________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः अन्य इति किम् ? कुपुरुषकः [बहुव्रीहिः] / तत्पुरुषप्रदेशाः ‘गोस्तत्पुरुषात्' (7 / 3 / 105) इत्यादयः // 42 / / अ० कु इत्यव्ययं पापाल्पयोर्वर्त्तते / गतिश्च कुश्च सिः / ऊरीकृत्य उररीकृत्य, खाटकृत्य, शुक्लीकृत्य, पटपटाकृत्य, प्रकृत्य / एषु 'ऊर्याद्यनुकरण०' (3 / 1 / 2) इत्यादिना यथाक्रमं ऊर्यादिगण अनुकरण च्व्यन्त डाजन्त उपसर्गद्वारेण गतिसञ्ज्ञा भवति / गतिसञ्ज्ञकत्वात् 'गतिक्वन्यस्तत्पुरुष' इत्यनेन तत्पुरुषसमासफलम् / गतिसझं च अव्ययं भवति / अव्ययपूर्वपदभावात् 'अनञः क्त्वो यप्' (3 / 2 / 154) इत्यनेन यप् इति द्वितीयं फलम् / कु ईषत् कुत्सितं कदुष्णम् ‘कोः कत्तत्पुरुषे' (3 / 2 / 130) इत्यनेन कद् आदेशः / कु ईषत् मधुरं कामधुरम् ‘अल्पे' (3 / 2 / 136) इति सूत्रेण का आदेशः // 42 // . दुर्निन्दाकृच्छ्रे // 3 // 1 // 43 // [दुर्] [दुर] दुरव्ययं निन्दायां कृच्छ्रार्थे च वर्त्तमानं नाम्ना समस्यते नित्यम् / समासोऽन्यस्तत्पुरुषसञ्ज्ञः / निन्दितः पुरुषो दुःपुरुषः / कृच्छ्रेण कृतं दुःकृतम् / अन्य इति किम् ? दुःपुरुषकः [बहुव्रीहिः] // 43 // सुः पूजायाम् // 3 // 1 // 44 // - सु इत्यव्ययं पूजायां वर्तमानं नाम्ना नित्यं समस्यते / तत्पुरुषोऽन्यः स्यात् / शोभनो राजा सुराजा। अन्य इति किम् ? मद्राणां समृद्धिः समुद्रम् / अत्राव्ययीभावत्वादम् // 44 // .. अतिरतिक्रमे च // 3 // 1 // 45 // ___ अति इत्यव्ययं अतिक्रमे पूजायां च वर्तमानं नाम्ना सह समस्यते नित्यम् / अन्यस्तत्पुरुषः स्यात् / अतिस्तुतं भवता अतिसिक्तं भवता / पूजायाम् अतिराजा / बहुलाधिकारादतिक्रमे कचिन भवति / अतिस्तुत्वा // 45 // __ अ० अतिक्रमेण स्तूयतेस्म / अतिक्रमेण सिच्यतेस्म / 'क्तक्तवतू' (5 // 174) अतिक्रमेण स्तुतिसेको कृतावित्यर्थः / एवमतिस्तूय अतिसिच्य / / अथ पूजार्थे अतिः कोऽर्थः ? शोभनो राजा अतिराजा // अतिस्तुत्वा अतिसिक्त्वा / समासाभावात् क्त्वास्थाने यप् न भवति / / 45 / / आङल्पे // 3 // 1 // 46 // - आङ् इत्यव्ययमल्पेऽर्थे वर्तमानं नाम्ना सह समस्यते / नित्यम् / अन्यस्तत्पुरुषसमासः / ईषत्कडारः [वाक्यम्] आकडारः। एवं आपिङ्गलः। आबद्धम् आयुक्तम् इत्यादौ तु क्रियायोगे गतिलक्षण एव समासः // 46 / / .. अ० आबद्धमित्यादिषु बन्ध्- युज्धातुः आङ्पूर्वम् / इत्थं क्रियया सह आङ् उपसर्गस्य योगः। 'ऊर्याद्यनुकरणच्चिडाचश्च गतिः' (3 / 1 / 2) इत्यनेन गतिसंज्ञा / गतिसंज्ञकत्वात् 'गतिक्वन्यस्तत्पुरुषः' (3 / 1 / 42) इत्यनेन तत्पुरुषसंज्ञसमासो भवतीत्यर्थः // 46 // प्रात्यवपरिनिरादयो गतक्रान्तक्रुष्टग्लानक्रान्ताद्यर्थाः प्रथमाद्यन्तैः // 3 // 1 // 47 // प्रादयो गताद्यर्थे वर्तमानाः प्रथमान्तेन सह समस्यन्ते / एवं अत्यादयः क्रान्ताद्यर्थे द्वितीयान्तेन नाम्ना सह समस्यन्ते / अवादयः क्रुष्टाद्यर्थे तृतीयान्तेन नाम्ना सह समस्यन्ते / पर्यादयो ग्लानाद्यर्थे चतुर्थ्यन्तेन नाम्ना सह समस्यन्ते / निरादयः क्रान्ताद्यर्थे पञ्चम्यन्तेन नाम्ना सह समस्यन्ते / नित्यम् / अन्यस्तत्पुरुषः। 1. 'अमव्ययीभावस्यातोऽपञ्चम्याः' (3 / 2 / 2) अनेन स्यादेरम् आदेशः /