________________ 237 श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः अ० आपूर्व चर् आचर्यते इत्याश्चर्यम् / 'चरेराङस्त्वगुरौ' (5 / 1 / 31) इति सूत्रेण यप्रत्ययः 'वर्चस्कादिष्ववस्करादयः' (3 / 2 / 48) इति सूत्रेण श् इति विचाले क्रियते / आश्चर्य इति सिद्धम् / आश्चर्यो गवां दोहो इत्यादिषु 'द्विहेतो-रस्त्र्यणकस्य वा' (2 / 2 / 87) अनेन कर्तरि षष्ठी विकल्पेन भवति / एकत्र षष्ठी आचार्यस्य गोपालस्य, अन्यत्र तृतीया आचार्येण गोपालेन / अयं परमार्थः-आचार्येण गोपालेन इति तृतीयायां सत्यां साध्विदं शब्दानामनुशासनमाचार्येण, षष्ठ्यां तु सत्यां साध्विदं शब्दानुशासनमाचार्यस्य / षष्ठ्या सह समासो न तृतीयायां सत्यां समासः / एवमाश्चर्यो गवां दोहोऽगोपालेन, षष्ठ्यां तु आश्चर्यो गोदोहो गोपालस्य / कर्त्तरीत्येव-साध्विदं शब्दानुशासनमाचार्यस्य नः पुण्येन / कर्मजेत्येव-मैत्रस्य सम्बन्धी कृत इति वाक्ये मैत्रकृतश्चैत्रेण, ओदनोऽन्यो वाऽर्थः प्रकरणादिना निति इत्यर्थः, इति व्यावृत्तिद्वयं 'तृतीयायां' सूत्रे ज्ञातव्यम् / कथं गोदोहो गोपालेन / सम्बन्धषष्ठ्या भविष्यति / 'अत्र शब्दानामनुशासनं शब्दानुशासनमिति षष्ठीसमासः // 84 / / तृप्तार्थपूरणाव्ययाऽतृश्शत्रानशा // 3 // 1285 // तृप्ताथैः पूरणप्रत्ययान्तैरव्ययैरतृशन्तैः शत्रन्तैरानशन्तैश्च नामभिः सह षष्ठ्यन्तं नाम न समस्यते / तृप्तार्थ, फलानां तृप्तः / पूरण, तीर्थकराणां षोडशः चक्रधराणां पञ्चमः ['नो मट्' (7 / 1 / 159)] शान्तिः / अव्यय, राज्ञः साक्षात् / ग्रामस्य पुरस्तात् / चैत्रस्य कृत्वा / अतृश्, रामस्य द्विषन् / रावणस्य द्विषन् / शतृ, चैत्रस्य पचन् / आनश्, चैत्रस्य पचमानः // 85 // ___ अ० तृप्त सुहित पूर्ण आशित घ्रात(ण) इति तृप्तार्थशब्द 5 / फलानां तृप्तः फलानां सुहितः सक्तूनां पूर्णः ओदनस्याशितः पयसो घ्रातः(णः) इति / षष् दशन् / षडुत्तरा दश षोडश 'एकादशषोडश०' (3 / 2 / 91) इति सूत्रेण षषोऽन्तस्य उत्वम् दकारस्य च डकारः, षोडशानां पूरणः 'सङ्ख्यापूरणे डट्' (7 / 1 / 155) / द्वेष्टीति द्विषन् 'सुद्विषार्हः सत्रिशत्रुस्तुत्ये' (5 / 2 / 26) इति अतृश्प्रत्ययः ‘शत्रानशा०' (5 / 2 / 20) इत्यनेन आनश् / एषु सर्वत्र सम्बन्धे षष्ठी // 85 // ... ज्ञानेच्छाऽर्चार्थाऽऽधारक्तेन // 3 // 1 // 86 // ज्ञानार्थात् इच्छार्थात् अर्चार्थाच यो वर्तमाने [वर्तमानकाले] क्तः, यश्च ‘अद्यर्थाच्चाधारे' (5 / 1 / 12) इत्याधारे क्तः, तदन्तेन नाम्ना सह षष्ठ्यन्तं नाम न समस्यते / राज्ञां ज्ञातः, राज्ञामिष्टः राज्ञामर्चितः, इदमेषां यातम्, इदमेषां भुक्तम् / कथं राजपूजितः राजमहित राजसंमतः ? बहुलाधिकारायथाभिधानं भूतकालेऽपि क्तः, क्तान्तेन सह तृतीयासमासश्च सिद्धः // 8 // ___अ० ज्ञानार्थ-इच्छार्थ-अर्चार्थानां यथाक्रममुदाहरणानि / राजा जानाति राज्ञा ज्ञायते इति वाक्ये वर्तमानकाले 'ज्ञानेच्छार्चार्थजीच्छील्यादिभ्यः क्तः' (5 / 2 / 92) इत्यनेन क्तः, एवं राज्ञां बुद्धः / / इच्छार्थः-राजा इच्छति राज्ञा इष्यते राज्ञामिष्टः राज्ञां मतः / अर्चार्थ, राज्ञामर्चितः राज्ञां पूजितः / / आधारे क्तः-इदं एतेषां यातम् / इदं तेषामासितं / इदं तेषां भुक्तम् पीतम् / याय्यते आस्यते भुज्यते पीयते स्म इह इति वाक्यं घटते ‘अद्यर्थाच्चाधारे' (5 / 1 / 12) इति क्तः / / ननु राजपूजित इत्यादौ कथं समासः ? सूरिराह / बहुलाधिकारादित्यादि / अत्रायं भावार्थः-'ज्ञानेच्छार्चार्थ.' इत्यनेन कर्तरि कर्मणि वा भावे वा यथासंभवं क्तो विहितः परं वर्तमानकाले एव क्तो न भूते, अत्र तु बहुलाधिकारात् भूतेऽपि क्तः / राजभिः पूज्यते स्म इति वाक्यम् / यथा त्रिभुवनराजपूजितेभ्य इत्यत्र / / 6 / /