________________ 238 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते अस्वस्थगुणैः // 3 // 1187 / / ये गुणाः स्वात्मन्येवावतिष्ठन्ते न द्रव्ये ते स्वस्थाः, तत्प्रतिषेधेनास्वस्थगुणवाचिभिर्नामभिः षष्ठ्यन्तं नाम न समस्यते / पटस्य शुक्लः / काकस्य कृष्णः / गुडस्य मधुरः / चन्दनस्य सुरभिः / गुणशब्देन च इहलोकप्रसिद्धा रूपरसगन्धस्पर्शा गुणा अभिप्रेताः, ततस्तद्विशेषैरेवायं प्रतिषेधः / तेन प्रक्रियालाघवं बुद्धिकौशलम् इत्यादिषु समासप्रतिषेधो न भवति / अस्वस्थगुणैरिति किम् ? घटवर्ण कन्यारूपम् / बहुलाधिकारात् कण्टकस्य तैक्ष्ण्यमित्यादिषु न समासः, कुसुमसौरभ्यं मुखसौरमभित्यादिषु समासो भवति // 87 // __ अ० ननु द्रव्याश्रयी गुण इति गुणलक्षणम् ततः कथमिदं / सत्यम् / अभिधाव्यापारापेक्षया गुणानां स्वस्थत्वम् / पटस्य शुक्ल इत्यादौ अर्थात् प्रकरणाद्वाऽपेक्ष्यस्य॑ वर्णादेर्निर्ज्ञाने ये इमे शुक्लादयो गुणास्ते पटादेः पटादिसम्बन्धिनः इति सामोपपत्तेः षष्ठीसमासः प्राप्नोति / पटस्य शुक्ल इति / तथा पटस्य शौक्लयम्, काकस्य कार्णम्, गुडस्य माधुर्यमेतेष्वपि उदाहरणेषु शुक्लादेर्गुणस्य शुक्लः पट इत्यादौ द्रव्येऽपि वृत्तिदर्शनात् अस्वास्थ्यमस्त्येव इति षष्ठीसमासः प्रतिषिध्यते / तद्विशेषैरेवेति कोऽर्थः ? शुक्लकृष्णाद्यैः मधुरतिक्ताद्यैः सुरभ्यसुरभिभिः शीतोष्णांद्यैर्गुणैरेव प्रतिषेधः, नान्यैः कौशल्यादिगुणैः षष्ठीसमासप्रतिषेधः / प्रक्रियाया लाघवं इति वाक्यम् / प्रक्रियालाघवम् / बुद्धेः कौशलं बुद्धिकौशलम् / आदिशब्दात् यत्नगौरवम् मतिवैगुण्यम् करणपाटवम् अङ्गसौष्ठवम् पुरुषसामर्थ्यम् हस्तचापलम् वचनमार्दवम् / वचनप्रामाण्यम् उत्तरपदार्थप्राधान्यम् क्रियासातत्यम् वर्तमानसामीप्यम् सत्सामीप्यम् (अधिकरणैतावत्यम्) प्रयोगान्यत्वम् पटहशब्दः नदीघोषः शब्दाधिक्यम् वाङ्माधुर्यम् गोविंशतिः गोत्रिंशत् गोशतम् गोसहस्रम् समाहारैकत्वमित्यादयः / नु कण्टकस्य तैक्ष्ण्यमत्र तैक्ष्ण्यं स्पर्शनेन चक्षुषापि च गृह्यते ततो द्वीन्द्रियग्राह्यत्वात् गुणत्वं नास्ति इति समासनिषेधो न प्राप्नोति / किन्तु समासः कण्टकतैक्ष्ण्यमिति (च) प्रयोगः / सत्यम् / इतिहेतोबहुलाधिकारात् सूरिणोक्तम् / / 87 / / सप्तमी शौण्डायैः // 3 / 1 / 88 // सप्तम्यन्तं नाम शौण्डादिनामभिः सह समस्यते। तत्पुरुषसमासो भवति / पानशौण्डः। अक्षशौण्डः // 8 // अ० शौण्डो मद्यपः / पाने प्रसक्तः शौण्डः पानशौण्डः एवं अक्षेष प्रसक्तः शौण्ड इव अक्षशौण्डः / शौण्डशब्दोऽत्र गौणो व्यसनिनि वर्त्तते / वृत्तौ प्रसक्तिक्रियाया अन्तर्भावादप्रयोगः / शौण्ड धूत कितव व्याल सव्य आयस व्यान सवीण अंतर अधीन पटु पण्डित कुशल चपल निपुण सिद्ध शुष्क पक्क बन्ध इति शौण्डादिगणः / बहुवचनमाकृतिगणार्थम् तेन शिरःशेखरः हस्तकण्टकः आपातरमणीयः अवसानविरसः, पृथिवीविहितः पृथिवीप्रणतः अन्तेगुरुः मध्येगुरुः गलेचोपकः त्वचिसारः, ऋणेऽधमः अधमर्णः, ऋणे उत्तमः उत्तमर्णः इत्यादयः सिद्धाः / / 88 // सिंहाथैः पूजायाम् // 3 // 189 // सप्तम्यन्तं नाम सिंहायैः सह समस्यते पूजायां गम्यमानायाम् तत्पुरुषः / समरे सिंह इव समरसिंहः, एवं रणव्याघ्रः भूमिवासवः कलियुधिष्ठिरः / उपमयाऽत्र पूजा गम्यते / बहुवचनमाकृतिगणार्थम् // 89 // काकाद्यैः क्षेपेः // 3 // 19 // ___ सप्तम्यन्तं नाम काकादिनामभिः सह समस्यते क्षेपे निन्दायाम् तत्पुरुषः / तीर्थे काक इव [वाक्यं] तीर्थकाकः / अनवस्थित एवमुच्यते उपमया चात्र क्षेपो गम्यते / क्षेप इति किम् ? तीर्थे काकस्तिष्ठति /