________________ 239 श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः बहुवचनमाकृतिगणार्थम् // 90 // अ० तीर्थकाकः तीर्थध्वाङ्क्षः तीर्थवायसः तीर्थबकः तीर्थश्वा तीर्थसारमेयः तीर्थकुक्कुटः तीर्थशृगालः / यथा काकादिस्तीर्थफलमजानन् तीर्थे चिरस्थायी न भवति एवं यः पुमान् कार्याणि आरभ्य कार्यनिर्वाहं न करोति स तीर्थाधारेण काकादिना उपमीयमानः क्षिप्यते निन्द्यते इति क्षेपस्य गम्यमानता इत्याह अनवस्थितेत्यादि / / 90 / / पात्रेसमितेत्यादयः // 3 // 19 // पात्रेसमितादिशब्दाः सप्तमीतत्पुरुषे निपात्यन्ते क्षेपे निन्दायाम् / पात्रे एव समिताः पात्रेसमिताः / पात्रेबहुलाः गेहेशूरः गेहेनर्दी इत्यादिष्ववधारणेन क्षेपो गम्यते / कूपमण्डूकः कूपकच्छपः अवटमण्डूकः अवटकच्छपः; अल्पदृश्वैवमुच्यते / नगरकाकः नगरवायसः नगरश्वा एतैः सदृशो धृष्ट उच्यते / गेहेमेही पिण्डीशूरः य आवश्यकार्थमपि बहिर्न निर्गच्छति भोजन एव संरभते स एवमुच्यते / [एवशब्देन निरुत्साहता गम्यते तया क्षेपो निन्दा] / पितरि शूरः मातरि पुरुषः यः सदाचारं भिनत्ति स एवमुच्यते / [अत्र प्रतिषिद्धाचरणेन क्षेपो गम्यते] / इति शब्दः समासान्तरनिवृत्त्यर्थः, तेन परमाः पात्रेसमिताः [वाक्यं], पात्रेसमितानां पुत्रः इत्यादिषु न समासः / आकृतिगणोऽयम् / तेन व्रणकृमिः गृहसर्पः गृहकलविङ्कः इत्यादिषु समासः // 91 // . अ० पात्रे एव बहुलाः पात्रेबहुलाः / गेहे एव शूरः / गेहेनर्दी / आदिशब्दात् गेहेनर्ती गेहेदाही गेहेक्ष्वेडी गेहेविजिती गेहेविचिति गेहेन्यालः गेहेपटुः गेहेपण्डितः गेहेप्रगल्भः एवं गोष्ठेशूरः गोष्ठेनर्दी गोष्ठेक्ष्वेडी गोष्ठेविजिती गोष्ठेव्यालः गोष्ठेपटुः गोष्ठेपण्डितः गोष्ठेप्रगल्भः एषु सर्वत्र वाक्ये एवकारः प्रयुज्यते / एवकारोऽवधारणे, तेन एवकारेण अवधारणार्थेन क्षेपो निन्दा गम्यते / प्रायेण पात्रेसमितादयोऽलुप्समासाः, निपातनात् सर्वत्र सप्तम्या अलुप् / कूपे मण्डूक इव कूपमण्डूकः, कूपे कच्छप इव कूपकच्छपः, गेहमेव विजितमनेन, गेहमेव विचितं गवेषितमनेन 'इष्टादेः' (7 / 1 / 168) इन् ‘व्याप्ये क्तेनः' (2 / 2 / 99) इत्यनेन सप्तमी / एवमन्यसर्वोदाहरणे, कापि एवशब्देन क्वापि उपमया क्षेपो निन्दा गम्यते / / 91 // क्तेन // 3 // 192 // -सप्तम्यन्तं नाम क्तान्तेन सह समस्यते क्षेपे तत्पुरुषः / भस्मनि हुतम्, प्रवाहे मूत्रितम् उदके विशीर्णम्, निष्फलं [कार्य] कृतं एवमुच्यते / अवतप्ते नकुलस्थितम् / कार्येऽनवस्थितत्वमुच्यते / सर्वत्रोपमानेन क्षेपो गम्यते // 12 // - अ० पात्रेसमितादयः भस्मनिहुतमित्यादयश्च नित्यसमासा एते ज्ञातव्याः / कार्यमारभ्य मुञ्चति अस्थिरत्वमित्यर्थः // 92 // तत्राहोरात्रांशम् // 3 // 1193 // पृथग्योगात्क्षेप इंति निवृत्तम् / तत्रेति सप्तम्यन्तं नाम अहरवयवा [दिनावयवाः] रात्र्यवयवाश्च सप्तम्यन्ताः तान्तेन समस्यन्ते / तत्पुरुषः / तत्रकृतम् / [तत्र भुङ्क्ते] तत्रभुक्तम् / [पूर्वाह्ने कृतम्] पूर्वाह्नकृतम् / [अपराह्ने कृतम्] अपराहकृतम् / पूर्वरात्रकृतम् / अपररात्रकृतम् / तत्राहोरात्रांशमिति किम् ? घटे कृतम् / कथं अन्यजन्मकृत्तं कर्मेति ? 'कारकं कृता' (3 / 1 / 68) इति तृतीयासमासः / अहोरात्रग्रहणं किम् ? शुक्लपक्षे कृतम् / पक्षो मासांशः। अंशग्रहणं किम् ? अहनि भुक्तम् / कथं रात्रिवृत्तम् सन्ध्यागर्जितमिति ? बहुलाधिकारात् // 93 //