Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay
View full book text ________________ 237 श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः अ० आपूर्व चर् आचर्यते इत्याश्चर्यम् / 'चरेराङस्त्वगुरौ' (5 / 1 / 31) इति सूत्रेण यप्रत्ययः 'वर्चस्कादिष्ववस्करादयः' (3 / 2 / 48) इति सूत्रेण श् इति विचाले क्रियते / आश्चर्य इति सिद्धम् / आश्चर्यो गवां दोहो इत्यादिषु 'द्विहेतो-रस्त्र्यणकस्य वा' (2 / 2 / 87) अनेन कर्तरि षष्ठी विकल्पेन भवति / एकत्र षष्ठी आचार्यस्य गोपालस्य, अन्यत्र तृतीया आचार्येण गोपालेन / अयं परमार्थः-आचार्येण गोपालेन इति तृतीयायां सत्यां साध्विदं शब्दानामनुशासनमाचार्येण, षष्ठ्यां तु सत्यां साध्विदं शब्दानुशासनमाचार्यस्य / षष्ठ्या सह समासो न तृतीयायां सत्यां समासः / एवमाश्चर्यो गवां दोहोऽगोपालेन, षष्ठ्यां तु आश्चर्यो गोदोहो गोपालस्य / कर्त्तरीत्येव-साध्विदं शब्दानुशासनमाचार्यस्य नः पुण्येन / कर्मजेत्येव-मैत्रस्य सम्बन्धी कृत इति वाक्ये मैत्रकृतश्चैत्रेण, ओदनोऽन्यो वाऽर्थः प्रकरणादिना निति इत्यर्थः, इति व्यावृत्तिद्वयं 'तृतीयायां' सूत्रे ज्ञातव्यम् / कथं गोदोहो गोपालेन / सम्बन्धषष्ठ्या भविष्यति / 'अत्र शब्दानामनुशासनं शब्दानुशासनमिति षष्ठीसमासः // 84 / / तृप्तार्थपूरणाव्ययाऽतृश्शत्रानशा // 3 // 1285 // तृप्ताथैः पूरणप्रत्ययान्तैरव्ययैरतृशन्तैः शत्रन्तैरानशन्तैश्च नामभिः सह षष्ठ्यन्तं नाम न समस्यते / तृप्तार्थ, फलानां तृप्तः / पूरण, तीर्थकराणां षोडशः चक्रधराणां पञ्चमः ['नो मट्' (7 / 1 / 159)] शान्तिः / अव्यय, राज्ञः साक्षात् / ग्रामस्य पुरस्तात् / चैत्रस्य कृत्वा / अतृश्, रामस्य द्विषन् / रावणस्य द्विषन् / शतृ, चैत्रस्य पचन् / आनश्, चैत्रस्य पचमानः // 85 // ___ अ० तृप्त सुहित पूर्ण आशित घ्रात(ण) इति तृप्तार्थशब्द 5 / फलानां तृप्तः फलानां सुहितः सक्तूनां पूर्णः ओदनस्याशितः पयसो घ्रातः(णः) इति / षष् दशन् / षडुत्तरा दश षोडश 'एकादशषोडश०' (3 / 2 / 91) इति सूत्रेण षषोऽन्तस्य उत्वम् दकारस्य च डकारः, षोडशानां पूरणः 'सङ्ख्यापूरणे डट्' (7 / 1 / 155) / द्वेष्टीति द्विषन् 'सुद्विषार्हः सत्रिशत्रुस्तुत्ये' (5 / 2 / 26) इति अतृश्प्रत्ययः ‘शत्रानशा०' (5 / 2 / 20) इत्यनेन आनश् / एषु सर्वत्र सम्बन्धे षष्ठी // 85 // ... ज्ञानेच्छाऽर्चार्थाऽऽधारक्तेन // 3 // 1 // 86 // ज्ञानार्थात् इच्छार्थात् अर्चार्थाच यो वर्तमाने [वर्तमानकाले] क्तः, यश्च ‘अद्यर्थाच्चाधारे' (5 / 1 / 12) इत्याधारे क्तः, तदन्तेन नाम्ना सह षष्ठ्यन्तं नाम न समस्यते / राज्ञां ज्ञातः, राज्ञामिष्टः राज्ञामर्चितः, इदमेषां यातम्, इदमेषां भुक्तम् / कथं राजपूजितः राजमहित राजसंमतः ? बहुलाधिकारायथाभिधानं भूतकालेऽपि क्तः, क्तान्तेन सह तृतीयासमासश्च सिद्धः // 8 // ___अ० ज्ञानार्थ-इच्छार्थ-अर्चार्थानां यथाक्रममुदाहरणानि / राजा जानाति राज्ञा ज्ञायते इति वाक्ये वर्तमानकाले 'ज्ञानेच्छार्चार्थजीच्छील्यादिभ्यः क्तः' (5 / 2 / 92) इत्यनेन क्तः, एवं राज्ञां बुद्धः / / इच्छार्थः-राजा इच्छति राज्ञा इष्यते राज्ञामिष्टः राज्ञां मतः / अर्चार्थ, राज्ञामर्चितः राज्ञां पूजितः / / आधारे क्तः-इदं एतेषां यातम् / इदं तेषामासितं / इदं तेषां भुक्तम् पीतम् / याय्यते आस्यते भुज्यते पीयते स्म इह इति वाक्यं घटते ‘अद्यर्थाच्चाधारे' (5 / 1 / 12) इति क्तः / / ननु राजपूजित इत्यादौ कथं समासः ? सूरिराह / बहुलाधिकारादित्यादि / अत्रायं भावार्थः-'ज्ञानेच्छार्चार्थ.' इत्यनेन कर्तरि कर्मणि वा भावे वा यथासंभवं क्तो विहितः परं वर्तमानकाले एव क्तो न भूते, अत्र तु बहुलाधिकारात् भूतेऽपि क्तः / राजभिः पूज्यते स्म इति वाक्यम् / यथा त्रिभुवनराजपूजितेभ्य इत्यत्र / / 6 / /
Loading... Page Navigation 1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310