________________ 250 - कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते यथा 'अहरहर्नयमानो गामश्वं पुरुषं पशुं / वैवस्वतो न तृप्यति सुराया इव दुर्मदी // 1 / / गुणप्रधानभावमात्रविशिष्टः समुच्चय एवान्वाचय उच्यते / यथा वटो भिक्षामट गां चानय / स हि भिक्षामटति तावश्चेद्गां पश्यति तदा तामप्यानयति / 2 / द्रव्याणामेव परस्परसापेक्षाणामुद्भूताऽवयवभेदः समूह इतरेतरयोग उच्यते / यथा चैत्रस्य मैत्रश्च घटं कुर्वाते चैत्रमैत्रौ घटं कुर्वाते, / चैत्रश्च मैत्रश्च देवदत्तश्च पटं कुर्वन्ति, चैत्रमैत्रदेवदत्ताः पटं कुर्वन्तीत्यत्राऽवयवानां उद्भूतत्वात्तत्सङ्ख्यानिबन्धनं द्विवचन बहुवचनं च भवति / 3 / स एव समूहस्तिरोहितावयवभेदः संहतिप्रधानः समाहारः समाहारद्वन्द्व उच्यते / धवखदिरपलाशं तिष्ठति / अत्र तु समूहस्य प्राधान्यात् तस्य चैकत्वादेकवचनमेव भवति / एषु चतुषु चाद्ययोः सहोक्त्यभावात् न समासः / उत्तरयोस्तु चार्थयोः सहोक्तेविद्यमानत्वात् समासो भवतीत्यर्थः // 117 // समानामर्थेनैकः शेषः // 3 / 1 / 118 // अर्थेन समानां शब्दानां सहोक्तौ गम्यमानायामेकः शिष्यते, अर्थादन्ये निवर्तन्ते / तत्र विशेषाकथनात् पर्यायेण शेषो भवति, बहुवचनमतंत्रम्, तेन द्वयोरप्येकः शिष्यते / वक्रश्च कुटिलश्च वक्री कुटिलौ वा / एवं वक्रदण्डश्व कुटिलदण्डश्च वक्रदण्डौ कुटिलदण्डौ इति वा / सितश्व शुक्लश्च श्वेतश्च सिताः, शुक्लाः, श्वेता वा। अर्थेन समानामिति किम् ? प्लक्षन्यग्रोधौ / सहोक्ताविति किम् ? वक्रश्च कुटिलश्च दृश्यः / द्वन्द्वापवादो योगः // 118 // स्यादावसङ्खयेयः // 3 / 1 / 119 // सरूपार्थं वचनम् / सर्वस्मिन् स्यादौ विभक्तौ समानां-तुल्यरूपाणां सहोक्तौ एकः शब्दः शिष्यते, असङ्ख्येयः-न तु सङ्ख्येयवाचिशब्दः / अक्षश्च शकटाक्षः अक्षश्च पाशकः भक्षश्च बिभीतकः अक्षाः, एवं पादाः, श्येनी च श्येनी च श्येन्यौ, एवं हरिण्यौ, रोहिण्यौ, वृक्षश्च 2 वृक्षौ, वृक्षश्च 3 वृक्षाः / स्यादाविति किम्। माता च जननी, माता च धान्यस्य, मातृमातारौ / याता च देवरजाया याता च गन्ता यातृयातारौ / अत्र ह्येकत्र मातरौ, यातरौ अन्यत्र मातारौ यातारौ 'तृस्वसृ' (1 / 4 / 38) इति औकारे आनीते रूपं भिद्यते। असङ्ग्येय इति कर्मनिर्देशात्सङ्ग्यानवाचिनो भवत्येव / विंशतिश्च 2 विंशती / नवतिश्च 3 नवतयः // 119 // ____ अ० सरूपार्थमिति, यदि 'स्यादावसङ्ख्येय' इति सूत्रं न कुर्यात्, तदाऽर्थसाम्यस्य स्यादावपि अभिद्यमानत्वात्, 'समानामर्थेनैकः शेषः' (3 / 1 / 118) इत्यनेन प्राप्नुयादिति शब्दसादृश्ये एकशेषार्थं सूत्रं कृतम् / ‘अंहिश्लोकचतुर्थांशरश्मिप्रत्यन्तपर्वते-पादशब्दो वर्त्तते / एवं माने धान्यभेदे मूर्खे त्वग्दोषभिद्यपि' माशब्दः प्रवर्त्तते / पादश्व 3 पादाः / माषश्च 3 माषाः / तथा एका श्येनी श्वेतगुणयुक्ता, द्वितीया श्येनस्य भार्या श्येनी / हरितगुणयुक्ता एका हरिणी, द्वितीया हरिणी मृगी हरिणी च 2 हरिण्यौ / एका रोहिणी रोहितवर्णा स्त्री, अन्या रोहिणी चन्द्रभार्या / रोहिणी च 2 रोहिण्यौ / एकश्चेत्यादिषु 'त्यदादिः' (3 / 1 / 120) इति सूत्रेणापि शेषविधिः / व्यावृत्तेर्व्यक्तौ प्रवृत्तत्वात् / विंशत्यादयस्तु शब्दा न सङ्ख्येयप्रधानाः, विंशतिर्गाव इति सङ्ख्येयसमानाधिकरणा अपि भाक्ताः / सङ्ख्येय सङ्ख्यानरूपमेवासाद्य सङ्ख्याननिष्टा एव भवन्ति न सङ्खयेयरूपनिष्ठाः, अत एव विंशतिर्गवामिति असामानाधिकरण्यवत् सामानाधिकरण्येपि गुणलिङ्गसङ्ख्या एव, न एकादिवत् सङ्खयेयलिङ्गसङ्ख्या इति असङ्ख्येयवाचित्वादेकशेषः / / 119 / / त्यदादिः // 3 / 1 / 120 // त्यदादिनाऽन्येन च सहोक्तौ त्यादिरेवैकः शिष्यते / स च चैत्रश्च तौ / अयं च चैत्रश्चं इमौ / स्पर्द्ध