________________ 226 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते प्रादयः-प्रगत आचार्यः [वाक्यम्] प्राचार्यः इत्यादयः / अत्यादयः-अतिक्रान्तः खट्वाम् [वाक्यम् ] अतिखट्वः इत्यादयः / अवादयः-अवक्रुष्टः कोकिलया [वाक्यम्] अवकोकिल इत्यादि / पर्यादयः-परिग्लानोऽध्ययनाय [वाक्यम् ] पर्यध्ययन इत्यादि / निरादयः-निष्क्रान्तः कौशाम्ब्याः [वाक्यम्] निष्कौशाम्बिः इत्यादयः // 47 // ___अ०प्राचार्यः आदिशब्दात् प्रवृद्धो गुरुः प्रगुरुः, प्रकृष्टो वीरः प्रवीरः, सङ्गतोऽर्थः समर्थः; विरुद्धः पक्षो विपक्षः, प्रत्यर्थी पक्षः प्रतिपक्षः, प्रतिबद्धं वचः प्रतिवचः, उपश्लिष्टः पतिः उपपतिः / उपपन्नो नायकः उपनायकः, अनुकूलो नायकोऽनुनायकः, प्रतिकूलो नायकः प्रतिनायकः, इति प्रादयः / बहुवचनमाकृतिगणार्थम् / अथ अत्यादिप्रयोगाः अतिखट्सः / उद्गतो वेलां उद्वेलः, प्रतिगतोऽक्षं प्रत्यक्षः, अनुगतो लोमानि अनुलोमः, प्रतिगतो लोमानि प्रतिलोमः, अभिप्रपन्नो मुखं अभिमुखः / बहुवचनमाकृतिगणार्थम् / अथ अवादिप्रयोगाः अवकोकिलः / परिणद्धो वीरुद्भिः परिवीरुत्, संनद्धो वर्मणा संवर्मा, अनुगतमर्थेन अन्वर्थं नाम, सङ्गतमक्षेण समक्षं वस्तु, वियुक्तमर्थेन व्यर्थं वचः, सङ्गतमर्थेन समर्थं पदम्, बहुवचनमाकृतिगमार्थम् / अथ पर्यादिप्रयोगाः प्रयध्ययनः, उद्युक्तः सङ्ग्रमाय उत्सङ्ग्रामः, शक्तः कुमार्यै अलङ्कुमारिः, शक्तः पुरुषेभ्यः अलंपुरुषीणः / अथ निरादयो लिख्यन्ते निष्कौशाम्बिः / अपगतः / शाखायाः अपशाखः / अन्तर्गतोऽङ्गुल्या अन्तरङ्गुलो नखः, बहुलाधिकारात् षष्ठ्यन्तेनापि-अन्तर्गतोऽङ्गुलेः 6 अन्तरङ्गुलो नखः, उत्क्रान्ता कुलादुत्कुला कुलटा उत्क्रान्तो वेलायाः उद्वेलः समुद्रः, उत्क्रान्तं शास्त्रात् उच्छास्त्रं वचः, उत्क्रान्तः सूत्रात् उत्सूत्रो न्यायः, उद्गतः शृङ्खलायाः उच्छृङ्खलः कलभः, अपगतमादपार्थं वचः / अपगतं क्रमादपक्रमं कार्यम् / बहुनचनमाकृतिगणार्थम् // 47|| अव्ययं प्रवृद्धादिभिः // 3 // 1 // 48 // अव्ययं नाम प्रवृद्धादिभिः सह नित्यं समस्यतेऽन्यस्तत्पुरुषः / [उदाहरणसदृशानि वाक्यानि कार्याणि] पुनः प्रवृद्धं बर्हिः, पुनरुक्तं वचः, पुनर्नवं वयः, स्वर्यातः अन्तर्भूतः उचैर्घोषः नीचैर्गतम् प्रायश्चित्तम् पुराकल्पः श्वःश्रेयसम् श्वोवसीयसम् / बहुवचनमाकृतिगणार्थम् // 48 // ___ अ० प्रकर्षण एति आगच्छति अस्मादाचारधर्म इति प्रायो मुनिजनः / चिन्त्ये स्मर्यते इति चित्तम् / प्रायैर्मुनिजनैश्चित्तं चिन्तितं पापशुद्धये इति प्रायश्चित्तं उच्यते / पूर्वं वसुशब्दः / वसून्यस्य सन्ति ‘तदस्यास्त्य०' (7 / 2 / 1) इति मत् वसुमत् / अयमनयोरतिशयेन वसुमान् ‘गुणाङ्गाद्वेष्ठेयसू' (7 / 3 / 9) इयसू / 'विन्मतोर्णीष्ठेयसौ लुप्" (7 / 4 / 32) इत्यनेन मतुलृप्यते / तदनन्तरं 'त्र्यन्त्यस्वरादेः' (7 / 4 / 43) इत्यनेन वसोः उकारो लुप्यते / वसीयत् इतिशब्दः सिद्धः / श्वस् / वसीयम् / शोभनं वसीयः श्वोवसीयसम् / ‘श्वसो वसीयसः' (7 / 3 / 121) इति सूत्रेण अत् समासान्तः / तथा शोभनं श्रेयः इति वाक्ये 'निसश्च श्रेयसः' (7 / 3 / 122) इति सूत्रेणात्समासान्तः / श्वःश्रेयसम् // 48 // __ ङस्युक्तं कृता // 3 // 1 // 49 // कृत्सूत्रेषु उसिना पञ्चम्यन्तेन यदुक्तं तत् ङस्युक्तम् / ऊस्युक्तं नाम कृदन्तनाम्ना समस्यते नित्यम् / अन्यस्तत्पुरुषः स्यात् / [कुम्भं करोतीति 'कर्मणो अण्'] / कुम्भकारः [अग्निं चितवान् ‘अग्नेश्वेः' (5 / 1 / 164) किप्] / अग्निचित् / [सोमं सुतवान् ‘सोमात् सुगः' (5 / 1 / 163) सोमसुत्] / उस्युक्तमिति किम् ? कारकस्य [व्रजनं व्रज्या 'आस्पटिव्रज्यजः क्यप्' (5 / 3 / 97)] व्रज्या / अलंकृत्वा // 49 //