________________ 235 श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः अन्यत्र 'शेषे' (2 / 2 / 81) षष्ठी इति व्याप्यं कर्मैव शेषरूपेण विवक्ष्यते इति व्याप्यं कर्म / पक्षे षष्ठीविधानलक्षणं यत्न इति भाषा उच्यते / न करणादिकारकं षष्ठीविधानलक्षणम् / इति 'षष्ठ्ययत्नाच्छेषे' सूत्रेण व्याप्यकर्मषष्ठी वर्जयित्वा शेषषष्ठीसमासो भवति इति अयत्नजशेष उच्यते / अयत्नात् सूत्रे इत्युक्तम् / अयत्नादिति किम् ? सर्पिषो नाथितमित्यादौ वाक्यमेव सर्पि थितम् मातृस्मृतमित्थं न समासः / तर्हि सर्पिर्ज्ञानम् मातृस्मरणमत्र कथं समासः ? कृत्प्रत्यययोगे 'कृति' (3 / 1 / 77) इति सूत्रेण उत्तरेणात्र षष्ठीसमासः / मनुष्याणां क्षत्रिय इत्यादौ अपादानपञ्चमीप्राप्तौ ‘सप्तमी चाविभागे निर्धारणे' (2 / 2 / 109) इत्यनेन षष्ठी / शेष इति किम् ? सर्पिषो ज्ञानम् / रुदतः प्राब्राजीत् इति उदाहरणद्वयम् / तदनन्तरं मनुष्याणामित्यादि ‘अज्ञाने ज्ञः षष्ठी' (2 / 2 / 80) 'षष्ठी वानादरे' (2 / 2 / 108) इत्यादिसूत्रैः करणादिष्वेव षष्ठी इति शेषो नास्ति / 'स्वामीश्वरा०' दिसूत्रस्य नित्ये षष्ठीप्राप्तौ पक्षे सप्तमीविधानार्थत्वात् / सङ्घस्य भद्रमित्यत्र सङ्घभद्रं भूयात् इति न षष्ठीसमासः / न हि सङ्घभद्रं भूयादित्युक्ते सङ्घस्य भद्रं भूयादिति प्रतीयते, अपि तु सङ्घभद्रं नाम सङ्घसम्बन्धितया प्रसिद्धं किञ्चिद्भद्रं कस्यचित् भूयात्। (तत्त्वं) भूयादिति सापेक्षत्वात्.प्रतीतेरभावात् इति न सामर्थ्यमिदम्, अनभिधानात् / न पूर्वाचार्यसम्मतं इति भावार्थः // 76 / / कृति // 3 // 1177 // कृति कृत्प्रत्ययविषये या षष्ठी विहिता तदनन्तरं नाम नाम्ना सह समस्यते / तत्पुरुषः। सिद्धसेनकृतिः गणधरोक्तिः तत्त्वानुचिन्तनम् सर्पिर्ज्ञानम् // 77 // ____अ० 'कर्मणि कृतः' (2 / 2 / 83) 'कर्त्तरि' (2 / 2 / 86) इति सूत्रद्वयाभ्यां कृदन्तसम्बन्धिनि कर्मणि कर्त्तरि च षष्ठी विहितास्ति पूर्वम् / पलाशशातनः धर्मानुस्मरणम् चौरोज्जासनम् इत्याद्यपि उदाहरणावली अत्र ज्ञातव्या // 77|| ___ याजकादिभिः // 3 // 1178 // षष्ठ्यन्तं नाम याजकादिनामभिः सह समस्यते / तत्पुरुषः / विप्रयाजकः गुरुपूजकः / 'कर्मजा तृचा च' (3 / 1183) इति प्रतिषेधापवादो योगः / 'तुल्याथैर्विध्यर्थश्च // 78 // ___अ० याजक पूजक परिचारक परिवेषक स्नापक अध्यापक उ(आ ?)'च्छादक उन्मादक उद्वर्त्तक वर्तक होतृ भर्तृ इति याजकादिगणः / आकृतिगणोऽयम् तेन तुल्यार्थादपि शब्दाद, गुरुसदृशः गुरुसमः / तथा दास्याः सदृशः, वृषल्याः समः षष्ठ्या क्षेपे' (3 / 2 / 30) इत्यनेन अलुप्समासः / तथा अन्यत्कारकम्-अन्यस्य कारकं इति वाक्ये 'ईय कारके' (3 / 2 / 121) इति सूत्रेण द् अन्तः / विश्वगोप्ता तीर्थकर्ता तत्प्रयोजको हेतुश्च / जनिकर्तुः प्रकृतिरित्यादिसिद्धं भवति / 'तुल्या!स्तृतीयाषष्ठ्यौ' (2 / 2 / 116) इति सूत्रेण या षष्ठी विहिता सा शैषिका न भवतीति अप्राप्ते षष्ठीसमासविधानार्थं च योग इति अक्षरसम्बन्धः कार्यः / / 78 // ___पत्तिरथौ गणकेन // 3 // 1 // 79 // पत्तिरथशब्दौ षष्ठ्यन्तौ गणकेन सह समस्येते / तत्पुरुषः / पत्तीनां गणकः पत्तिगणकः / रथगणकः / कथं ज्योतिर्गणकः ? 'अकेन क्रीडाजीवे' (3 / 1 / 81) इति भविष्यति // 79 // अ० 'कर्मजा तृचाच' (3 / 1 / 83) इत्यस्यापवादोऽयं योगः // 79 / / 1. बृहद्वृत्तौ उच्छादक एव दृश्यते /