________________ * श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः 219 ____अ० दक्षिणास्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं कोणकलक्षणं सा दक्षिणपूर्वा दिक्-आग्नेयी विदिक् / पूर्वस्याश्च उत्तरस्याश्च दिशोर्यदन्तरालं सा पूर्वोत्तरा ईशानी विदिक् / उत्तरस्याश्च पश्चिमायाश्च दिशोर्यदन्तरालं सा उत्तरपश्चिमा वायवी विदिक् / दक्षिणस्याश्च पश्चिमायाश्च यदन्तरालं सा दक्षिणपश्चिमा दिक्-नैरितकोणः / सर्वत्र ‘सर्वादयोऽस्यादौ' (3 / 2 / 61) इति सूत्रेण पूर्वपदस्य पुंवद्भावः / / 25 / / ___ तत्रादाय मिथस्तेन प्रहत्येति सरूपेण युद्धेऽव्ययीभावः // 3 // 1 // 26 // तत्रेति सप्तम्यन्तं नाम, मिथ आदायेति क्रियाव्यतिहारे, तेनेति तृतीयान्तम्, मिथः प्रहत्येति क्रियाव्यतिहारे, सरूपेण समानरूपेण, नाम्ना सह युद्धविषयेऽन्यपदार्थे समस्यते / स च समासोऽव्ययीभावसंज्ञः स्यात् / [मिथो गृहीत्वा इत्यर्थे प्रयोगौ] केशाकेशि / बाहूबाहवि / [मिथः प्रहृत्य इत्यर्थे प्रयोगाः] दण्डादण्डि मुष्टामुष्टि अस्यसि / तत्रेति तेनेति किम् ? केशांश्च केशांश्च गृहीत्वा कृतं युद्धम् / मुखं च मुखं च प्रहृत्य कृतं युद्धम् / आदायेति प्रहृत्येति च किम् ? केशेषु च केशेषु च स्थित्वा कृतं युद्धम् (गृहकोकिलाभ्याम्) / दण्डैश्च दण्डैश्च आगत्य कृतं युद्धमेताभ्याम् / मिथ इति क्रियाव्यतिहारः किम् ? +केशेषु च केशेषु च गृहीत्वा युद्धमनेन / सरूपेणेति किम् ? हस्ते च पादे च गृहीत्वा कृतं युद्धम् / युद्ध इति किम् ? हस्ते च हस्ते च गृहीत्वा कृतम् सख्यम् [मैत्री] / अव्ययीभावप्रदेशा 'अमव्ययीभावस्यातोऽपञ्चम्याः' (3 / 2 / 2) इत्यादयः // 26 // - अ० युद्धे इति विषयसप्तमीनिर्देशात् युद्धोपाधिकायामन्यस्यामपि क्रियायां सत्यां अव्ययीभावो भवति / यथा बाहूबाहवि व्यासृजेताम् / तथा माघे / 'रोषावेशादाभिमुख्येन कौचित् पाणिग्राहं रंहसैवोपयातौ / हित्वा हेतीमल्लवन्मुष्टिघातं घ्नन्तौ बाहूबाहवि व्यासृजेताम् // 18 सर्गे 12 श्लोकः / केशेषु च केशेषु च मिथो गृहीत्वा कृतं युद्धं केशाकेशि / बाहु / बाहु / बाह्वोश्च बाह्वोश्च मिथो गृहीत्वा कृतं युद्धं बाहूबाहवि / दण्ड दण्ड / दण्डैश्च दण्डैश्च मिथः प्रहृत्य कृतं युद्धं दण्डादण्डि / मुष्टि मुष्टि / मुष्टिभिः मुष्टिभिश्च, एवं यष्टिभिः यष्टिभिश्च मिथः प्रहृत्य कृतं युद्धं इति वाक्ये सर्वत्र ‘इच् युद्धे' (7 / 3 / 74) इति सूत्रेण इच्समासान्तः / ‘इच्यस्वरे दीर्घ आँच्च' (3 / 2 / 72) इति सूत्रेण नाम्यन्तानां दीर्घ आकारौ च / बाहूबाहवि बाहाबाहवि प्रयोग 2 / मुष्टिमुष्टि मुष्टामुष्टि, यष्टीयष्टि यष्टायष्टि इति प्रयोगद्वंयं द्वयम् / यत्र अकारान्तत्वं तत्र आकार एव आदेशः / यथा केशाकेशि दण्डादण्डि इति एक एव प्रयोगः / बाहाबाहविः इत्यत्र ‘अस्वयंभुवोऽव्' (7 / 4 / 70) इति अवादेशः / +अत्र एकः सकेशः अन्यश्च मुण्डः इति मिथः क्रियाव्यतिहार अभावः / / 26 / / नदीभिर्नाम्नि // 3 // 27 // नदीवाचिभिर्नामभिर्नाम समस्यते / नाम्नि संज्ञायामन्यपदार्थे अव्ययीभावसमासः स्यात् / उन्मत्तगङ्गं देशः / लोहितगङ्गं देशः / अन्यपदार्थे इत्येव / कृष्णवेण्णा // 27 // .. अ० 'नदिभिर्नाम्नि' इति सूत्रे नदीभिरिति बहुवचननिर्देशो गङ्गायमुनादिनदीविशेषग्रहणार्थः, न तु निम्नगासरित्आपगादिपर्यायाणाम् / 'सङ्ख्या समाहारे' इत्यत्र च पञ्चनदम् सप्तगोदावरमिति स्वरूपशब्दग्रहणार्थश्च / उन्मत्ता गङ्गा यत्र देशे स उन्मत्तगङ्गं देशः, एवं लोहितगङ्गम् ‘क्लीबे' (2 / 4 / 97) इति सूत्रेण ह्रस्वः / ‘अतः स्यमोऽम्' (1 / 4 / 57) / तथा कृष्णा चासौ वेण्णा च / वेण्णा नाम नदी // 27 / / सङ्ख्या समाहारे // 3 // 1 // 28 //