________________ 240 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते ____ अ० अहश्च रात्रिश्चाहोरात्रम् / 'ऋक्साम→जुष०' (7 / 3 / 97) इत्यादिनाऽत् / अहोरात्रेः अंशाः अहोरात्रंशाः / ततश्च अहश्च रात्रांशाश्च इति द्वन्द्वः / पूर्वाह्नकृतमित्यादि पूर्व अहन् अपर अहन् पूर्वमहः पूर्वाह्नश्च परमह्नः अहः पूर्वम् पूर्वं च तत् अहश्चेति वा अहो अपरं अपरं च तत् अहश्चेति वा सर्वत्र ‘सङ्ख्याव्ययात्' (7 / 3 / 124) इति सूत्रेण अट्समासान्तः अहन्शब्दस्य अह्न इत्यादेशश्च ‘अतोऽह्रस्य' (2 / 3 / 73) इति सूत्रेण अह्र इत्यस्य नकारस्य णकारः पूर्वाह्न इति सिद्धम् अपराह्न इति च / पूर्वरात्रि अपररात्रि / पूर्व रात्रेः पूर्वरात्रम्, अपरं रात्रेः 'सङ्ख्यातैकपुण्यवर्षादीर्घाच्च रात्रेरत्' (7 / 3 / 119) इति सूत्रेण अत्समासान्तः, 'अवर्णेवर्णस्य' (7 / 4 / 68), पूर्वरात्र अपररात्रं इति सिद्धम् / पूर्वरात्रेकृतम् अपररात्रेकृतम्, अन्यजन्मना कृतम् अथवा अन्यजन्मना क्रियतेस्म इति वाक्यम् // 93 // नाम्नि // 3 // 194 // सप्तम्यन्तं नाम नाम्ना सह नाम्नि संज्ञाविषये समस्यते / तत्पुरुषः / अरण्येतिलकाः / अरण्येमाषकाः। बनेकसेरुकाः / पेपिशाचिकाः // 94 // अ० तिलः प्रकार एषां तिलकाः / माषः प्रकार एषां माषकाः / 'कोऽण्वादेः' (7 / 2 / 76) इति सूत्रेण कप्रत्ययः / अरण्येतिलका इत्यादिषु सप्तम्या अलुप् / नित्यसमासा एते / कसेरुको वृक्षविशेषः / पिशाचिका भट्टारिका / / 94 // - कृयेनावश्यके // 3 // 1195 // सप्तम्यन्तं नाम कृत् य प्रत्ययान्तेन सह समस्यते आवश्यके [कोऽर्थः] अवश्यं भावे गम्यमाने तत्पुरुषः। मासेऽवश्यं देयम् [वाक्यम् ] मासदेयम् / एवं पूर्वाह्नगेयम् प्रातरध्येयम् / कृदिति किम् ? मासे पित्र्यम् / य इति किम् ? मासे पाच्यम् / मासे दातव्या [भिक्षा] // 9 // ___ अ० ‘य एच्चात' (5 / 1 / 28) इति सूत्रविहितकृद्ये प्रत्यये / पच्यते पाच्यम् / 'ऋवर्णव्यञ्जनाद् घ्यण्' (5 / 1 / 17) / कृत्यप्रत्ययपञ्चकं य तव्य अनीय घ्यण् क्यप् / 'य एच्चातः' इति विहितयप्रत्ययेन सह 'कृद्येनावश्यके' इत्यनेन सप्तमीतत्पुरुषः उक्तः / तत्कथं संवत्सरकर्त्तव्यम् इत्यत्र समासः ? सत्यम् / बहुलाधिकारात् / / 95 / / विशेषणं विशेष्येणैकार्थं कर्मधारयश्च // 3 // 196 // भिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकस्मिन्नर्थे वृत्तिरैकाय समानाधिकरण्यमिति यावत् / तद्वदेकार्थम् / विशेषणवाचि नाम एकार्थं विशेष्यवाचिना नाम्ना सह समस्यते / स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्व भवति / नीलोत्पलम् / पुङ्गवः / गुणादिशब्दानां तूभयोरपि पदयोप्रधानत्वात्कामचारेण [यथेच्छया] पूर्वापरनिपातः कर्मधारयसमासश्च भवति / खञ्जकुण्टः कुण्टखञ्जः / शुक्लकृष्णः कृष्णशुक्ल इत्यादि / एकार्थमिति किम् ? वृद्धस्योक्षा वृद्धोक्षा / अत्र कर्मधारये तु समासान्तः स्यात् / बहुलाधिकारात् कचिन समासः / रामो जामदग्न्यः। दीर्घश्चारायणः / व्यासो पाराशर्यः / कचिनित्यसमासः कृष्णसर्पः इत्यादि। चकारस्तत्पुरुषकर्मधारयसंज्ञासमावेशार्थः / कर्मधारयप्रदेशाः 'कडारादयः कर्मधारये' (3 / 1 / 158) इत्यादयः // 96 // अ० विशिष्यतेऽनेन अनेकप्रकारं वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्यतेऽनेन इति विशेषणं व्यवच्छेदकम् / विशेष्यं व्यवच्छेद्यम् / एकः साधारणोऽर्थो द्रव्यलक्षणस्तदतदात्मको यस्य तत् एकार्थम् / तद् एकार्थं सामानाधिकरण्यं यस्यास्ति / मत्वर्थे मतुः / ततो मस्य वः / सूत्रे एकार्थं यदुक्तम् तद्व्याख्यानं तद्वदेकार्थमिति ज्ञेयम् / नीलं च तत्