________________ 258 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलकृते आयवसाने, सूर्याचन्द्रमसौ, मित्रावरुणौ, अग्नीषोमौ, सोमारुद्रौ, नारदपर्वती, नरनारायणी, रामलक्ष्मणौ, भीमार्जुनौ, कम्बलाश्वतरौ, मातापितरौ, पितापुत्री, श्रद्धामेधे, शुक्लकृष्णे, वाङ्मनसी, दीक्षातपसी, श्रुततपसी, अध्ययनतपसी, उलूखलमुशले // 145 // ____ अ० दधिपयसी, मधुसर्पिषी, सर्पिर्मधुनी, 'अत्र (पशु) व्यञ्जनेति विकल्पे ‘ई:षोमवरुणेऽग्नेः' (3 / 2 / 42) इति ईत्वं षत्वं / शिववैश्रवणादिष्वन्यत्र 'चार्थे द्वन्द्वः सहोक्तौ' (3 / 1 / 117) इति समाहारद्वन्द्वे एकत्वप्राप्तिः 'आ' द्वन्द्वे' (3 / 2 / 39) इत्याकारः / 'पुत्रे वा' (3 / 2 / 31) विरोधिनामिति प्राप्तिः / 'अप्राणिपश्वादेः' (3 / 1 / 136) इति प्राप्तिः प्रतिषेधोऽयम् // 145 // सङ्ख्याने // 3 // 1 // 146 // ___ इयत्तापरिच्छेदः सङ्ख्यानम्, 'वर्तिपदार्थानां सङ्ग्याने-गणने गम्यमाने द्वन्द्व एकार्थो न स्यात् / दश गोमहिषाः, बहवः प्लक्षन्यग्रोधाः, दश हस्त्यश्वाः, कति मार्दङ्गिकपाणविकाः, द्वौ गङ्गाशोणी, इयन्तो गवाश्वाः // 146 // वान्तिके // 3 // 11147 // वर्तिपदार्थानां सङ्ग्यानस्यान्तिके-समीपे गम्यमाने द्वन्द्व एकार्थो वा स्यात् / उपगता दश यस्य येषां वा उपदशं गोमहिषम्, गोमहिषाः // 147 // ___ अ० द्वन्द्वार्थस्यैकत्वात् तदनुप्रयोगस्य उपदशेतिरूपस्य बहुव्रीहिरेकवचनान्तत्वम् / यथा उपदशं गोमहिषम् / द्वन्द्वैकत्वशब्दस्य वचनं अनुप्रयोगस्यापि भवति / उपदशाय गोमहिषाय उपदशेभ्यो गोमहिषेभ्यः / यदा तु दशाना समीपं उपदशं इत्यव्ययीभावस्तदा उपदशं गोमहिषाय इत्येव भवतीत्यर्थः / / 147 / / / . प्रथमोक्तं प्राक् // 3 / 1 / 148 // अत्र समासप्रकरणे प्रथमान्तेन पदेन यदुक्तं-निर्दिष्टं तत्प्राक्-पूर्व निपतति / आसन्नदशाः, सप्तगङ्गम्, ऊरीकृत्य, कष्टश्रितः, पञ्चाम्राः // 148 // राजदन्तादिषु // 3 / 1 / 149 // राजदन्त इत्यादिषु समासेष्वप्राप्तपूर्वनिपातं प्राग् निपतति / दन्तानां राजा राजदन्तः, "लिप्तवासितम्, ऋणेऽधमोऽधमर्णः, ऋणे उत्तमः उत्तमर्णः, उलूखलमुशले, दारजारौ दारशब्द एकवचनान्तोऽप्यस्ति, अत्रानियमे दारार्थम्, दारार्थो / विष्वक्सेनार्जुनौ, विषयेन्द्रियाणि, गजाश्वौ एवं भार्यामती, स्वसृपती, जायापती, जम्पती, दम्पती, गणपाठाज्जायाशब्दस्य जंभावो दंभावश्च वा निपात्येते / कुबेरकेशवौ, नरनारायणौ, अWत्वानारायणस्य पूर्वनिपाते प्राप्ते राजदन्तादिबलात् नरस्य पूर्वनिपातः / एवं काकमयूरो, उमामहेश्वरौ, एवं सोमारुद्रौ, विष्णुवासवौ // 149 // 1. अत्र पशुव्यञ्जनेतीति, पशुव्यञ्जनानामितिसूत्रेण दधिपयसी सर्पिर्मधुनीत्यत्र विकल्पेन प्राप्तस्यैकार्थत्वस्य निषेध इति भावः / 2. सूर्या चन्द्रमसावित्यादौ वेदसहेत्यादिसूत्रेणाऽऽत्वम्, मातापितरावित्यत्रेत्यादिः / पितापुत्रावित्यत्र 'पुत्रे' वेत्यात्याकारः, श्रद्धामधे इत्यादी विरोधिनामद्रव्याणामित्यनेन वैकार्थः प्राप्तः, उलूखलमुसले इत्यत्राप्राणिपश्वादेरिति एकार्थताप्राप्तिः, सर्वेषामयं प्रतिषेध इति भावः / 3. समासस्याश्रयो वर्तिपदार्थस्तस्येयत्तायाः संख्यायाः परिच्छेदे गम्यमान इत्यर्थः / 4. पूर्व वासितं पश्चालिप्तमित्यत्र 'पूर्वकाले ति समासे प्रथमोक्तत्वेन वासितशब्दस्य पूर्वनिपाते प्राप्ते लिप्तस्य पूर्वनिपातः /