________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते ___ अ० शङ्कुलखण्ड इत्यादौ कृतार्थौ वृत्तावन्तर्भूत इति कृतशब्दो न प्रयुज्यते / एवं गिरिकाणः क्षारशुक्लः कुसुमसुरभिः / देवदत्तादौ तद्धितः 'तस्येदम्' (6 / 3 / 160) अण् / 'द्वितीयायाः काम्यः' (3 / 4 / 22) 'परं सम्बन्धमात्रं इत्यक्षराग्रे- यदा तत्कुतत्वविवक्षायां कर्तरि करणे वा अक्ष्णा कृतः काण इति युक्त्या तृतीया तदा भवत्येव समासः अक्षिकाण इत्यादि समासान्तरः, अन्यथा त्रिपदस्तत्पुरुषो न स्यात् / गुणवचनैरित्येव इति व्यावृत्तौ गोभिर्वपावान्, कोऽर्थः / मेदस्वी महानित्यर्थः / ततो दध्ना पटुः इति द्वितीयमुदाहरणम् / अत्र वपावान् पटुशब्दौ पूर्वं गुणमुक्त्वा तदनन्तरं द्रव्ये गोपालादिके चैत्रे वर्त्तते इति गुणवचनौ न भवतः / अत एव गुणवचनत्वाभावादेव शुद्धगुणवाचिनापि नाम्ना सह न समासः / घृतेन पाटवम् विद्यया धाष्टम् इति प्रयोगौ, घृतपाटवम् विद्याधाष्टय इत्थं न भवतः // 65 // चतम्रार्द्धम् // 3 // 1 // 66 // अर्द्धशब्दस्तृतीयान्तस्तत्कृतार्थेन चतसृशब्देन सह समस्यते / तत्पुरुषः / अर्द्धचतम्रो मात्राः / चतरोति किम् ? अर्द्धन कृताश्चत्वारो द्रोणाः // 66 // अ० अर्द्धन कृताश्चतस्र इति वाक्ये अर्द्धचतम्रो मात्रा इत्युदाहरणम् / एवं अर्द्धचतस्रः खार्यः // 66 / / ऊनार्थपूर्वाद्यैः // 3 // 167 // तृतीयान्तनाम ऊनार्थैः पूर्वाद्यैश्च नामभिः सह समस्यते / तत्पुरुषः / माषोनम् [माषेण ऊनं माषोनम्] / माषविकलम् / पूर्वाद्याः, मासेन पूर्वो [वाक्यम् ] मासपूर्वः संवत्सरपूर्वः / पूर्व अवर सदृश सम कलह निपुण मिश्र श्लक्ष्ण इति पूर्वादयः। पूर्वादि अष्टशब्दाः / आकृतिगणोऽयम् तेन धान्येनार्थो [वाक्यं] धान्यार्थः / आत्मनापश्चमः, आत्मनाषष्ठः, एतावलुक्समासौ इत्यादि // 65 // अ० आदिशब्दात् माषेणाधिकम् माषाधिकं कार्षापणम् / एवं द्रोणाधिका खारी, भ्राता तुल्यो भ्रातृतुल्यः, एकेन द्रव्यवत्त्वमित्यादि सिद्धम् // 67 / / कारकं कृता // 3 // 168 // कारकवाचि नाम तृतीयान्तं सामर्थ्यात्कर्तृकरणरूपं कृदन्तनाम्ना समस्यते / तत्पुरुषः। कर्तृ, आत्मकृतम् परकृतम् / कृत्सगतिकारकस्यापि-चैत्रनखनिर्भिन्नः सुजनसुलभः दुर्जनदुर्लभः अरिदुर्जयः / करण, [परशुना छिन्नः] परशुच्छिन्नः / नखनिर्भिन्नः पादप्रहारः तलाहृतिः / बहुलाधिकारात् स्तुतिनिन्दार्थतायां प्रायः कृत्यैः सह समासः / कर्तृ, काकपेया नदी एवंनामपूर्णेत्यर्थः / श्वलेह्यः कूपः एवंनामासन्नोदकः / कुक्कुटसम्पात्या ग्रामाः एवंनामासन्ना इत्यर्थः / करण, बाष्पच्छेद्यानि तृणआनि 'एवंनाममृदूनि इत्यर्थः कोमलानि // 68 // अ० आत्मना क्रियते स्म आत्मकृतम् / परेण क्रियते स्म परकृतम् ‘क्तक्तवतू' (5 / 1 / 174) आत्मना कृतं आत्मकृतं इति न कार्यम् / चैत्रेण नखनिर्भिन्न इति वाक्यम् / काकैः पीयते काकपेया ‘य एच्चातः' (5 / 1 / 28) / श्वभिर्लिह्यते श्वलेह्यः / कुक्कुटैः कर्तृभिः सम्पत्यन्तेस्म कुक्कुटसम्पात्याः 'ऋवर्णव्यञ्जनाद् ध्यण' (5 / 1 / 17) इति सूत्रेण ध्यण् / अथ करणे. च्छिद्यन्ते च्छेद्यानि, बाष्पैः च्छेद्यानि बाष्पच्छेद्यानि / तथा स्तुतिनिन्दाभ्यां अन्यत्रापि समास इष्यते / बुसोपेन्ध्यम् अत्र तेजसोऽल्पता ख्याप्यते, नात्र निन्दास्तुतिर्वा किन्तु स्वरूपस्य कथनमात्रम् / A. देवदत्तः इत्यनेन द्रव्यशब्द सामानाधिकरण्यात् खण्डशब्दस्य गुणिनि द्रव्ये वृत्ति दृश्यते / /