________________ 234 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते इत्यादौ वाक्यमध्ये चतुर्थीविभक्त्यैव तदर्थस्य उक्तत्वात् अर्थशब्दप्रयोगं विना तु पित्रे इदं इति वाक्यं न सम्भवति अतोऽर्थशब्दप्रयोगः / समासस्तु वचनबलाद्भवति // 72 / / पञ्चमी भयाद्यैः // 3 // 73 // पञ्चम्यन्तं नाम भयायैः सह समस्यते / तत्पुरुषः / वृकभयम् // 73 // अ० भयादिगणोऽयम् / भय भीत (भीति) भी भीरु भीलुक निर्गत जुगुप्सुः अपेत अपोढ मुक्त पतित अपत्रस्त इति भयादयः / आकृतिगणश्वायम् / तेन द्वीपान्तरानीतः स्थानभ्रष्टः तात्परः तपर इत्यादि सिद्धम् / बहुलाधिकारादिह न समासः प्रासादात्पतितः चौरादपत्रस्त इति // 73 // तेनासत्त्वे // 3 // 1174 // __ असत्त्वे वर्तमाना या पञ्चमी तदन्तं नाम क्तान्तेन सह समस्यते / तत्पुरुषः / स्तोकान्मुक्तः / 'असत्त्वे ङसेः' (3 / 2 / 10) इति अलुप् / क्तेनेति किम् ? स्तोकान्मोक्षः। असत्त्व इति किम् ? स्तोकाद्वर्द्धितः स्तोकाद् द्रव्यादित्यर्थः // 7 // अ० यतः स्तोकत्वादेनिमित्तत्वात् द्रव्ये धने विशेष्ये स्तोकादिशब्दप्रवृत्तिः सगुणोऽसत्त्वशब्दस्य प्रवृत्तिकारणं असत्त्वमुच्यते / तस्मिन् ईदृशेऽसत्त्वे 'स्तोकाल्पकृच्छ्रकतिपयादसत्त्वे करण' (2 / 2 / 79) इत्यनेन पञ्चमीविभक्तिविहितास्ति / स्तोकान्मुक्तः अल्पान्मुक्तः कृच्छ्रान्मुक्तः कतिपयान्मुक्तः दूरादागतः विप्रकृष्टादागतः अन्तिकादागतः अभ्यासादागतः कृच्छ्राल्लब्धम् इति उदाहरणावली ‘क्तेनासत्त्वे' इति सूत्रे ज्ञातव्या / एषु सर्वत्र 'असत्त्वे डसेः' (3 / 2 / 10) इति सूत्रेण अलुप्समास एव तत्पुरुषः // 74 / / परःशतादिः // 3 // 1175 // ___ पञ्चमीतत्पुरुषे परःशतादिशब्दः साधुः स्यात् / शतात्परे [वाक्यम् ] परःशताः / सहस्रात्परे [वाक्यम्] परःसहस्राः लक्षाल्लक्षाया वा परे [वाक्यम् ] परोलक्षाः। परशब्दस्य पूर्वनिपातः सकारागमश्च निपातनात् // 7 // षष्ठ्ययत्नाच्छेषे // 3 // 1176 // शेषे या षष्ठी तदन्तं नाम नाम्ना सह समस्यते / तत्पुरुषः / चेत् 'स शेषो 'नाथः' (2 / 2 / 10) इत्यादेर्यत्नान भवति / राजपुरुषः / राजगोक्षीरम् राजगवीक्षीरम् / अयत्नादिति किम् ? सर्पिषो नाथितम् / ['नाथः' (2 / 2 / 10)] मातृः स्मृतम् / एधोदकस्योपस्कृतम् ['कृगः प्रति०' (2 / 2 / 12)] / चौरस्योज्जासितम् / ['रुजार्थ०' (2 / 2 / 13)] / शेष इति किम् ? मनुष्याणां क्षत्रियः शूरतमः / गवां कृष्णा संपन्नक्षीरतमा / गोस्वामीत्यादिषु तु अयत्नजा शेषे एव षष्ठी / संघस्य भद्रं भूयादित्यादौ त्वाशिषि न षष्ठ्याः समासः / असामादनभिधानाद्वा // 6 // ___ अ० स शेषो 'नाथः' (2 / 2 / 10) इत्यादेरित्यक्षराणां भावार्थोऽयम् / ‘शेषे' (2 / 2 / 81) इति सूत्रेण या षष्ठी विहिता तया षष्ठ्या सह 'षष्ठ्ययत्ना०' इत्यनेन षष्ठीतत्पुरुषसमासो भवति / परं अयत्नजे शेषे षष्ठीसमासः / अयत्ने इति किम् ? उच्यते / 'नाथः' (2 / 2 / 10) / ‘स्मृत्यर्थदयेशः' (2 / 2 / 11) 'कृगः प्रतियत्ने' (2 / 2 / 12) 'रुजार्थस्याज्वरि०' (2 / 2 / 13) 'जासनाट०' (2 / 2 / 14) / 'निप्रेभ्यो घ्नः' (2 / 2 / 15) / 'विनिमेयद्यूत०' (2 / 2 / 16) उपसर्गादिवः (2 / 2 / 17) / इति णिच्सूत्राप्यं कर्म विकल्पेन भवति / एकत्र व्याप्ये कर्मणि द्वितीया,