________________ 229 श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः ___अ० कथं अर्द्धपिप्पल्यः ? / अर्द्धं पिप्पल्या इति अभिन्नेन समासे सत्येकशेषात् / अर्द्धरात्रिरित्यत्र च रात्रभेदप्रतिभासात्समांसो भविष्यति // 54 // जरत्यादिभिः // 3 / 1155 // असमांशार्थ आरम्भः / अर्द्धशब्दो जरत्यादिभिरंशिभिरभिन्नैः समस्यते वा / तत्पुरुषः / अझै जरत्या अर्द्धजरती / अझैक्तम् / पक्षे जरत्यर्द्धम् उक्तार्द्धम् / बहुवचनमाकृतिगणार्थम् // 55 // ____ अ० अझै जरत्या इति वाक्ये अर्द्धजरती / अर्द्धजरत्याः तुल्यं अर्द्धजरतीयम् / 'काकतालीयादयः' (7 / 1 / 117) इति सूत्रेणं ईयः / एवमोक्तम् / अर्द्धविलोकितम् / अवैशसम् अर्द्धमरणमित्यर्थः / 'जरत्यादिभिरित्यपि सूत्रं षष्ठीसमासबाधनार्थम् / कायस्य पूर्व इतिवत् / जरत्या अर्द्धं इति रीत्या षष्ठीसमासो न कार्य इति // 55 // द्वित्रिचतुष्पूरणाग्रादयः // 3 // 1 // 56 // द्वित्रिचतुर् इति शब्दाः [अंशवाचिनः] पूरणप्रत्ययान्ताः अग्रादिशब्दा [अंशवाचिनः] श्रांशिना सह समस्यन्ते वा / तत्पुरुषः / द्वितीयं भिक्षायाः [वाक्यं] द्वितीयभिक्षा / एवं तृतीयभिक्षा चतुर्थभिक्षा तुर्यभिक्षा तुरीयभिक्षा / अग्रं हस्तस्य [वाक्यं] अग्रहस्तः / एवं तलपादः / ऊर्ध्वकायः / पक्षे भिक्षाद्वितीयमित्यादि / एवं हस्ताग्रम् पादतलम् कायोर्ध्वम् / पूरणेति किम् ? द्वौ भिक्षायाः / अंशिनेत्येव / भिक्षाया द्वितीयं भिक्षुकस्य। अग्रादिराकृतिगणः // 56 // ... अ० द्विश्च त्रिश्च चत्वारश्च द्वित्रिचतुः / द्वित्रिचतुश्च तत् पुरणं च द्वित्रिचतुःपूरणम् / अत्र पूरणशब्दस्य द्वित्रिचतुरित्यस्य विशेषणस्यापि सूत्रत्वात् न पूर्वनिपातः / अग्र आदिर्येषां ते द्वित्रिचतुःपुरणं अग्रादयश्च / चतुर् चतुर्णां पूरणस्तुर्यः तुरीयः / 'येयौ चलुक् च' (7 / 1 / 164) इति सूत्रेण य ईयप्रत्ययौ, चकारलुक् / भिक्षाया द्वितीयं भिक्षाद्वितीयम् भिक्षुकस्य भिक्षुकेण सह न समासः / अभिन्नेनेत्येव / द्वितीयं भिक्षाणाम् / अत्र बहुत्वात् भिक्षाभिन्ना / द्वित्रिचतुष्पूरणेति सूत्रे प्राक्तननित्याधिकाराभावादेव पक्षे वाक्यस्य सिद्धत्वात् वाऽनुवृत्तिः पक्षे षष्ठीसमासार्था, तेन भिक्षाद्वितीयमित्यादिषु पूरणप्रत्ययान्तशब्देन सह 'तृप्तार्थपूरणाव्यय०' (3 / 1 / 85) इत्यादिना निषिद्धोऽपि षष्ठीसमासो भवत्येवेत्यर्थः // 56 / / कालो द्विगौ च मेयैः // 3 // 1157 // ___ अंशांशि [निवृत्तौ] वा इति निवृत्तम् / कालवाचि नाम एकवचनान्तं द्विगौ च विषये वर्तमान मेयवाचिना नाम्ना सह समस्यते / तत्पुरुषः / मासो जातस्य (वाक्यम्) मासजातः / मासजातौ मासजाताः / मासजाता स्त्री। संवत्सरजातः। द्विगौ-एको मासो जातस्य एकमासजातः। काल इति चैकवचनं द्विगोरन्यत्र प्रयोजकम्। तेन मासौ मासा वा जातस्येत्यत्र न समासः / द्विगौ तु द्वौ त्रयो वा मासा जातस्य द्विमासजातः त्रिमासजात इत्यपि भवति / मेयैरिति किम् ? मासश्चैत्रस्य / क्तान्तेनैव च मेयेन सह प्रायेणायं समास इष्यते / तेन मासो गच्छतः, वर्षमधीयानस्य, मासो गन्तुं वर्त्तते इत्यादौ न स्यात् // 57 // ___ अ० मासो जातयोः / मासो जातानाम् / एवं मासमृतः / संवत्सरो जातस्य / संवत्सरमृतः / मासजात इत्यादिषु यद्यपि मासो जातस्येति विग्रहे जातादि कालस्य विशेषणं भवति तथापि शब्दशक्तिस्वाभाव्यात् समासो जातादिप्रधानः / तेन समासे लिङ्गं सङ्ख्या च जातादिसम्बन्ध्येव भवति / मासौ जातयोः मासजातौ / मासा जातानां