________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः 231 सर्वरात्रं कल्याणी सर्वरात्रकल्याणी // 61 / / श्रितादिभिः // 3 // 1 // 62 // - द्वितीयान्तं नाम श्रितादिभिः सह समस्यते / तत्पुरुषः / धर्म श्रितो [वाक्यम्] धर्मश्रितः / शिवगतः संसारातीतः // 6 // अ० श्रित अतीत पतित गत अत्यस्त प्राप्त आपन्न गमिन् गामिन् आगामिन् इति श्रितादयः / बहुवचनमाकृतिगणार्थम् / तेन ओदनबुभुक्षुः हिताशंसुः तत्त्वबुभुक्षुः सुखेच्छुः इत्यादि सिद्धम् / श्रित इत्यत्र ‘गत्यर्थाकर्मक०' (5 / 1 / 11) इति क्तः प्राप्त्यर्थविवक्षणात् / धर्मश्रितः कोऽर्थः ? धर्मं प्राप्त इत्यर्थः / धर्मश्रित इत्यादिकानि बहुव्रीहिणापि सिध्यन्ति / परं. तत्पुरषे सूरिर्यत् साधयति तदिदं ज्ञापयति / यत्र समासेऽर्थे विग्रहभेदात्तत्पुरुषबहुव्रीही द्वावपि प्राप्नुतः तत्र तत्पुरुष एव कार्यो न बहुव्रीहिरिति ज्ञापितम् / / 62 / / प्राप्तापनी तयाऽच्च // 3 // 1163 // प्राप्त आपनशब्दी सामर्थ्यात्प्रथमान्तौ [प्रथमा एकवचनान्तौ] तया द्वितीयान्तनाम्ना सह समस्येते / तत्पुरुषः। तद्योगे चानयोरन्तस्याकारो भवति [प्राप्ता आपन्ना इतिरूपयोः अकारः] प्राप्तजीविका आपन्नजीविका स्त्री। एवं प्राप्तगवी आपनगवी स्त्री / प्राप्तो जीविकां [वाक्यम्] प्राप्तजीविकः आपनजीविकः / प्राप्तगवः आपनगवः पुरुषः। प्राप्तजीविकं कुलम् / अद्वचनं स्त्रीलिङ्गार्थम् / प्राप्तापन्नयोः प्रथमोक्तत्वात् पूर्वनिपातार्थं वचनम् // 63 // . अ० प्राप्ता जीविकां इति वाक्ये प्राप्तजीविका इति उदाहरणम् / आपन्ना जीविकां इति वाक्ये आपनजीविका / प्राप्तजीविका आपन्नजीविका इत्येतौ बहुव्रीहिणापि सिध्यतः परं प्राप्तगवी आपन्नगवी इति बहुव्रीहिणा न सिध्यतः। 'गोस्तत्पुरुषात्' (7 / 3 / 105) इत्यनेन तत्पुरुषेऽट्विधानात् / बहुव्रीहौ नाट् / प्राप्ता गा आपन्ना गा इति वाक्ये 'गोस्तत्पुरुषात्' इति सूत्रेण अट्समासान्तः 'अणञये' (2 / 4 / 20) अति ङीः / प्राप्तं जीविकां इति वाक्यम् / एवं आपन्नं जीविकामापन्नजीविकं कुलम् स्त्रीलिङ्गे अद् इत्यादेशो भवति न पुंल्लिङ्गे न क्लीबे तयोरसम्भवात् // 63 / / ईषद्णवचनैः // 3 // 1164 // ___ ईषदित्यव्ययं गुणवचनैर्नामभिः सह समस्यते / तत्पुरुषः / ये गुणे वर्तित्वात् [गुणयोगात् ] योगाद्गुणिनि वर्तन्ते ते गुणमुक्तवन्तो गुणवचनाः / ईषपिङ्गलः / [ईषदल्पं विकटः] ईषद्विकटः / गुणवचनैरिति किम् ? ईषत्कारकः // 64 // ___अ० 'ईषद्गुणः०' इति सूत्रे विशेषोऽयम् / समासे सति तद्धितकाम्यसमासान्तरवसाद्यादेशाभावा भवन्ति / यथा ईषदल्पं पिङ्गलः ईषत्पिङ्गलः इति तत्पुरुषः / तदनन्तरं ईषत्पिङ्गलस्येदं ऐषत्पिङ्गलम् / ऐषत्पिङ्गलमिच्छति ऐषत्पिगलकाम्यन् / कोपेन ईषद्रक्तः कोपेषद्रक्तः / ईषत्पिङ्गलं युष्माकमथो पुत्रः // 64 / / - तृतीया तत्कृतैः // 3 // 16 // तृतीयान्तं नाम तत्कृतैस्तृतीयार्थकृतैर्गुणवचनैर्नामभिः सह समस्यते / तत्पुरुषः / शङ्खलाखण्डश्चैत्रः [शङ्खलया कृतः खण्डः इति वाक्यम् ] गिरिकाणः [डमरु] / तत्कृतैरिति किम् ? अक्ष्णा काणः / पादेन खञ्जः। काणत्वादि हि अत्र काण्डादिना [शरादिना] कृतम् नाक्ष्यादिना, अक्ष्यादिना 'परं सम्बन्धमात्रम् / गुणवचनैरित्येव-दना पटुः पाटवमित्यर्थः // 65 //