________________ 222 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते योगे, ततोऽयमर्थः प्रतिनिवृत्त्य पुनः सुग्ध्नमेवाभिमुखं गत इत्यर्थः // 33 // दैर्येऽनुः // 3 // 1 // 34 // अनुशब्दो दैर्ये आयामविषये यल्लक्षणं तद्वाचिना नाम्ना [सह] पूर्वपदार्थे [वाच्ये] समस्यतेऽव्ययीभावसमासः स्यात् / अनुगङ्गं वाराणसी / अनुयमुनं मथुरा / दैर्घ्य इति किम् ? वृक्षमनुविद्योतते विद्युत् // 34 // अ० अनु गङ्गां दीर्घा वाराणसी इति वाक्ये अनुगङ्गं वाराणसी इति उदाहरणम् / अनु यमुनां दीर्घा मथुरा इति वाक्ये अनुयमुनं मथुरा / गङ्गाया लक्षणभूताया तथा यमुनाया लक्षणभूताया आयामेन वाराणस्या मथुराया आयाम दैर्घ्य लक्ष्यते इत्यर्थः / / 34 / / समीपे // 3 // 1 // 35 // ___ समीपार्थे वर्तमानोऽनुशब्दोऽर्थात्समीपिवाचिना नाम्ना [सह] पूर्वपदार्थे [वाच्ये सति] समस्यतेऽन्ययीभावसमासः स्यात् / अनुवमशनिर्गतःता] [अनुवनस्य इति वाक्यम्] / [अनुनृपस्य] अनुनृपं पिशुनाः / पृथग्वचनं +लक्षणेनेत्यस्य निवृत्त्यर्थम् // 35 // अ० + 'लक्षणेनाभिप्रत्याभिमुख्य' (3 / 1 / 33) इति सूत्रस्य // 35 / / तिष्ठग्वित्यादयः // 3 // 1 // 36 // तिष्ठद्गु इत्यादयः समासशब्दा अव्ययीभावसंज्ञाः स्युः / यथायोगमन्यपदार्थे पूर्वपदार्थे च वाच्ये / तिष्ठद्ग वहद् आयतीगवम् एतेऽन्यपदार्थे [काललक्षणे] / खलेयवं इत्यादयोप्यन्यपदार्थे काले। नाभेरधोऽधोनाभम् निपातनादत्समासान्तः पूर्वपदार्थप्रधानोऽयम् / समत्वं भूमेः समभूमि समपदाति / [समत्वं पदातेः समत्वं भूमेरितिवाक्यम्] / समभूमि समंपदाति अत्र मान्तत्वमपि निपात्यते / तथा सुषमम् विषमम् निष्षमम् दुष्षमम् अपरसमम् / उत्तरपदार्थप्राधान्ये तु तत्पुरुष एव / शोभनाः समाः [वाक्यम्] सुषमाः / शोभने समे [वाक्यम्] सुषमे / प्ररथम् प्रमृगम् प्रदक्षिणम् / तथा एकत्वमन्तस्य [वाक्यं] एकोऽन्त [वाक्यं] इति वा एकान्तम् / एवं प्रान्तं समपक्षं समानतीर्थम् / तथा युद्धे इजन्तं च / केशाकेशि दण्डादण्डि द्विदण्डि द्विमुसलि / तिष्ठद्ग्वादिराकृतिगणः / तेन प्रसव्यं अपसव्यं यत्प्रभृति तत्प्रभृति इतःप्रभृतीत्यादि सिद्धम् // 36 // अ० तिष्ठन्ति गावो यस्मिन् काले गर्भग्रहणाय दोहाय वाहाय वत्सेभ्यो निवासाय जलपानार्थं वा स कालः तिष्ठद्गु इत्युच्यते / वहन्ति गावो यस्मिन् काले स वहद्गु उच्यते / आयत्यो गावो यस्मिन् काले देशे वा स आयतीगवमित्युच्यते / अत्र पूर्वपदस्य पुंवद्भावाभावः समासान्तश्च निपातनात् कार्यः / समभूमि समभूमि इत्यादयः पूर्वपदार्थप्रधाना एते प्रयोगाः / उत्तरपदार्थप्राधान्ये तु समाभूमिरिति वाक्ये समभूमिः समपदातिः इति कर्मधारय एव / 'निर्दुःसुवेः समसूतेः' (2 / 3 / 56) इत्यनेन षत्वम् / शोभनत्वं समस्य, अथवा शोभनत्वं समायाः, शोभना समा यत्र वा इति वाक्यत्रये सुषमम् एवं विषमत्वं समस्य, विषमत्वं समायाः, विषमा समा यत्र विषमम् / तथा निर्गतत्वं समस्य, निर्गतत्वं समायाः, निर्गता समा यत्र निष्षमम् / दुष्टत्वं समस्य, दुष्टत्वं समायाः, दुष्टा समा यत्र दुष्षमम् - / अपरत्वं समस्येत्यादि / एते 4 पूर्वपदार्थप्राधान्ये ज्ञेयाः / प्ररथं प्रभृगं प्रदक्षिणं-प्रगता रथा अस्मिन् प्ररथम्, प्रनष्टा मृगा अस्मिन् देशे प्रमृगम्, प्रकृता दक्षिणा अस्मिन् प्रदक्षिणम् / एवं प्रगतत्वं प्रकृष्टत्वं वाह्नः; अथवा प्रक्रान्तमहरस्मिन् प्राणम् / अत्र निपातनादह्रादेशः / एतेऽपि पूर्वपदार्थे / अन्यत्र प्रगता मृगा अस्माद्देशात् प्रमृगो देशः / प्रान्तमिति