________________ 221 श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः द्भुक्तमिति नाबधारयति // 31 // ___अ० यावत् शब्दोऽव्ययोऽपि / अव्ययपक्षे यावत् शब्दात् प्रथमा सिः / 'अव्ययस्य' (3 / 2 / 7) इति लुप् / यावदमत्राणि इति वाक्यं कार्यम् / अनव्ययपक्षे तु यावच्छब्दात् प्रथमा जस् / यावन्त्यमत्राणि इति वाक्यम् / यावानोदन इति वाक्यम् / यावानवकाशः इति वाक्यम् / असमस्तमिदमत एव तावदित्युपादीयते, समासे हि गुणीभूतत्वात्तावदित्यस्योपादानाभावः स्याद्यथा यावदमत्रमित्यत्र // 31 // पर्यपाङ्बहिरच् पञ्चम्या // 3 // 1 // 32 // परि अप आङ् बहिः अञ्च् इति शब्दाः पञ्चम्यन्तनाम्ना सह पूर्वपदार्थे वाच्ये समस्यन्ते अव्ययीभावसमासः स्यात् / परित्रिगतम् अपत्रिगर्त्तम् आग्रामम् बहिर्ग्रामम् / प्राग्रामम् प्रत्यग्ग्रामम् अपारग्रामम् उदग्ग्रामं वृष्टो मेघः / प्रतिपदविहितायाश्च पञ्चम्या ग्रहणादिह नाव्ययीभावः-अपगतः शाखायाः अपशाखः // 32 // अ० अपपरिशब्दौ वर्जनार्थौ ‘पर्यपाभ्यां वर्षे' (2 / 2 / 71) इति सूत्रेणात्र पञ्चमी / परित्रिगर्तेभ्य इति वाक्यम् परित्रिगतम् इत्युदाहरणम् / एवं अपत्रिगर्तेभ्य इति वाक्यम् अपत्रिगर्त्तमुदाहरणम् / त्रिगर्त्तदेशं वर्जयित्वा मेघो वृष्टः / आग्रामात् इति वाक्यम् 'आङावधौ' (2 / 2 / 70) इत्यनेनात्र पञ्चमी, आग्राममुदाहरणम् / बहिामात् इति वाक्यम्, अत्र 'प्रभृत्यन्यार्थदिक्शब्दबहिरारादितरैः' (2 / 2 / 75) इत्यनेन पञ्चमी, बहिाममुदाहरणम् / प्राग्ग्रामात् प्रत्यग्ग्रामात् अपारग्रामात् उदग्ग्रामात् इति वाक्यानि / अत्रापि 'प्रभृत्यन्यार्थ०' (2 / 2 / 75) इत्यनेन पञ्चमी / प्राग्रामं इत्यादि उदाहरणानि / अत्रायं विशेषः / पर्यपाङऽव्ययसाहचर्यादञ्चतिरपि धाप्रत्यय-एनप्रत्ययलुबन्तोऽव्ययो गृह्यते / तथाहि प्र अञ्च, प्राञ्चतीति० उदश्चतीति क्विप् 'अञ्चोऽनर्चायाम्' (4 / 2 / 46) इति न्लोपः प्राच् प्रत्यच् अपाच उदच् / 'अञ्चः' (2 / 4 / 3) इत्यनेन ङीः / प्राची दिग् दूरा रमणीया / प्राग्देशः प्राक्कालो वा रमणीयः / एवं प्रतीची अपाची उदीचीत्यादि वाक्यानि 'दिक्शब्दादिग्देशकालेषु प्रथमापञ्चमीसप्तम्याः' (7 / 2 / 113) इति सूत्रेण धाप्रत्ययः / 'लुबञ्चेः' (7 / 2 / 123) इति सूत्रेण धाप्रत्ययो लुप्यते / अथवा प्राच् प्रत्यच् अपाच् उदच् 'अञ्चः' (2 / 4 / 3) इति डीः / प्राची दिग् (अ)दूराऽस्माद्रमणीया प्राग् देशः कालो वा / एवमन्यवाक्यानि / 'अदूरे एनः' (7/2 / 122) इति सूत्रेण एनप्रत्ययः / 'लुबञ्चेः' (7/2 / 123) इत्यनेन एनो लुप्यते / लुपि ‘ङ्यादेौणस्या०' (2 / 4 / 95) इत्यनेन डीलृप्यते / ततः प्रथमा सिः / 'अव्ययस्य' (3 / 27) इति लुप् / इति परिणा प्रागादयोऽव्यया गृह्यन्ते / तेनेह न स्यात् / प्राङ् ग्रामाच्चैत्रः / लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति न्यायात् अपशाख इत्यत्र ‘प्रात्यवपरिनिरादय०' (3 / 1 / 47) इत्यनेन तत्पुरुषः // 32 // . लक्षणेनाभिप्रत्याभिमुख्ये // 3 // 1 // 33 // लक्षणं चिह्नम् / लक्षणवाचिना नाम्ना आभिमुख्य वर्त्तमानौ अभिप्रतिशब्दौ समस्येते पूर्वपदार्थे वाच्येऽव्ययीभावः स्यात् / अभि अग्निं [वाक्यमिदं] अभ्यग्नि, प्रत्यग्निं [वाक्यं] प्रत्यग्नि शलभाः पतन्ति : अग्निं लक्षीकृत्याभिमुखं शलभाः पतन्तीत्यर्थः / लक्षणेनेति किम् ? मुघ्नं प्रति गतः / पूर्वपदार्थ इत्येव / अभिमुखोऽङ्को यासां ता अभ्यङ्का गावः // 33 // अ० अभ्यग्नि प्रत्यग्नि-अत्राग्निना शलभपातो लक्ष्यते इति अग्निर्लक्षणम् / अव्ययीभावात्क्रियाविशेषणत्वादुत्पन्नस्य अमो लुप् ‘अनतो लुप्' (3 / 2 / 6) इत्यनेन / गत इति कर्तरि क्तः, सुग्नं इत्यत्र कर्मणि द्वितीया, न तु प्रतिना