________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः 223 प्रगतत्वमन्तस्य प्रान्तम् / अथवा प्रगतोऽन्तः प्रान्तम् / समत्वं पक्षस्य समपक्षम् / समानत्वं तीर्थस्य समानतीर्थम् / केशाकेशि इत्यादि केशेषु केशेषु गृहीत्वा कृतं युद्ध 'इच् युद्धे' (7 / 3 / 74) इच् / 'इच्यस्वरे दीर्घ आच्च' (3 / 2 / 72) इत्यनेन दीर्घः / एवं दण्डादण्डि / द्विमुसलि अत्र च द्वौ दण्डौ अस्मिन् प्रहरणे द्विदण्डि, द्वौ मुसलौ अस्मिन् तत् द्विमुसलि 'द्विदण्ड्यादिः' (7 / 3 / 75) इति सूत्रेण इच् निपात्यते / इजन्तमव्ययीभावसंज्ञं भवति / प्रगतत्वं सव्यस्य प्रसव्यम् / अपगतत्वं सव्यस्य अपसव्यम् / यस्मात् प्रभृति यत्प्रभृति / तत्प्रभृति // 36 / / नित्यं प्रतिनाल्पे // 3 // 1 // 37 // अल्पेऽर्थे वर्तमानेन प्रतिना सह नाम नित्यं समस्यते / अव्ययीभावसमासः / शाकस्याल्पत्वं [वाक्यं] शाकप्रति / अल्प इति किम् ? वृक्षं प्रति विद्योतते विद्युत् // 37 // __ अ० 'नित्यं प्रतिनाल्पे' इति सूत्रे पूर्वपदार्थे इत्यसंभवादुत्तरपदार्थप्राधान्यमिति ज्ञेयम् / अत्र नित्यमिति करणादन्यत्र वाक्यं समासश्च भवति / शाकप्रति इत्युदाहरणाग्रतः सूपस्य मात्रा इति वाक्ये सूपप्रति उदाहरणं ज्ञातव्यम् / / 37 / / सङ्ख्याक्षशलाकं परिणा द्यूतेऽन्यथावृत्तौ // 3 // 1 // 38 // सङ्ख्यानाम अक्षशलाके च द्यूतविषयेऽन्यथावृत्तौ [वर्त्तने] वर्तमानेन परिणा नाम्ना ऐकायें नित्यं समस्यते / अव्ययीभावसमासः स्यात् / एकपरि / एवं द्विपरि त्रिपरि चतुष्परि अक्षपरि शलाकापरि / सङ्ग्यादीति किम् ? पाशकेन न तथा वृत्तम् / परिणेति किम् ? अक्षेण परिवृत्तम् / द्यूत इति किम् ? रथस्याक्षेण न तथा वृत्तम् // 38 // अ० पञ्चिका नाम द्यूतं पञ्चभिरक्षैः शलाकाभिर्वा भवति / पश्चिकाङ्ते यदा सर्वेऽक्षा उत्ताना अवाञ्चो वा यदि पतन्ति तदा पातयितुर्जयो भवति, अन्यथापतने पराजयः / एकेनाक्षेण शलाकया वा न तथा वृत्तं प्रवृत्तं यथा पूर्वं जये इति वाक्ये सति एकपरि / एवं द्वाभ्यां त्रिभिः चतुर्भिरक्षैः शलाकाभिर्वा न तथा वृत्तं यथा पूर्वं जये इति वाक्ये द्विपरि त्रिपरि चतुष्परि / पञ्चसु अक्षेषु एकरूपेषु पतितेषु जय एव भवति / अक्षेणेदं न तथा वृत्तं यथा पूर्वं जये इति वाक्ये अक्षपरि / शलाकया इदं न तथा वृत्तं यथा पूर्वं जये इति वाक्ये शलाकापरि / अक्षशलाकाशब्दद्वयं च समस्यते / अक्षेण परिवृत्तमित्यत्रायं परिशब्दो वाचको न तु द्योतकः / अत्र तु द्योतक एवास्ति / 'सङ्ख्याक्षशलाकं परिणा०' इति सूत्रे परिशब्दो द्योतको गृह्यते इति भावः // 38 // विभक्तिसमीपसमृद्धिव्यृद्धयर्थाभावात्ययासंप्रतिपश्चात्क्रमख्यातियुगपत्सदृक्संपत्सा कल्यान्तेऽव्ययम् // 3 // 1 // 39 // . विभक्त्याद्यर्थेषु वर्तमानमव्ययं नाम नाम्नैकार्थ्ये पूर्वपदार्थे वाच्ये नित्यं समस्यतेऽव्ययीभावः स्यात् / विभक्तिः विभक्त्यर्थः कारकम् / अधिस्त्रि निधेहि स्त्रीषु निधेहीत्यर्थः [निक्षिपः] / समीपे उपकुम्भम् / गद्धेराधिक्यं समृद्धिः / सुमद्रम् सुमगधम् सुभिक्षम् / विगता ऋद्धिः व्यृद्धिः ऋद्धयभावः / दुर्यवनम् यवनानामृद्ध्यभाव इत्यर्थः, एवं दुर्भिक्षम् / अर्थाभावे निर्मक्षिकम् निर्मशकम् निर्वातम् / अत्ययोऽतीतत्वम् सत [विद्यमानस्य] एवातिक्रान्तत्वम् अतिवर्षम् अतिशीतम् / असंप्रति साम्प्रतमुपभोगाद्यभावः अतिकम्बलम् / पश्चात् अर्थे अनुरथम्, रथस्य पश्चात् यातीत्यर्थः / क्रम आनुपूर्व्यम् अनुज्येष्ठं अनुवृद्धं साधूनर्चय [वन्दय] / ख्यातिः, प्रसिद्भिः] इति भद्रबाहु एवं तद्भद्रबाहु अहो भद्रबाहु / भद्रबाहुशब्दो लोके प्रकाशते इत्यर्थः ख्याति प्रसिद्धिं