________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः / 233 तथा घनघात्यः कृच्छ्रसाध्यत्वमुच्यते / इयं अवचूरिः 'एवं नाम मृदूनि इत्यक्षराग्रे ज्ञातव्या / कारकमिति किम् ? विद्ययोषितः अन्नेनोषितः, तेन हेतुना इत्यर्थः / तथा पुत्रेण गतः छात्रेण गतः, तेन सह इत्यर्थः / कृतेति किम् ? गोभिर्वपावान्, धान्येन धनवान् // 68 // नविंशत्यादिनैकोऽच्चान्तः // 3 // 1 // 69 // एकशब्दस्तृतीयान्तो नविंशत्यादिना सह समस्यते / तत्पुरुषः / एकस्य च अद् अन्तः स्यात् / एकानविंशतिः / पक्षे एकाद् नविंशतिः / एवं एकानत्रिंशत् इत्यादि // 69 // ___अ० एकानविंशतिः / एकेन नविंशतिः एकानविंशतिः / एकशब्दस्य अन्ते अद् / अद्करणसामर्थ्यादेव 'लुगस्यादेत्यपदे' (2 / 1 / 113) इत्यनेन अकारलोपो (न भवति) / तदनन्तरं 'तृतीयस्य पञ्चमे' (1 / 3 / 1) इति सूत्रेण द् इत्यस्य न विकल्पेन / पक्षे द् एव तत्र एकाद् नविंशतिः इति प्रयोगः / एवं एकान्नत्रिंशत् पक्षे एकाद् न त्रिंशत् / एका-नचत्वारिंशत् एकाद् नचत्वारिंशत् / अत्र सर्वत्र 'नविंशत्यादिना' 0 इति सूत्रे निर्देशात् नञत् न भवति / उपलक्षणत्वात् 'नञव्ययात्सङ्ख्याया डः' (7 / 3 / 123) इति सूत्रेण विंशदादिशब्दात् डप्रत्ययोऽपि न भवति / / 69 / / - चतुर्थी प्रकृत्या // 3 // 1 // 7 // प्रकृतिः परिणामिकारणम् [परिणामोऽवस्थान्तरापत्तिः / चतुर्थ्यन्तमर्थाद्विकृतिवाचि नाम प्रकृतिवाचिनाम्ना सह समस्यते / तत्पुरुषः। यूपाय दारु] यूपदारु / कुण्डलाय हिरण्यं कुण्डलहिरण्यम् / प्रकृत्येति किम् ? रन्धनाय स्थाली // 7 // अ० मूत्राय सम्पद्यते यवागूः इत्यादौ तु विकारस्य मूत्रादिरूपस्य अप्रधानस्य सम्पद्यते इत्यादि क्रियासापेक्षत्वान्न समासः // 70 // हितादिभिः // 3 // 1171 // चतुर्थ्यन्तं नाम हितादिभिः सह समस्यते / तत्पुरुषः / [गोभ्यो हितम्] गोहितम् / गोसुखम् / कृत्ययप्रत्ययान्तं चेह [हितादिगणे] पम्यते-देवाय देयं देवदेयम् / वरप्रदेया कन्या // 1 // .. अ० हित सुख रक्षित बलि इति हितादयः / आकृतिगणश्वायम् / तेन अश्वघासः श्वश्रूसुरा (श्वश्रूसुरम्) हस्तिविधानम् धर्मनियमः धर्मजिज्ञासा नाट्यशाला आत्मनेपदम् परस्मैपदमित्यादि सिद्धम् / पचते इत्येवमादीनामात्मा स्वभावस्तदर्थं पदं ते आते अन्ते इत्यादिकं आत्मनेपदम् / तथा तिवादि अवयवापेक्षया प्रकृतिप्रत्ययसमुदायः पचतीत्यादिलक्षणः परोऽर्थस्तदर्थं तिवादिकं पदं परस्मैपदम् / तव्य अनीय क्विप् घ्यण् य इति कृत्यपञ्चकम् / तत्र एक एव यप्रत्यय इह, नान्ये / यप्रत्यये समासः-वराय प्रदेया वरप्रदेया, देवाय देयम् इत्यादि हितादिगणे // 71 / / तदर्थार्थेन // 3 // 1 // 72 // तस्याश्चतुर्थ्या अर्थो यस्य स तदर्थः / चतुर्थ्यन्तं नाम तदर्थेनार्थशब्देन सह समस्यते / तत्पुरुषः / पित्रे इदं [वाक्यं] पित्र) पयः [जलाय अयम्] जलार्थो घटः / [आतुराय इयम्] आतुरार्था यवागूः / 'उऽर्थो वाच्यवत्' इति वाच्यलिङ्गता [वाच्या घट पय यवागू इत्यादिक] / नित्यसमासश्चायम् / तदर्थेति अर्थविशेषणं किम् ? पित्रेऽर्थः / मात्रेऽर्थः / [तदर्थं धनमित्यर्थः] // 72 // अ० तस्याश्चतुर्थ्या अर्थो यस्य अर्थशब्दस्य स तदर्थः / तदर्थश्चासौ अर्थश्च तदर्थार्थः / तेन / पित्र) पय