________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते मासजाताः इति विग्रहः कार्यः / मासौ जातस्य मासा जातस्य इति तु न समासः / एकमासजात इत्युदाहरणाग्रे एवम् व्द्यह्रसुप्तः त्र्यह्राध्यायितः इति ज्ञेयम् / अत्र तु द्वे अहनी सुप्तस्य, त्रीणि अहानि अध्यायितस्येति वाक्ये 'सर्वांशसङ्ख्याव्ययात्' (7 / 3 / 118) इति सूत्रेणाहन्परतोऽट्समासान्तः, अहन् इत्यस्य अह्न आदेशश्च / सूत्रे द्विगुग्रहणं त्रिपदसमासार्थम् / अन्यथा 'नाम नाम्ना०' (3 / 1 / 18) इत्यनुवृत्तेयोरेव पदयोः समासः स्यात् / सूत्रे च चकारो द्विगुरहितकालपरिग्रहार्थः / यदि च चो न स्यात्तदा द्विगौ वर्त्तमानं कालवाचि नाम इति सूत्रार्थः स्यात् / मासाश्चैत्रस्य इत्यत्र द्रव्यमात्रस्य चैत्रस्य न मेयत्वम् / जातादेरेव हि मेयत्वं भवति / जन्मादेः प्रभृति जातादिसम्बन्धित्वेनैवादित्यगतेः परिच्छेदात् / षष्ठीसमासापवादः 'काले द्विगौ च०' इति योगः कृतः // 57|| स्वयंसामी क्तेन // 3 // 1158 // स्वयं सामि इत्येतेऽव्यये क्तान्तेन सह समस्येते / तत्पुरुषः / स्वयंधौतौ पादौ / स्वयंविलीनमाज्यम् घृतम्] / आत्मनेत्यर्थः / सामिकृतम् सामिभुक्तम् अर्द्धमित्यर्थः // 58 // ___ अ० 'स्वयंसामी'ति सूत्रे विशेषोऽयम् / समासे सति ऐकपद्यं भवति / ऐकपद्यत्वादेकविभक्तिः तद्धिताद्युत्पत्तिश्च भवति / यथा / स्वयंधौतस्यापत्यं स्वायंधौतिः ‘अत इन्' (6 / 1 / 31) / सामिकृतस्यापत्यं सामिकृतायनिः ‘अवृद्धाहोर्नवा' (6 / 1 / 110) इति आयनिञ् // 58 / / द्वितीया खट्वा क्षेपे // 3 / 1159 // खट्वा इति नाम द्वितीयान्तं क्तान्तेन नाम्ना सह क्षेपे निन्दायां समस्यते / तत्पुरुषः। खट्वारूढो जाल्मः। उत्पथप्रस्थितो विमार्गप्रस्थितः सर्वोपि खट्वारूढ इत्युच्यते / क्षेपे इति किम् ? खट्वामारूढ उपाध्यायोऽध्यापयति // 59 // ___ अ० खट्वारूढो जाल्मः इत्यस्य भावार्थोऽयम्-खट्वा पल्यङ्कः आचार्यासनं वा / अधीत्य विद्यां गुरुभिरनुज्ञातेन शिष्येण खट्वा आरोढव्या इति युक्तिः / यत्र अन्यथा आरोहणं खट्वायाः / तत् उत्पथप्रस्थानं / उपलक्षणमिदम् तेन यः कश्चित् कुमार्गप्रस्थितो भवति (स) सर्वोऽपि खट्वारूढ इत्युच्यते / जाल्मो जिह्मः // 59 / / कालः // 3 // 160 // कालवाचि द्वितीयान्तं नाम क्तान्तेन सह समस्यते। तत्पुरुषः। रात्र्यतिसृताः रात्र्यारूढाः रात्रिसङ्क्रान्ताः। मासप्रमितः [मासं प्रमित इति वाक्यम्] प्रतिपच्चन्द्रः, मासं प्रमातुमारब्ध इत्यर्थः (अव्याप्त्यर्थ आरम्भः) // 6 // अ० षण्मुहूर्त्ताश्चराचराः / ते हि मुहूर्ता दक्षिणायने शीतकाले रात्रिं गच्छन्ति शीतकाले रात्रेरतिदीर्घत्वात् / तेऽत्र रात्र्यतिसृताः रात्र्यारूढाः रात्रिसङ्क्रान्ता इति प्रयोगाः / ये हि मुहूर्त्ता उत्तरायणे उष्णकाले अहर्यान्ति ते हि अहरतिसृता इत्युच्यन्ते / उष्णकाले दिनानां अतिमहत्त्वात् // 60 // व्याप्तौ // 3 / 1 / 61 // व्याप्तिर्गुणक्रियाद्रव्यैरत्यन्तसंयोगः, व्याप्ती या द्वितीया तदन्तं कालवाचि नाम व्यापकवाचिना नाम्ना सह समस्यते / तत्पुरुषः / क्तेनेति निवृत्तम् / मुहूर्त सुखं [वाक्यं] मुहूर्त्ताध्ययनम् क्षणपाठः सर्वरात्रकल्याणी। व्याप्ताविति किम् ? मासं पूरको याति // 61 // .. अ० सर्वा रात्रिः सर्वरात्रम् ‘सङ्ख्यातैकपुण्यवर्षादीर्घाच्च रात्रेरत्' (7 / 3 / 119) इति सूत्रेण अत्समासान्तः /