________________ 224 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते गतः] / युगपत् सचक्रम् / सदृगर्थे [सदृशार्थे] सव्रतम् व्रतस्य सदृशमित्यर्थः / सदेवदत्तं, देवदत्तस्य सदृश इत्यर्थः। एवं सशीलम् [शीलस्य सदृशं] सकिखि / संपत् सिद्धिः सब्रह्म साधूनाम् संपन्नं बह्मेत्यर्थः / साकल्यमशेषता सतृणमत्ति [भक्षयति] न किञ्चित्त्यजति इत्यर्थः / अन्तः समाप्तिः सपिण्डैषणमधीते, पिण्डैषणापर्यन्तमधीते इत्यर्थः // 39 // ___अ० अधिस्त्रि / स्त्रीषु अधिकृत्य कथा प्रवृत्ता इति वाक्येऽधिस्त्रि / 'क्लीबे' (2 / 4/97) ह्रस्वः / सिः / 'अनतो लुप्' (1 / 4 / 59) / कुम्भस्य समीपं उपकुम्भम् / सिः / 'अमव्ययीभावस्यातोऽपञ्चम्याः' (3 / 2 / 2) अम् / एवं उपाग्नि / सुमद्रमिति मद्राणां समृद्धिरित्यर्थः / सुमगधं मगधानां मगधदेशे सुभिक्षमित्यर्थः / भिक्षाया अभावः, भिक्षा न लभ्यते / वर्षाणां संवत्सराणामतीतत्वम् वर्षाणि गतानीत्यर्थः / एवं निशीतं निहिमं शीतं हिमं गत इत्यर्थः / साम्प्रतं वर्तमानकाले / अतिकम्बलम्, एवं अत्यामम् / अर्थः कम्बलवत् ज्ञेयः / कम्बलस्योपभोगं प्रति नायं काल. इति उदाहरणार्थः / ज्येष्ठानुक्रमेण अत्र पङ्क्तौ उपविशतु इत्यर्थः / युगपत् एककालार्थः / एककालम् / समकालम् / सह चक्रेण सचक्रम् / चक्रेण सह एककालमन्यदपि वस्तु धारय / चक्राणि वा एककालं समकालं धारय / शब्दशक्तिस्वाभाव्यादन्यपदार्थप्रधानोऽयं शब्दः सचक्रमिति / सचक्रमित्यादिषु सपिण्डेषणमिति पर्यन्तेषु सर्वत्र सहशब्देन सह समासः / 'अकालेऽव्ययीभावे' (3 / 2 / 146) इति सूत्रेण सहशब्दस्थाने स इत्यादेशः कर्तव्योऽव्ययीभावे / किखि र्जीवविशेषस्तत्सदृशी लुंकडी इत्यर्थः / संपत्शब्दः सिद्धौ निष्पन्नौ संपन्नेऽर्थे वर्त्तते / एवं सवृत्तं मुनीनाम् / सक्षत्रमिक्ष्वाकूणाम् / निःशेषत्वम् / स्वभावादन्यपदार्थप्रधानोऽयं श्रुतस्कन्धादि सपिण्डैषणमिति शब्दसमासः / पिण्डैषणाध्ययनं दशवैकालिकश्रुतस्कन्धे पञ्चममध्ययनम् // 39 / / योग्यतावीप्सार्थानतिवृत्तिसादृश्ये // 3 // 1 // 40 // .. एष्वर्थेष्वव्ययं नाम नाम्ना सह पूर्वपदार्थे समस्यते / अव्ययीभावः / अनुरूपं चेष्टते-रूपस्य योग्यां चेष्टां करोतीत्यर्थः / वीप्सायाम् प्रत्यर्थं शब्दा अभिनिविशन्ते / अर्थानतिवृत्तिः पदार्थानतिक्रमः यथाशक्ति पठ। एवं यथाबलम् [शक्तिसारेण] / शक्तेरनतिक्रमेणेत्यर्थः / सादृश्ये-सशीलमनयोः-शीलस्य सादृश्यमित्यर्थः / एवं सव्रतमनयोः [व्रतस्य सादृश्यम्] // 40 // अ० प्रत्यर्थं कोऽर्थः ? / अर्थं अर्थ प्रति शब्दा अभिनिविशन्ते / एवं प्रतिपर्यायम् / वीप्सायां द्वितीयाया विधानाद्वाक्यमपि भवति / अर्थमर्थं प्रति इति // 40 // यथाऽथा // 3 // 1 // 41 // ____थाप्रत्ययवर्ज यथेत्यव्ययमव्युत्पन्नं नाम्ना सह पूर्वपदार्थे समस्यते / अव्ययीभावः स्यात् / यथारूपम् रूपानुरूपं चेष्टते / एवं यथावृद्धमर्चय ये ये वृद्धास्तानित्यर्थः / अथा इति किम् ? यथा चैत्रस्तथा मैत्रः॥४१॥ अ० यथासूत्रमनुतिष्ठति, सूत्रानतिवृत्त्या इत्यर्थः, इत्यप्युदाहरणं 'यथाऽथा' इति सूत्रे ज्ञेयम् / / 4 / / __गतिकन्यस्तत्पुरुषः // 3 // // 42 // गतिसञकाः शब्दाः कु इत्यव्ययं च नाम्ना सह नित्यं समस्यन्ते / स च समासोऽन्यो बहुव्रीह्यादिलक्षणरहितस्तत्पुरुषसंज्ञः स्यात् / ऊरीकृत्य / शुक्लीकृत्य / कु-कुत्सितो ब्राह्मणः [वाक्यम्] कुब्राह्मणः / कुपुरुषः / ईषदुष्णं [वाक्यम्] कोष्णम् कवोष्णम् कदुष्णम् / कामधुरम् / अव्ययमित्येव-कुर्विशाला [कुः पृथ्वी] /