________________ 218 'कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते (7 / 3 / 105) इति सूत्रेण गोशब्दात्. अट्समासान्तः / 'अस्वयंभुवोऽव्' (7/4/70) इति अव् / एवं पञ्चनावः प्रिया अस्य पञ्चनावप्रियः / 'नावः' (7 / 3 / 104) इति सूत्रेण नौशब्दात् अट्समासान्तः / मत्ता बहवो मातङ्गा यस्मिन् वने तत् मत्तबहुमातङ्गं वनम् // 22 // - उष्ट्रमुखादयः // 3 // 1 // 23 // उष्ट्रमुखादिशब्दा बहुलं बहुव्रीहिसमासा निपात्यन्ते / उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः / वृषस्कन्ध इव स्कन्धोऽस्य वृषस्कन्धः / हरिणाक्षिणी इवाक्षिणी यस्याः सा हरिणाक्षी। हंसगमनमिव गमनमस्याः हंसगमना। एवं [चन्द्रवत् मुखमस्याः] चन्द्रमुखी / [कमलमिव वदनमस्याः] कमलवदना / बिम्बोष्ठी / पितुरिव [पितुर्जनकस्येव] स्थानमस्य पितृस्थानः / पितरीव स्थानीयमस्मिन् पितृस्थानीयः / एषूपमानं [चन्द्रादिः] उपमेयेन [मुखादिना सह] सामान्यवाचिना सह समस्यते / उपमेयसरूपस्य [मुखं इव वत् इत्यादि] चोपमानपदस्य यथासम्भवं लोपः। तथा प्रपतितानि पर्णान्यस्य प्रपर्णः प्रपतितपर्णः / [प्रपतितानि पलाशान्यस्य] प्रपलाशः प्रपतितपलाशः / [उद्गत उदयंगतो रश्मिरस्य] उद्रश्मिः उद्गतरश्मिरित्यादिषु प्रादिपूर्व धातुजं पदं [पतित इत्यादिकं] समस्यते / तस्य च विकल्पेन लोपः / [पतितगतशब्दयोर्लोपः] / बहुवचनमाकृतिगणार्थम् // 23 // अ० तथा अविद्यमानः पुत्रोऽस्य इति वाक्ये अपुत्रः अविद्यमानपुत्रः इत्युदाहरणद्वयम् / अत्र नपूर्वं अस्त्यर्थं पदं विद्यमान इति रूपं समस्यते / तस्य विद्यमान इति पदस्य विकल्पेन लोपः / इयमवचूरिर्विकल्पेन लोप इत्यक्षराग्रतो ज्ञेया // 23 // सहस्तेन // 3 // 1 // 24 // * सह इति नाम तुल्ययोगे विद्यमानार्थे च वर्तमानं तेनेति तृतीयान्तेन नाम्नाऽन्यपदार्थे समस्यते, बहुव्रीहिसमासः स्यात् / तुल्ययोगे-सहपुत्रेण सपुत्र आगतः। विद्यमानार्थे-सकर्मकः सलोमकः सपक्षकः सधनः इत्यादि / सह इति किम् ? +साकं पुत्रेण / बहुलाधिकाराद्विद्यमानार्थेऽपि कचिन भवति / 'सहैव दशभिः पुत्रैर्भारं वहति गर्दभी' / प्रथमान्तान्यपदार्थं योगः [सूत्रमिदं कृतम्] / एवमुत्तरोऽपि // 24 // ___अ० तेन इति तृतीयान्तप्रतिरूपकशब्दात् परतो निपातनात्तृतीया। सूत्रत्वात् तृतीया लुप्यते / क्रियागुणद्रव्यैरुभयोः पितृपुत्रयोर्गुरुच्छात्रयोः सदृशः सम्बन्धः तुल्ययोग उच्यते / अत्रागमनं उभयोस्तुल्यं सदृशम् / एवं सच्छात्रः आगतः। सह कर्मणा, सह लोम्ना, सह पक्षेण, सह धनेन, एवं सह मदेन, सह क्रोधेन, सह विद्यया वर्त्तते इति वाक्यानि / एषु सर्वत्र विद्यमानता सहार्थो न तुल्ययोगः / +एवं सार्धं पुत्रेण, सत्रा पुत्रेण, अमा पुत्रेण इत्यपि ज्ञेयम् / सहैव दशभिरित्यत्र गर्दभीपुत्राणामस्तित्वमेव विवक्षितं न तु वहनम् / सहैव धनेन भिक्षां भ्रमति इत्यपि उदाहरणं ज्ञेयम् / सकर्मकादात्मनेपदमित्युक्ते यथा धातोरात्मनेपदं न तथा कर्मणोऽपि / सलोमको भोज्यतामित्युक्ते यथा पुरुषो भोज्यते न तथा लोमान्यपि इति विद्यमानार्थभावना // 24 / / दिशो रूढ्यान्तराले // 3 // // 25 // रूढ्या प्रसिद्धया] दिशः सम्बन्धि नाम रूढ्येव दिशः सम्बन्धिना नाम्ना[सह]ऽन्तरालेऽन्यपदार्थे [वाच्ये सति] समस्यते / बहुव्रीहिसमासः / दक्षिणपूर्वा दिक् / एवं पूर्वोत्तरा उत्तरपश्चिमा दक्षिणपश्चिमा / रूढिग्रहणं यौगिकनिवृत्त्यर्थम् / तेन ऐन्द्रयाश्च कौबेर्याश्च दिशोर्यदन्तरालमिति वाक्यमेव // 25 //