्रे अप्राणि इति प्राणिनो द्रव्यस्य पर्युदासेन अप्राणिनोऽपि द्रव्यस्य ग्रहणादिह न भवति रूपरसगन्धस्पर्शाः, उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनानि, अत्र न एकत्वमितरेतरद्वन्द्वः प्रवृत्तः // 136 / / 1. अत्र पूर्वसूत्रे पशुग्रहणादेकवद्भावे प्राप्तेऽनेनैकार्थो नित्यः / 2. बदरामलकादिफलानामप्राणिद्रव्यत्वेनाप्राणिपश्वादेरित्यनेनैवैकत्वविधाने सिद्धे यत्फलस्य जाताविति सूत्रणं तदेतत्सूत्रानन्तरं न बहुत्वपदानुवृत्तिरिति सूचयितुम्, एतत्सूत्रे तु तदस्त्येव, पुनर्योगारम्भात् तस्माद्बहुत्वे वर्त्तमानानां फलवाचिनां जातौ विवक्षितायां स्वैर्द्वन्द्व एकार्थो भवति न व्यक्तिविवक्षायामिति प्रत्यक्षरं यथार्थभूतायां बृहद्वृत्तावुक्तमिति भावः / 3. द्रव्यवाचिन इति सदृग्ग्राहिणं पर्युदासार्थनञमङ्गीकृत्याप्राणिपश्वादेरित्युक्तत्वाल्लभ्यते, न तु गुणक्रियाजातीनामेकवद्भावः / ब्राह्मणेति जाती बहुवचनान्तानामितरेतरयोगः समाहारश्च /