________________ 252 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते इति सूत्रेण युवापत्येऽर्थे आयनण् गाायण इति सिद्धम् / तथा वत्सस्यापत्यं वृद्धं वात्स्यः ‘गर्गादेर्यञ्' ततो वात्स्यस्यापत्यं युवा वात्स्यायनः 'यञिञः' इत्यायनण् / भागवित्तीत्यादि, भगवित्तस्यापत्यं भागवित्ति 'अत इञ्' (6 / 1 / 31) इति सूत्रेण इञ् भागवित्ति इति सिद्धम् / तथा भागवित्तेः सौवीरदेशस्यापत्यं युवा निन्दितो भागवित्तिक इति वाक्ये 'भागवित्तितार्णविन्दवाकशापेयान्निन्दायामिकण् वा' (6 / 1 / 105) इति सूत्रेण इकण् // 124 / / . स्त्री पुंवच्च // 3 / 1 / 125 // वृद्धस्त्रीवाची शब्दो युववाचिना सहोक्तावेकः शिष्यते, पुंवत् 'पुंल्लिङ्गश्चायम्, स्त्र्यर्थः पुमर्थः स्यादित्यर्थः, तन्मात्रभेदे / गार्गी च गाायणश्च गाग्र्यो / गार्गी च गाायणौ च गर्गाः गर्गान् // 125 // अ० गर्गस्यापत्यं वृद्धं गार्गि 'अत इञ्' (6 / 1 / 31) इति सूत्रेण इञ्, ततः स्त्री चेत् गार्गी ‘इन इतः' (2 / 4 / 71) इत्यनेन डी गार्गीति सिद्धम् / गार्गी च गाायणश्चेति वाक्ये गार्गी शिष्यते गाायणो लुप्यते, 'स्त्री पुंवच्च' इत्यनेन पुंवद्भावश्च दर्यते, तथाहि यथा गार्गी च गाायणौ च गर्गाः गर्गान् इति पुंवद्भावपक्षे वाक्यमिदं ज्ञातव्यम् / गर्गस्यापत्यं वृद्धस्त्री गार्गी 'गर्गादेर्यञ्' (6 / 1 / 42) 'यत्रो डायन् च वा' (2 / 4 / 67) इति सूत्रेण डीप्रत्ययः गार्गी इति जातः / अत्र पुंवद्भावः पुंवद्भावात् डीनिवृत्तिः ‘व्यञ्जनात्तद्धितस्य' (2 / 4 / 88) इत्यनेन, अथवा 'यञञोऽश्यापर्णान्तगोपवनादेः' (6 / 1 / 126) इत्यनेन यञ् लुप्यते, ततो गर्ग इति शब्दः पुंवद्भावे जातः / ततो जस् शस् ‘शसोऽता०' (1 / 4 / 49) इत्यनेन दीर्घः नत्वं च गर्गाः गर्गान् // 125 / / .. पुरुषः स्त्रिया // 3 / 1 / 126 // ___ पुरुषशब्दोऽयं प्राणिनी पुंसि रूढः / स्त्रीशब्देन सहोक्तौ पुरुषवाच्येकः शिष्यते तन्मात्रभेदेस्त्रीपुरुषमात्रश्चेद्भवति / ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ / गोमांश्च गोमती च गोमन्तौ / पटुश्च पट्वी च पटू / गौश्वायं गौश्चयम् इमौ गावी / तन्मात्रभेद इत्येव ? हंसश्च वरटा च हंसवरटे पुरुषयोषितौ / तथा कुक्कुटश्च मयूरी च कुक्कुटमयूर्यो गोवत्सौ, एषु प्रकृत्यर्थयोर्भेदः // 126 // . अ० कुक्कुटश्च कुक्कुटी च कुक्कुटौ इत्यपि ज्ञेयम् / प्रकृतिभेदोऽर्थभेदश्च द्वावपि / / 126 / / ग्राम्याशिशुद्विशफसङ्के स्त्रीप्रायः // 3 // 11127 // ग्राम्या अशिशवो ये द्विशफा द्विखुरा अर्थात्पशवस्तेषां सझे स्त्रीपुरुषाणां सहोक्तौ प्रायः स्त्रीवाच्येकः शिष्यते, चेत् स्त्रीपुरुषमात्रभेदः / पूर्वेण पुरुषशेते प्राप्ते स्त्रीशेषार्थं वचनम् / गावश्च स्त्रियो गावश्च नराः इमा गावः / अजाश्चमे अजाश्वेमाः इमा अजाः, ग्राम्येति किम् ? आरण्यानां मा भूत् / रुरवंश्येमाः इमे रुरवः। अशिश्विति किम् ? वत्साश्चेमे वत्साश्चेमाः इमे वत्साः। द्विशफेति किम् ? अश्वाश्चेमे अश्वाश्वेमाः इमे अश्वाः। सङ्घ इति किम् ? गौश्वायं गौश्चयं इमौ गावौ // 127 // अ० अश्वादीनां खुरसम्बन्धेऽपि वृत्तैकखुरत्वात्, मनुष्यादीनां खुररहितत्वात् द्विखुरत्वाभावात्, पुरुष एव शिष्यते / व्यावृत्त्युदाहरणेषु दर्शयिष्यति / बर्कर्यश्च बर्कराश्च बर्करा इत्यपि ज्ञेयम् / मनुष्याश्येमाः मनुष्याश्चेमे (इमे) मनुष्याः / 1. यो हि शिष्यते शब्दः सोऽयं पुंल्लिङ्गः, बहुवचने तु पुंबद्भावात् डीनिवृत्तौ वृद्धप्रत्ययस्य यत्रो लुप् गर्गाः गर्गानिति / 2. हंसवरटे इत्यादी प्रकृतिभेदो कुक्कुटमयूर्यावित्यादौ प्रकृतिभेदोऽर्थभेदश्चेत्यर्थः / 3. बर्करशब्दस्य प्रकरणादिना शिशुपरत्व इदं प्रत्युदाहरणम्, अन्यथा 'बर्करः तरुणः पशु'रिति कोशात् प्रत्युदाहरणं न संगच्छेत /