________________ 228 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते इत्यत्र दृशिना सम्बद्धस्य नञः सूर्येण सहासामर्थेऽपि गमकत्वात् कोऽर्थः ? वाक्यार्थप्रतिपादकत्वात् समासो भवतीत्यर्थः ‘कर्त्तर्यनभ्यः शव्' (3 / 4 / 71) 'श्रौतिकृवुधिवु०' (4 / 2 / 108) इत्यादिना पश्य आदेशः / 'खित्यनव्यया०' (3 / 2 / 111) इति मोऽन्तः / असूर्यं पश्या राजदारा इत्यस्याग्रे पुनर्न गीयन्ते १अपुनर्गेयाः श्लोकाः / श्राद्धं न २भुङ्क्तेऽश्राद्धभोजी / एवं अलवणभोजी भिक्षुः / कर्णवेष्यकाभ्यां व शोभते अकर्णवेष्टकिकं मुखम् / वत्सेभ्यो न हितो ३अवत्सीयो गोधुक् / वधं नार्हति ४अवध्यो ब्राह्मणः / संतापाय न शक्तो असान्तापिकः सदुपदेशः 'तस्मै योगादेः शक्ते' (6 / 5 / 94) इति सूत्रेण इकण् / कर्णौ वेष्टते 'कर्मणोऽण्' (5 / 1 / 72) कर्णवेष्ट एव कर्णवेष्टकः / अथवा कर्णौ वेष्ट्यते आभ्यां 'नाम्नि पुंसि च' (5 / 3 / 121) / णक. कर्णवेष्टकाभ्यां न शोभते 'शोभमाने' (6 / 4 / 102) इति सूत्रेण इकण् / अत्र असमर्थनसमासोऽपि अस्मिन् विषये भवति अत एव कर्णवेष्टकेन सह नञो सम्बद्धत्वान्नञोऽकारस्य न वृद्धिः / 1 ‘य एच्चातः' (5 / 1 / 28) इति यप्रत्ययः / २'व्रताभीक्ष्ण्ये' (5 / 1 / 157) . इति णिच् / 3 तस्मै हिते' (7 / 1 / 35) इति ईयः / ४'दण्डादेर्यः' (6 / 4 / 178) इत्यनेन यप्रत्ययः // 51 // . पूर्वापराधरोत्तरमभिन्नांशिना // 3 // // 52 // अंश एकदेशः। तद्वानंशी। पूर्वादिशब्दा [सामर्थ्यात्] [पूर्वे पश्चालाः उत्तरे पश्चालाः इतिवत् समुदायवाचिनां शब्दानां अंशेऽपि प्रवृत्तिदर्शनात् सामानाधिकरण्ये सति कर्मधारयेणैव सिद्धम् / ] अंशवाचिनोऽशिना सह समस्यन्ते / चेत् सोंऽशी भिन्नो न प्रतीयते / तत्पुरुषसमासः स्यात् / पूर्वः कायस्य [वाक्यम्] पूर्वकायः / एवमपरकायः अधरकायः उत्तरकायः / पूर्वादिग्रहणं किम् ? दक्षिणः कायस्य / अंशिनेति किम् ? पूर्वो नामेः कायस्य / अभिनेनेति किम् ? पूर्व छात्राणामामन्त्रयस्व / प्रसज्यप्रतिषेध इति किम् ? [पाणी च पादौ च पाणिपादम् ] पूर्वं पाणिपादस्य // 52 // ____ अ० अंशोऽस्यास्तीति अंशी / अभिन्न इत्यत्र नञ् प्रसज्यार्थः / ततः पूर्वं पाणिपादस्प इत्यत्र समाहारस्यैकत्वेपि पाणिः पादः इति भेदः प्रतीयतेऽतो न भवति समासः // 52 // सायाह्नादयः // 3 // 1 // 53 // सायाह्लादयोऽशितत्पुरुषे साधवो भवन्ति / सायमह्नः [वाक्यम्] सायाह्नः / मध्यमह्नः [वाक्यं] मध्याह्नः। मध्यं दिनस्य [वाक्यं] मध्यंदिनम् [निपातनादलुप्] / मध्यं रात्रेः मध्यरात्रः / +बहुवचनमाकृतिगणार्थम् // 53 // अ० सायाह्नः अत्र निपातबलात् मकारलोपोऽहन् इत्यस्य अह्न इत्यादेशः, अथवा 'सर्वांशसङ्ख्याव्ययात्' (7 / 3 / 118) इत्यनेन अहन्शब्दादट्समासान्तः / एवं मध्याह्न इत्यत्रापि / + पूर्वश्चासौ कायश्च पूर्वकायः / सायं च तत् अहश्च सायाह्न इति / तत्पुरुषविधानं तु इह ‘सायाह्नादय' इति सूत्रे, पूर्वसूत्रे 'पूर्वापर०' (3 / 1 / 52) इत्यादौ च, अह्नः सायं कायस्य पूर्वं इति षष्ठीसमासबाधनार्थम् / एषाऽवचूरिः सायाह्रादय इति सूत्रप्रान्ते द्रष्टव्या // 53 // समेंऽशेऽर्धं नवा // 3 // 1 // 54 // अर्द्धमिति समेंऽशे वर्तमानमभिन्नेनांशिना सह समस्यते वा / तत्पुरुषः / अर्द्ध पिप्पल्याः [वाक्यं] अर्द्धपिप्पली / पक्षे पिप्पल्यर्द्धम् / एवमर्द्धपणः पणाई इत्यादि / समेंऽशे इति किम् ? ग्रामार्द्धः / नगसर्द्धः / समेंऽशे वर्तमानोऽर्द्धशब्द आविष्टलिङ्गो नपुंसकः, असमेंऽशे तु पुंल्लिङ्गः / अंशिनेत्येव-पिप्पल्या अर्द्ध चैत्रस्य / अत्र चैत्रेण सह न समासः॥ अर्द्धं च सा पिप्पली चेति कर्मधारयेणैव सिद्धे भेदविवक्षायां पक्षे षष्ठीसमासबाधनार्थं असमांशे च अर्द्धश्वासी ग्रामश्चेति कर्मधारयनिषेधार्थं वचनं कृतम् // 54 //