________________ 220 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते __अन्यपदार्थे इति निवृत्तं समाहारे इति भणनात् / सङ्ख्यानाम नदीवाचिनामभिः समस्यते, समाहारे गम्यमाने अव्ययीभावसंज्ञः समासः स्यात् / द्वियमुनम् त्रिगङ्गम् पञ्चनदम् सप्तगोदावरम् / समाहार इति किम् ? एकनदी / [द्वे इरावत्यौ यत्र] द्वीरावतीको देशः / द्विगुबाधनाथ वचनम् // 28 // ___ अ० द्वयोर्यमुनयोः समाहारो द्वियमुनम् / एवं तिसृणां गङ्गानां समाहारः त्रिगङ्गम्, पञ्चानां नदीनां समाहारः पश्चनदम्, सप्तानां गोदावरीणां समाहारः सप्तगोदावरम् / एषु अव्ययीभावत्वे द्वियमुनम् त्रिगङ्गम् अत्र ‘क्लीबे' (2 / 4 / 97) इत्यनेन ह्रस्वः / पञ्चनदम् सप्तगोदावरम् अत्र तु 'सङ्ख्याया नदीगोदावरीभ्याम्' (7 / 3 / 91) इति सूत्रेण अत्समासान्तः / सर्वत्र प्रथमा सिः 'अमव्ययीभावस्यातोऽपञ्चम्याः' (3 / 2 / 2) इति सूत्रेण सिस्थानेऽम् / एतानि अव्ययीभावत्वे फलानि // 28 // वश्येन पूर्वार्थे // 3 // 1 // 29 // सङ्ख्यावाचि नाम वंश्यवाचिना नाम्ना सह समस्यते / पूर्वपदस्यार्थे [पूर्वपदस्यार्थेऽभिधेये] वाच्ये [सति] अव्ययीभावः समासः स्यात् / एकमुनि व्याकरणस्य, एवं द्विमुनि त्रिमुनि / यदा तु विद्यया तद्वतामभेदविवक्षा तदा एकमुनिव्याकरणम्, एवं द्विमुनि त्रिमुनि व्याकरणमिति सामानाधिकरण्यं भवति / सप्तकाशि राज्यस्य। त्रिकोशलं राज्यस्य / पूर्वार्थ इति किम् ? द्विमुनि द्विमुनिकं व्याकरणम् / द्विमुनिरागतः // 29 // ___ अ० वंश्य इति कोऽर्थः ? विद्यया जन्मना. वा प्राणिनामेकलक्षणः सन्तानो वंश उच्यते / वंशे भवो वंश्यः। स इहाद्यः कारणपुरषो वंश्यो गृह्यते ज्ञातव्यो वा / पूर्वस्य पदस्यार्थः पूर्वार्थः तस्मिन् / एको मुनिर्वैश्य इति वाक्यम् एवं द्वौ मुनि वंश्यौ, त्रयो मुनयो वंश्याः, इति वाक्यानि एकमुनि व्याकरणस्य, द्विमुनि व्याकरणस्य, त्रिमुनि व्याकरणस्य / पूर्वपदार्थप्राधान्याच्च यथाक्रमं मुनिशब्दात् प्रथमा सि औ सज् / 'अनतो लुप्' (3 / 2 / 6) इति सूत्रेण सि औ जस् लुप्यते / व्याकरणस्य इति भिन्नम् (पदम् [अतोऽन्यपदार्थाभावान्न बहुव्रीहिः] ?) / सप्तकाशयो वंश्या इति वाक्यम् / त्रयः कोशला वंश्या इति वाक्यम् / द्वौ मुनी वंश्यावस्य ततो द्विमुनि द्विमुनिकम्, अत्र 'शेषाद्वा' (7 / 3 / 175) इति सूत्रेण विकल्पेन कच् समासान्तः / द्वौ मुनी वंश्यावस्य स द्विमुनिः आगतः / अन्यपदार्थे बहुव्रीहिः प्रवृत्तः / / 29 / / पारेमध्येऽग्रेऽन्तः षष्ठ्या वा // 3 // 1 // 30 // पारे मध्ये अग्रे अन्तः इति शब्दाः षष्ठ्यन्तनाम्ना वा समस्यन्ते पूर्वपदार्थे वाच्ये अव्ययीभावः स्यात् / पारे गङ्गायाः पारेगङ्गम् / पारेसमुद्रम् / मध्येगङ्गम् / अग्रेवणम् / अन्तर्गिरेरन्तगिरम्, अन्तर्गिरि-पक्षे षष्ठीसमासोऽपि। गङ्गायाः पारं गङ्गापारम्, गङ्गाया मध्यं गङ्गामध्यम्, वनस्य अग्रं वनाग्रम्, गिरेरन्तमध्यं गिर्यन्तः // 30 // ___ अ० पारं गङ्गायाः इति वाक्ये पारेगङ्गम् / पारं समुद्रस्य इति वाक्ये पारेसमुद्रम् / मध्यं गङ्गाया इति वाक्ये मध्येगङ्गम् / एवं मध्येसमुद्रम् / अग्रं वनस्य इति वाक्ये अग्रेवणम् / एषु त्रिषु उदाहरणेषु पार-मध्य- अग्र शब्दत्रयाणां पारे मध्ये अग्रे इति सूत्रपाठबलात् एकारान्तत्वं निपात्यते / अन्तगिरेः इति वाक्ये अन्तर्गिरम् अन्तर्गिरि / 'गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवर्गाद्वा' (7 / 3 / 90) इति सूत्रेण अत्-समासान्तः // 30 // __यावदियत्त्वे // 3 // 1 // 31 // इयत्त्वेऽवधारणे गम्यमाने यावदिति नाम नाम्ना समस्यते पूर्वपदार्थे अव्ययीभावसमासः स्यात् / यावदमत्रं यावदोदनं यावदवकाशं अतिथीन् भोजय / इतत्त्वमिति किम् ? यावद्दत्तं तावद्भुक्तम् / कियद्दत्तम् किय