________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः 253 सर्वत्र व्यावृत्त्युदाहरणे पुरुषः शिष्यते पूर्वसूत्रेण / 'तन्मात्रभेद इत्येव ? इमौ बलीवर्दाविति व्यावृत्तिाम्येति सूत्रान्ते ज्ञातव्या // 127 // क्लीबमन्येनैकं च वा // 3 // 1128 // क्लीबं नपुंसकं नाम अन्येनाक्लीवेन सहोक्तावेकं शिष्यते, तन्मात्रभेदे क्लीबाक्लीबमात्र एव चेद्भेदः, तचैकं शिष्यमाणमेकार्थ वा भवति, अर्थस्यैकत्वे तद्विशेषणानामपि तथाभावः / शुक्लं च वस्त्रम्, शुक्लश्च कम्बलः तदिदं शुक्लं, ते इमे शुक्ले वा / अन्येनेति किम् ? शुक्लं च 2 शुक्ले / शुक्लं च 3 इमानि शुक्लानि। तन्मात्रभेद इत्येव ? हिमहिमान्यौ, अक्षाश्च देवनादयः, अक्षाणि चेन्द्रियाणि अक्षाक्षाणि / पद्मश्च नागः पद्मा च लक्ष्मीः पद्मं च कमलं पद्मपद्मपद्मानि // 128 // अ० एकार्थे सति नपुंसकत्वं भवतीत्यर्थः-नपुंसकलिङ्गता भवतीत्यर्थः, पक्षे द्विवचनं औ / शुक्लं च वस्त्रं शुक्ला च शाटी तदिदं शुक्लम्, ते इमे शुक्ले वा, शुक्लं च वस्त्रं शुक्लश्च कम्बलः शुक्ला च शाटी, शुक्लं च शुक्लश्च शुक्ला च इति वाक्यं तदिदं शुक्लम्, तानीमानि शुक्लानि वा इत्यपि उदाहरणावली ज्ञातव्या / 'स्यादावसङ्ख्येयः' (3 / 1 / 119) इत्येकशेषः / महद्धिमं हिमानी हिमं च हिमानी च हिमहिमान्यौ / एवं महदरण्यं अरण्यानी अरण्यं च अरण्यानी च अरण्यारण्यांन्यौ / अक्षः पाशः अक्षः शकटावयवः अक्षो बिभीतकः, एतेषु प्रवृत्तिनिमित्तलक्षणोऽर्थभेदोऽप्यस्तीति नैकशेषः // 128 // पुष्यार्थाद्धे पुनर्वसुः // 3 // 1 // 129 // - एकशेषो निवृत्तः / एकमित्यनुवर्त्तते / पुष्यार्थाच्छब्दाढ़े नक्षत्रे वर्तमानात् परो भे एव वर्तमानः पुनर्वसु सहोक्तौ गम्यमानायां सामर्थ्यात् "द्वयर्थः सन्नेकः-एकार्थः स्यात् / पुनर्वसू, तिष्यपुनर्वसू, सिध्यपुनर्वसू, समाहारे तु तिष्यपुनर्वसु इति भवति, पुष्यार्थादिति किम् ? आर्द्रापुनर्वसवः, भ इति किम् ? पुष्यपुनर्वसवो बालाः, सहोक्तावित्येव ? 'पुष्यपुनर्वसवो मुग्धाः // 129 / / अ० 'क्लीबमन्येनैकं च वा पुष्यार्थाढ़े पुनर्वसुश्च नित्यं' इत्येकयोगाऽकरणादेकशेष इति निवृत्तम् / पुष्यपुनवसवो बालका इति, पुष्येण चन्द्रयुक्तेन युक्तः कालः पुष्यः, पुनर्वसुभ्यां चन्द्रयुक्ताभ्यां युक्तः कालः पुनर्वसुः / 'चन्द्रयुक्तात्काले लुप्त्वप्रयुक्ते' (6 / 2 / 6) इति सूत्रेण अण्, चन्द्रयुक्तेत्यनेनैव अण् लुप्यते / पुष्ये जातः पुष्यः, पुनर्वस्वोर्जातो भवो वा ‘भर्तुसन्ध्यादेरण' (6 / 3 / 89) इत्यनेन पुनरपि अण् / बहुलानुराधापुष्यार्थपुनर्वसुहस्तविशाखास्वाते प् (6 / 3 / 107) इति सूत्रेण अण् लुप्यते / पुष्यार्थेत्यत्र अर्थग्रहणं पर्यायार्थम्, तेन तिष्येत्यादि सिद्धम् / समाहारे तु तिष्यपुनर्वसु इति भवति // 129 / / विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः // 3 // 11130 // 1. तन्मात्रभेदे इत्येव, इमौ बलीवर्दी इतिपाठो ग्राम्येति सूत्रे इमौ गावावित्यनन्तरं योज्य इति भावः / 2. अक्षाश्चेत्यादौ न क्लीबाक्लीबमात्रभेदोऽपि . तुवाच्यभेदोऽप्यस्तीति नैकशेषः / 3. एकशेषेणैकप्रयोगत्वस्य सिद्धत्वादेकपदमर्थद्वारकम्, तथा च सामान्यार्थावबोधकत्वात् शिष्यमाणस्यैकार्थस्य नपुंसकलिङ्गता सेत्स्यति, सामान्ये नपुंसकत्वस्यौत्सर्गिकत्वादिति भावः / 4. एकशेषे सत्येकार्थाभावे यथा सम्भवं द्विवचन बहुवचनं वेत्यर्थः / 5. द्वयर्थ इति पुष्यश्च पुनर्वसू चेति विग्रहे पुनर्वसुशब्दस्य द्विवचनान्तत्वेन समासानन्तरं बर्थत्वाद्बहुवचने प्राप्ते द्वयर्थतां विधीयमानः एकार्थत्वमनुशास्तीति भावः / 6. पुष्यः पुनर्वसू येषान्ते पुष्यपुनर्वसवो मुग्धाः अत्र न सहोक्तिः किन्तु बहुव्रीहिरिति /