________________ 254 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते 'द्रव्यं गुणाद्याश्रयः / विरोधिवाचिनां शब्दानामद्रव्याणां द्वन्द्वो वा एकः-एकार्थः स्यात्, स चेद् द्वन्द्र स्वैः सजातीयैरेवारभ्यते / लाभालाभम्, 'लाभालाभौ / सुखदुःखम्, सुखदुःखे / विरोधिनामिति किम् ? कामक्रोधौ / अद्रव्याणामिति किम् ? शीतोष्णे जले / स्वैरिति किम् ? बुद्धिसुखदुःखानि // 130 // ____ अ० लाभालाभमित्यत्र शीतोष्णं, शीतोष्णे, जन्ममरणं, जन्ममरणे, संयोगवियोगं, संयोगवियोगौ, हर्षविषादम्, हर्षविषादौ इत्याधुदाहरणावली अवधार्या / उपचाराच्छीतोष्णादिशब्दो द्रव्ये वर्तते / सुखदुःखाविमौ ग्रामौ / विरोधिनां हि विरोधिन एव स्वा भवन्ति / अत्र बुद्धिर्विरोधिनी न हि / / 130 / / अश्ववडवपूर्वापराधरोत्तराः // 3 / 1 / 13 / / / अश्ववडवेति पूर्वापरेति अधरोत्तरेति त्रयो द्वन्द्वा एकार्था वा स्युः स्वैः / अश्वश्च वडवा च अश्ववडवम्, अश्ववडवौ / अश्ववडवेति सूत्रे निर्देशादेवेतरेतरयोगे ह्रस्वत्वं निपात्यते / पूर्वापरम् पूर्वापरे / अधरोत्तरम्, अधरोत्तरे / स्वैरित्येव ? अजाश्ववडवाः // 131 // ___ अ० अश्ववडवमित्यक्ष एकत्वे सति क्लीबत्वं भवति इति ‘क्लीबे' (2 / 4 / 97) इति सूत्रेण ह्रस्वः / “यत्र तु पक्षे इतरेतरद्वन्द्वः तत्र सूत्रपाठबलादेव ह्रस्वत्वं निपात्यते / 'पशुव्यञ्जनानाम्' (3 / 1 / 132) इति वक्ष्यमाणसूत्रेणैव पशुद्वारेण विकल्पे सिद्धे यदत्र अश्ववडवग्रहणं तत्पर्यायनिवृत्त्यर्थम् / तेन हयवडवे इत्यत्र न एकत्वम् / तथा पूर्वापरादि इति पाठबलात् पदान्तरेण सहोक्तौ एकत्वं न भवति / यथा पूर्वपश्चिमौ दक्षिणापरौ अधरमध्यमौ उत्तरदक्षिणौ / इयमवचूरिः अजाश्ववडवेत्यत्राग्रे ज्ञातव्या // 131 / / “पशुव्यञ्जनानाम् // 3 / 1 / 132 // पशूनां व्यञ्जनानां च स्वैर्द्वन्द्व एकार्थो वा भवति / गोमहिषम्, गोमहिषौ / अश्वबलीवईम् अश्वबलीवर्दी / व्यञ्जन, दधिघृतम्, दधिघृते / शाकसूपम्, शाकसूपे / स्वैरित्येव ? गोनरौ दधिवारिणी // 132 // ___ अ० गोमहिषमत्र विकल्पः स्यात् / परं अश्वमहिषमत्र न विकल्पः, वक्ष्यमाण नित्यवैरस्य' (3 / 1 / 141) इति नित्यमेकत्वविधानात् / शाकविशेषः // 132 / / __ तरुतृणधान्यमृगपक्षिणां बहुत्वे // 3 / 1 / 133 // एतेषां बहुत्वे वर्तमानानां प्रत्येकं स्वैर्द्वन्द्व एकार्थो वा स्यात् / तरु, प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः / तृण, कुशकाशम्, कुशकाशाः / धान्य, तिलमाषम्, तिलमाषाः / ब्रीहियवम्, ब्रीहियवाः / मृगः, रुरुपृषतम्, रुरुपृषताः। पक्षि, हंसचक्रवाकम्, हंसचक्रवाकाः। एकस्यापि पदस्य बहुत्वे एकार्थो भवति, प्लक्षश्च न्यग्रोधाश्च, अथवा प्लक्षौ न्यग्रोधाश्च प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः, एवमन्येऽपि / बहुत्वे इति किम् ? प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ / प्लक्षौ च न्यग्रोधौ च प्लक्षन्यग्रोधाः / स्वैरित्येव ? प्लक्षयवाः गोपृषताः // 133 // ___ अ० तरुरिति सामान्यवचनेऽपि तरुविशेषा एव गृह्यन्ते / तेन वृक्षाश्च तरवश्व, अथवा धवाश्च वृक्षाश्च इत्येवं 1. इदं तदिति निर्देशयोग्यं द्रव्यमिति द्रव्यलक्षणमत्र न ग्राह्यं सुखदुःखादीनामपि द्रव्यत्वप्राप्तेरतोऽत्र विवक्षितं द्रव्यं दर्शयति / 2. अत्र सर्वत्र सहानवस्थानलक्षणोऽविरोधो विवक्षितः / 3. अत्र सुखदुःखयोर्विरोधेऽपि बुद्धेरविरोधित्वादसमानजातीयत्वाच्च सजातीयैरेव नारब्ध इति नैकवद्भावोऽपि त्वितरेतरयोग एव / 4. अत्रैकवद्भावे नपुंसकत्वादेव 'क्लीबे' इति सूत्रेण हस्वो भवति इतरेतरद्वन्द्वे तु अश्ववडवेति हस्वान्तनिर्देशादेव ह्रस्व इति भावः / 5. व्यञ्जनानामित्यवयवषष्ठी, तेन पशुविशेषो व्यंजनविशेषश्च ग्राह्यः, पशुपदेन ग्राम्यपशुग्रहणम्, न त्वारण्यानंकुरलादीनां ग्रहः, अग्रिमसूत्रे मृगग्रहणात, व्यञ्जनं येनानं रुचिमापद्यते तद्दधितशाकसूपादि / 6. पाणिनीयेत्वंत्र सामान्यविशेषयोनेतरेतरयोगद्वन्द्वोऽपि भवति /