Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay
View full book text ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते सर्वपश्चादादयः // 3 // 18 // सर्वपश्चादित्याद्याः षष्ठीतत्पुरुषे साधवः स्युः / सर्वेषां पश्चात् सर्वपश्चात् पदं वर्त्तते / सर्वचिरंजीवति / बहुवचनं शिष्टप्रयोगानुसरणार्थम् // 8 // अ० 'तृप्तार्थपूरणाव्यया०' (3 / 1 / 85) इत्यनेनाव्ययशब्देन सह प्रतिषेधं वक्ष्यति / इति तस्यापवादोऽयं योगः // 80 // अकेन क्रीडाजीवे // 3 / 1 / 81 // षष्ठ्यन्तं नाम अप्रत्ययान्तेन सह समस्यते क्रीडायां आजीविकायां च गम्यमानायाम् / तत्पुरुषः / उहालकपुष्पभञ्जिका कस्याश्चित् क्रीडायाः संज्ञा / आजीवे-दन्तलेखकः नखलेखकः / दन्तलेखनादिरस्याजीवो गम्यते // 81 // ___ अ० 'कर्मजा तृचा च' (3 / 1 / 83) इति प्रतिषेधे प्राप्ते वचनम् / एवं वारणपुष्पप्रचायिका / एवं रमणीयकारकः / भनक्ति इति भञ्जिका ‘णकतृचौ' (5 / 1 / 48) णकः, उद्दालकपुष्पभञ्जिका / प्रचिनोतीति ‘णकतृचौ' वारणपुष्पाणां वृक्षविशेषाणां पुष्पाणां प्रचायिका / कर्तृविहिते णके 'अकेन क्रीडाजीवे' इत्यनेन षष्ठीसमासः / न तु भावाकोंर्विहिते णके षष्ठीसमासः / एतच्च 'नाम्नि पुंसि च' (5 / 3 / 121) इति सूत्रे तृतीयकृतसूत्रे सुव्यक्तं दर्शितमस्ति / / 81 / / न कर्तरि // 3 / 1 / 82 // कर्तरि विहिता या षष्ठी तदन्तं नाम अप्रत्ययान्तेन सह न समस्यते / भवतः शायिका / भवतः आसिकाः / कर्तरीति किम् ? इक्षुभक्षिकां मे धारयसि // 82 // अ० 'न कतरि' इति सूत्रादारभ्य ‘अस्वस्थगुणैः' (3 / 1 / 87) इति यावत् षष्टीसमासनिषेधसूत्राणि / 'कर्त्तरि' (2 / 2 / 86) इति सूत्रेण षष्ठी भवत्यत्र / भवतोऽग्रगामिका / शयितुम् आसितुम् पर्यायः इति वाक्ये “पर्यायाहणोत्पत्तौ०" (5 / 3 / 120) इत्यनेन णकः / भवत इत्यत्र 'कर्त्तरि' इति सूत्रेण षष्ठी / भक्ष्यन्ते यस्यां सा भक्षिका 'नाम्नि पुंसि च' (6 / 3 / 121) इति णकः / इशूणां भक्षिका ‘कृति' (3 / 1 / 77) इति सूत्रेण षष्ठीसमासः / / 82 / / कर्मजा तृचा च // 3 / 1183 // कर्मविहिता षष्ठी कर्मजा तदन्तं नाम कर्तृविहिताऽकप्रत्ययान्तेन सह तृजन्तेन च सह न समस्यते / ओदनस्य भोजकः / अपां स्रष्टा [तृच्] / पुरां भेत्ता / कर्मजेति किम् ? सम्बन्धषष्ठ्याः प्रतिषेधो मा भूत् / गुणो गुणिविशेषकः, गुणिनः सम्बन्धिविशेषक इत्यर्थः / कथं भूभर्ता वज्रभर्ता ? 'भर्तृशब्दोऽत्र पतिपर्याय इति सम्बन्धषष्ठ्या समासः // 83 // ___अ० कर्त्तरीत्यनुवर्त्तते, तच्च अकस्य विशेषणं इत्युक्तं कर्तृविहिताऽकप्रत्ययान्तेन / भुनक्तीति भोजकः ‘णकतृचौ' (5 / 1 / 48) / अथवा 'भूभ" इत्यत्र याजकादिगणे भर्तृशब्दः पठितोऽस्ति तेन ‘याजकादिभिः' (3 / 1 / 78) इति सूत्रेण षष्ठीसमासो भवति / यदा तु बिभर्ति इति भर्ता इति भरणक्रियामात्रं विवक्ष्यते तदा ‘कर्मजा तृचा च' इत्यनेन षष्ठीसमासप्रतिषेधो भवति / यथा भुवो भर्ता / वज्रस्य भर्ता / / 83 // तृतीयायाम् // 3 // 184 // कर्तरि तृतीयायां सत्यां कर्मजा षष्ठी न समस्यते / आश्चर्यो गवां दोहोऽगोपालेन / साध्विदं शब्दानामनुशासनमाचार्येण / तृतीयायामिति किम् ? साध्विदं 'शब्दानुशासनमाचार्यस्य // 8 //
Loading... Page Navigation 1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310