________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः 227 अ० 'ङस्युक्तं कृता' इति सूत्रेऽयं विशेषो ज्ञातव्यः / गतिकारकोपपदानां कृद्भिः समासवचनं प्राक् प्रत्ययोत्पतेरिति न्यायात् गतिकारकङस्युक्तानां विभक्त्यन्तानामेव कृदन्तैः सह विभक्त्युत्पत्तेः प्रागेव समास इष्यते / तथाहि प्र. प्रथमा सि / स्था / प्रतिष्ठतीति वाक्यम् / चर्मन् / तृतीया टा / क्रीत. चर्मणा क्रियतेस्म इति वाक्यम् / अभ्र / टा / विलिप्त. अल्पेन अभ्रेण विलिप्यतेस्म इति वाक्यम् / कच्छ / अम् / प इत्यादौ कृत्प्रत्ययान्तेन समासः / पश्चात् प्रष्टस्य प्रष्ठी ‘धवाद्योगादपालकान्तात्' (2 / 4 / 59) इति ङीः / चर्मक्रीतः इत्यत्र 'क्रीतात्करणादेः' (2 / 4 / 44) इति ङीः / कच्छप इत्यत्र 'जातेरयान्त०' (2 / 4 / 54) इति ङीः सिद्धः / यदि पुनर्विभक्त्यन्तैः कृदन्तैः सह समासः स्यात्तदान्तरङ्गत्वात् विभक्तेः प्रागेव आप प्राप्नुयात् / आपि सत्यऽकारान्तत्वाभावात् ङीप्रत्ययो न स्यात् / तथा माषान् वापिन / व्रीहीन् वापिन् इत्यादौ तु नकारान्तवापिन्शब्देन सहोपपदसमासे सति विभक्त्यन्तत्वाभावेऽपि (पद') रूपत्वादुत्तरपदत्वम् / ततश्चोत्तरपदान्तस्यान्तो नकार इति 'वोत्तरपदान्तनस्यादेरयुव०' (2 / 3 / 75) इति णत्वं सिद्धम् / पश्चात् ङीः सिद्धः / विभक्त्यन्तोत्तरपदेन सह समासे तु क्रियमाणेऽन्तरङ्गत्वाद्विभक्तेः प्रागेव ङीः प्रसज्येत / डीप्रत्यये सति नान्तत्वाभावात् णत्वं न भवेत् // 49 / / / तृतीयोक्ते वा // 3 // 15 // 'दशेस्तृतीयया' इत्यारभ्य यत्तृतीयोक्तं नाम तत्कृदन्तनाम्ना समस्यते वा। अन्यस्तत्पुरुषः। मूलकेनोपदंशं [वाक्यमिदम्] मूलकोपदंशं भुङ्क्ते / दण्डेनोपघातं [वाक्यम्] दण्डोपघातम् गाः कलयति / पार्थोपपीडं शेते। वाशब्दे नित्यसमासनिवृत्त्यर्थः / तेनोत्तरेषु वाक्यमपि // 50 // ' अ०' 'दंशेस्तृतीयया' (5 / 4 / 73) इत्यादिसूत्रेः तृतीयान्त उपपूर्वकधातोः परतो यद्विहितं तत् तृतीयोक्तम / उपदशा इति वाक्ये ‘दंशेस्तृतीयया' णम् प्रत्ययः / उपहत्य / उपघातम् / 'हिंसार्थादेकाप्यात्' (5 / 4 / 74) इति सूत्रेण णम् / उपपीड्य इति वाक्ये 'उपपीडरुधकर्षस्तत्सप्तम्या' (5 / 4 / 75) इति सूत्रेण णम् / पश्चात् पार्श्वभ्यां, पार्श्वयोरुपपीडं इति वाक्यं कार्यम् / / 50 / / - नञ् // 3 // 151 // नम् इति नाम नाम्ना समस्यतेऽन्यस्तत्पुरुषः / न गौः [वाक्यम्] अगौः / अनुच्चैः / असः / निवर्त्यमानतावश्चोत्तरपदार्थः पर्युदासे नसमासार्थः / उत्तरपदार्थः / स चायं चतुर्द्धा सदृशः तद्विरुद्धः तदन्यः तदभावश्चेति / अब्राह्मणः [साम ?] अशुक्लः अधर्मः असितः। अनग्निः अवायुः अवचनम् अवीक्षणम् [पश्येत्यादि क्रियापदेन सह प्रसज्यप्रतिषेधे न नञ् पदान्तरेण सम्बध्यते इत्युत्तरपदं वाक्यवत्स्वार्थ एव वर्त्तते / तत्रासामर्थ्यपि यथाभिधानं बाहुलकात् नसमासः / असूर्यपश्या राजदाराः // 51 // - अ० पर्युदासनञ् सदृशग्राही भवतीत्यत्र न ब्राह्मणो ब्राह्मणसदृशः क्षत्रियादितिव्यः / न शुक्ल इत्यत्रापि अशुक्ल इत्युक्ते पीतादिवर्णः प्रतीयते इत्येको भेदः 1 / तद्विरुद्धश्चेत्थम् न धर्मः कोऽर्थस्तद्विरोधि पापम् असित इत्युक्ते च कृष्ण एव प्रतीयते इति द्वितीयो भेदः 2 / तदन्यस्त्वेवम्-अनग्निः अवायुः इत्युक्ते अग्निवायुभ्यामन्यः प्रतीयते इति तृतीयः 3 / तदभावश्चेति अवचनम् अवीक्षणं इत्युक्ते वचनस्य वीक्षणस्याभावो ज्ञाप्यते इति चतुर्थो भेदः 4 / सूर्यमपि न पश्यन्ति इति वाक्येऽसूर्यं पश्याः / ‘असूर्योग्रादृशः' (5 / 1 / 126) इति सूत्रेण खश् प्रत्ययः / असूर्यं पश्या 1. उत्तरपदशब्दो हि समासस्य चरमावयवे रूढ इति अत्र पारिभाषिकोत्तरपदत्वं ज्ञेयम् /