________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते सर्वपश्चादादयः // 3 // 18 // सर्वपश्चादित्याद्याः षष्ठीतत्पुरुषे साधवः स्युः / सर्वेषां पश्चात् सर्वपश्चात् पदं वर्त्तते / सर्वचिरंजीवति / बहुवचनं शिष्टप्रयोगानुसरणार्थम् // 8 // अ० 'तृप्तार्थपूरणाव्यया०' (3 / 1 / 85) इत्यनेनाव्ययशब्देन सह प्रतिषेधं वक्ष्यति / इति तस्यापवादोऽयं योगः // 80 // अकेन क्रीडाजीवे // 3 / 1 / 81 // षष्ठ्यन्तं नाम अप्रत्ययान्तेन सह समस्यते क्रीडायां आजीविकायां च गम्यमानायाम् / तत्पुरुषः / उहालकपुष्पभञ्जिका कस्याश्चित् क्रीडायाः संज्ञा / आजीवे-दन्तलेखकः नखलेखकः / दन्तलेखनादिरस्याजीवो गम्यते // 81 // ___ अ० 'कर्मजा तृचा च' (3 / 1 / 83) इति प्रतिषेधे प्राप्ते वचनम् / एवं वारणपुष्पप्रचायिका / एवं रमणीयकारकः / भनक्ति इति भञ्जिका ‘णकतृचौ' (5 / 1 / 48) णकः, उद्दालकपुष्पभञ्जिका / प्रचिनोतीति ‘णकतृचौ' वारणपुष्पाणां वृक्षविशेषाणां पुष्पाणां प्रचायिका / कर्तृविहिते णके 'अकेन क्रीडाजीवे' इत्यनेन षष्ठीसमासः / न तु भावाकोंर्विहिते णके षष्ठीसमासः / एतच्च 'नाम्नि पुंसि च' (5 / 3 / 121) इति सूत्रे तृतीयकृतसूत्रे सुव्यक्तं दर्शितमस्ति / / 81 / / न कर्तरि // 3 / 1 / 82 // कर्तरि विहिता या षष्ठी तदन्तं नाम अप्रत्ययान्तेन सह न समस्यते / भवतः शायिका / भवतः आसिकाः / कर्तरीति किम् ? इक्षुभक्षिकां मे धारयसि // 82 // अ० 'न कतरि' इति सूत्रादारभ्य ‘अस्वस्थगुणैः' (3 / 1 / 87) इति यावत् षष्टीसमासनिषेधसूत्राणि / 'कर्त्तरि' (2 / 2 / 86) इति सूत्रेण षष्ठी भवत्यत्र / भवतोऽग्रगामिका / शयितुम् आसितुम् पर्यायः इति वाक्ये “पर्यायाहणोत्पत्तौ०" (5 / 3 / 120) इत्यनेन णकः / भवत इत्यत्र 'कर्त्तरि' इति सूत्रेण षष्ठी / भक्ष्यन्ते यस्यां सा भक्षिका 'नाम्नि पुंसि च' (6 / 3 / 121) इति णकः / इशूणां भक्षिका ‘कृति' (3 / 1 / 77) इति सूत्रेण षष्ठीसमासः / / 82 / / कर्मजा तृचा च // 3 / 1183 // कर्मविहिता षष्ठी कर्मजा तदन्तं नाम कर्तृविहिताऽकप्रत्ययान्तेन सह तृजन्तेन च सह न समस्यते / ओदनस्य भोजकः / अपां स्रष्टा [तृच्] / पुरां भेत्ता / कर्मजेति किम् ? सम्बन्धषष्ठ्याः प्रतिषेधो मा भूत् / गुणो गुणिविशेषकः, गुणिनः सम्बन्धिविशेषक इत्यर्थः / कथं भूभर्ता वज्रभर्ता ? 'भर्तृशब्दोऽत्र पतिपर्याय इति सम्बन्धषष्ठ्या समासः // 83 // ___अ० कर्त्तरीत्यनुवर्त्तते, तच्च अकस्य विशेषणं इत्युक्तं कर्तृविहिताऽकप्रत्ययान्तेन / भुनक्तीति भोजकः ‘णकतृचौ' (5 / 1 / 48) / अथवा 'भूभ" इत्यत्र याजकादिगणे भर्तृशब्दः पठितोऽस्ति तेन ‘याजकादिभिः' (3 / 1 / 78) इति सूत्रेण षष्ठीसमासो भवति / यदा तु बिभर्ति इति भर्ता इति भरणक्रियामात्रं विवक्ष्यते तदा ‘कर्मजा तृचा च' इत्यनेन षष्ठीसमासप्रतिषेधो भवति / यथा भुवो भर्ता / वज्रस्य भर्ता / / 83 // तृतीयायाम् // 3 // 184 // कर्तरि तृतीयायां सत्यां कर्मजा षष्ठी न समस्यते / आश्चर्यो गवां दोहोऽगोपालेन / साध्विदं शब्दानामनुशासनमाचार्येण / तृतीयायामिति किम् ? साध्विदं 'शब्दानुशासनमाचार्यस्य // 8 //