________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः 251 परमिति न्यायात् त्यदादीनां मिथः सहोक्तौ पाठे यद् यत् परं तत्तदेवैकं शिष्यते / स च यश्च यौ / यश्च एव च एतौ / एष च अयं च एतौ / स च त्वं च युवाम् / तवं च भवांश्च भवन्तौ / अहं च स च त्वं क्पम् / भवांश्च अहं च आवाम् / अहं च कश्च को / बहुलाधिकारात्कचित्पूर्वमपि शिष्यते स च यश्च तौ। अयं च एष च इमौ / त्वं च भवांश्च युवाम् / त्यदादेः कृतैकशेषस्य स्त्रीपुनपुंसकलिङ्गानां युगपदप्रयोगात् पर्यायप्राप्तौ शिष्यमाणलिङ्गप्राप्तौ वा 'स्त्री'नपुंसकानां सहवचने स्यात्परं लिङ्ग' मिति वचनात् (हैमलि० परलिङ्गाधिकारे श्लो० 3) परमेव लिङ्गं भवति / सा च चैत्रश्च तौ। स च देवदत्ता च तौ। तथा सा च कुण्डे पतानि। तथा स च कुण्डं च ते / तच्च चैत्रश्च ते // 120 // - अ० पाठे-सर्वादिगणप्रान्ते त्यद् तद् यद् अदस् इदम् एतद् एक द्वि युष्मद् भवतु अस्मद् किम् त्यदादिरयं गणः। ततोऽस्मिन् त्यदादिगणपाठमध्ये इत्यर्थः / तत् तत् तिष्ठति अन्ये लुप्यन्ते / अत्रोदाहरणयोः स्त्रीपुंल्लिङ्गयोः परं पुंलिङ्गमेव भवति / सा च कुण्डे च तानीत्यत्र स्त्रीनपुंसकयोः परं नपुंसकलिङ्गमेव भवति / स च कुण्डं च ते इत्यादिषु पुनपुंसकयोः परं नपुंसकलिङ्गमेव भवति // 120 // . . भ्रातृपुत्राः स्वसूदुहितृभिः // 3 // 13121 // बहुवचनं पर्यायार्थम् / स्वम्रर्थेन सहोक्तौ भ्रात्रर्थः शब्दः, तथा दुहित्रर्थेन सहोक्तौ पुत्रार्थः शब्द एकः शिष्यते / भ्राता च भ्रातरौ, एवं सौदों, भ्राता च भगिनी च भ्रातरौ, पुत्रश्च दुहिता च पुत्री, एवं (सुतश्च दुहिता च) सुतौ / पुत्रश्च सुता च पुत्रौ // 12 // अं० सोदर्यो बान्धवः, सोदर्यश्च स्वसा च सोदयौं // 121 / / पिता मात्रा वा // 3 / 1 / 122 // मातृशब्देन सहोक्तौ पितृशब्द एको वा शिष्यते / पिता च माता च पितरौ / पक्षे 'मातापितरौ // 122 // अ० मातृशब्दस्य अर्च्यत्वात् पूर्वनिपातः / / 122 / / ___ श्वशुरः श्वश्रूभ्यां वा // 3 // 11123 // श्वभूशब्देन सहोक्तौ श्वशुर एको वा शिष्यते / श्वशुरश्च श्वश्रूश्च श्वशुरौ / पक्षे श्वश्रूश्वशुरौ // 123 // वृद्धो यूना तन्मात्रभेदे // 3 / 1 / 124 // वृद्धः पौत्रादिः, युवा जीववंश्यादिः, वृद्धस्य यूना सहोक्तौ वृद्धवाच्येकः शिष्यते, तन्मात्र एव चेद्भेदो विशेषः स्यात्; यदि प्रकृतिभेदोऽर्थभेदो वाऽन्यो न भवतीत्यर्थः / गार्ग्यश्च गाायणश्च गाग्र्यो / वृद्ध इति किम् ? गर्गश्च गाायणश्च गर्गगाायणौ / यूनेति किम् ? गार्ग्यगौ / तन्मात्रभेदे इति किम् ? गार्ग्यवात्स्यायनौ अत्र प्रकृतिरन्या / भागवित्तिभागवित्तिकौ, अत्र कुत्सा सौवीरदेशत्वं चान्योऽर्थः // 124 // अ० तौ वृद्धयुवानौ मात्रं स्वभावो यस्य भेदस्य स तन्मात्रभेदः तस्मिन्, गर्गशब्दः गर्गस्यापत्यं गार्ग्यः ‘गर्गादेर्यञ्' (6 / 1 / 42) इति वृद्धेऽपत्येऽर्थे यञ्प्रत्ययः गार्ग्यः / तदनन्तरं गार्ग्यस्यापत्यं युवा गाायणः ‘यजिञः' (6 / 1 / 54) 1. भातृपुत्रौ स्वसृदुहितृभ्यामित्यनुक्त्वा बहुवचनेन निर्देशो भ्रात्रादेः पर्यायग्रहणार्थमित्याह-बहुवचनमिति / भ्रातृस्वसृशब्दयोः स्त्रीपुरुषमात्रभेदाभावात् 'पुरुषःस्त्रिया' इत्यस्य न प्रवृत्तिः / 2. मातुरच॑त्वात् 'लघ्वक्षरासखीति' तस्य प्राक् प्रयोगः / 3. श्वश्रूभ्यामिति द्विवचनं जाती धवयोगे च वर्त्तमानयोःश्वश्रवोर्ग्रहणार्थम / 4. गर्गेति अस्य वृद्धप्रत्ययान्तत्वाभावाचूना सहोक्तौ नैकशेषः /